विश्वौषधसंस्थानाम् आक्रमणम्

विकिस्रोतः तः
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । अस्मिन् लेखे भारतस्य उपरि विश्वौषधसंस्थानैः क्रियमाणस्य आक्रमणस्य विषये चर्चा कृता अस्ति ।


विश्वौषधसंस्थानाम् अमेरिकीयशीघ्राहारस्य (जंकफुड्, फास्टफुड् इत्यादीनाम्) अमेरिकीयसंस्कृतेश्च आक्रमणं भारतस्य उपरि अविरतम् अनुवर्तते । ‘वाल् स्ट्रीट् जर्नल्’ इत्यस्य ‘मिण्ट्’वृत्तपत्रिका विदेशस्य (मुख्यरूपेण अमेरिकाया:) परोक्षरूपेण प्रचारिका अस्ति । औषधसंस्था: औषधानि विक्रेतुं नूतनान् रोगान् अपि आविर्भावयन्ति । यथा - ‘ग्लास्को’संस्थया कृतम् । तया संस्थया नूतन: एव रोग: प्रादुर्भावित: - ‘रेस्टलेस् लेग् सिण्ड्रोम्’नामक: !!

केचन निद्रायां पादं सञ्चालयन्ति सहजतया । एषा प्रवृत्ति: द्विप्रतिशतं (2%) जनानाम् एव सम्भवति । ते रोगित्वेन न निर्दिश्यन्ते । परं ‘ग्लास्को’संस्थया ते रोगित्वेन निर्दिष्टा: । तस्य रोगस्य नाम तै: निर्दिष्टं - ‘आर्.एस्.एस्.’ (रेस्ट्लेस् लेग् सिण्ड्रोम्) इति !! तया एतदर्थम् एकम् औषधम् आपणे न्यस्तम् । दूरदर्शनादौ तस्य अनावश्यकस्य ‘स्किवीय’नामकस्य औषधस्य प्रचारार्थं 108 कोटिरूप्यकाणां व्यय: तया विहित: । लण्डनस्थया ‘डेली टेलिग्राफ्’नामिकया पत्रिकया तस्य औषधस्य नैरर्थ्यम् उद्घोषितम् । ‘न्यू सायण्टिस्ट्’नामकेन विज्ञान-साप्ताहिकेन अपि प्रकाशितं यत् ग्लास्कोसंस्थया धनार्जनार्थम् एव नूतन: रोग: आविष्कृत: इति ।

अमेरिकीया: पत्रिका: भारतीयौषधसंस्था: चीनौषधसंस्थाश्च सततं निन्दन्ति - अत्र कृत्रिमौषधस्य निर्माणं बहुधा प्रचलति इति । परम् अमेरिकायाम् अपि तत् प्रचलति एव । कर्करोगस्य कृते ‘डि.सि.ए.’नामकम् (सोडियम् डिक्लोरा एसिटेट्) औषधं प्रभाव-शालि अस्ति इति ‘वेब्सैट्’द्वारा चिरं प्रचारितम् अमेरिकायाम् । सहस्रश: जनै: तदौषधं क्रीतं, कोटिश: डालराणि व्ययीकृतानि च । किन्तु तत् आसीत् कृत्रिमौषधम् । तस्य कृत्रिमता यदा ज्ञाता तदा ‘फेडरल् ड्रग् एडमिनिस्ट्रेशन्’ इत्यनेन तस्य ‘वेब्सैट्’प्रचारस्य स्थगनं कारितम् ।

अमेरिकीयसर्वकारेण ‘कौन्सिल् ओन् सायन्स् एण्ड् हेल्थ्’ इति काचित् संस्था विरचिता अस्ति । एतया संस्थया अस्मदीयस्य आयुर्वेदौषधस्य उपरि आक्रमणं क्रियते । सा च अजस्रं भारतीयौषधं निन्दति । एतस्यै संस्थायै अमेरिकीया पेप्सीसंस्था मोनसाण्टोसंस्था (या ‘जिनेटिक’बीजानि निर्मापयति) सेक्रेरीन-निर्मात्री संस्था च आर्थिकसाहाय्यं ददाति । ‘न्यूट्रास्वीर’संस्था (या शिशूनां कृते हानिकराणि मधुरवस्तूनि निर्माति) ‘जी.डी.सर्ल’-संस्था च 42 लक्षं रूप्यकाणि एतस्यै संस्थायै दत्तवत्यौ । ‘सिगारेट’निर्मात्रीसंस्थानां साहाय्याय अनया संस्थया उद्घुष्टं यत् महानगरे अन्ये जना: कामं धूमपानं कुर्वन्तु, परं ये तत्रैव वसन्त: ‘सिगारेट’-पानं न कुर्वन्ति, न तेषां काचित् हानि: भवति, ये जना: सिगारेटधूमादपि हृदयरोगकर्करोगोत्पत्तिं मन्यन्ते तेषामिदं मतं भ्रान्तिमूलम् एव इति । वस्तुत: ये स्वयं धूमपानं न कुर्यु: तादृशा: 38 सहस्रमिता: जना: अन्यै: क्रियमाणस्य धूमनिस्सारणस्य कारणात् एव प्रतिवर्षं म्रियन्ते अमेरिकायाम् एव । ‘झड्’ इत्याख्येन वृत्तपत्रेणाऽपि इयं वार्ता प्रकाशिता अस्ति ।

1996 क्रिस्ताब्दे वस्त्रनिर्माणयन्त्रागारे (टेक्स्टैल् मिल्) विषमयान्नभक्षणात् द्विपञ्चाशत: जनानां मरणम् अजायत । सा वार्ता अमेरिकीया ‘न्यूयाकर् टैम्स्’पत्रिकया प्रकाशिता । ‘अहो ! भारतीयानां जीवितविषये चिन्ता तेषाम् !’ इति मन्यामहे वयम् । परन्तु ब्रिटन्देशे 2006 क्रिस्ताब्दे ‘केडबरी’चाकलेहे जातस्य ‘आल्मेण्डेला’नामकस्य जन्तो: कारणात् त्र्यशीति: बाला: रुग्णा: जाता: । एतस्या: वार्ताया: प्रकाशनस्य स्थगनाज्ञा विहिता तत्रत्यया ‘फूड् स्टेण्डडर् एजन्सी’ इत्यनया संस्थया । आपणात् 10 लक्ष-मिता: चाकलेहा: प्रतिगृहीता: । एतस्यां वार्तायां प्रसृतायाम् अपि पञ्च मासान् यावत् ते चाकलेहा: विक्रीयमाणा: एव आसन् इति लण्डनस्था ‘गार्डीयन्’पत्रिका कथयति । अद्य भवतां मोहनाय एव (वञ्चयितुम् एव !!) ‘केडबरी’सम्बद्धा विज्ञापिका दूरदर्शनादिषु प्रसार्यते । तस्यां विज्ञापिकायां सद्योदुग्धं दुग्धं प्रवाहरूपेण पतति, तत: दर्शकेषु भ्रान्ति: उत्पद्यते यत् एते चाकलेहा: सद्योदुग्धेन दुग्धेन एव निर्मीयन्ते इति । परन्तु तादृशं सद्योदुग्धदुग्धादिकं किमपि तत्र न भवति । ब्रिटन्देशे विषयुक्तत्वेन घोषितान् चाकलेहान् प्रतिगृह्णाना संस्था रूप्यककोटिचतुष्टयमितां हानिं प्राप्तवतीति लण्डनस्थं ‘डेली टेलिग्राफ्’पत्रिका लिखति ।

अहम् अमेरिकां ब्रिटनं वा यदा गच्छामि तदा तत्र शीतागारेषु मासान् यावत् न्यस्तं दुग्धचाकलेहादिकं पश्यामि । शीतागाराविष्कारस्य अनन्तरं शीघ्राहाराविष्कार: (जंक् फुड्, फास्ट् फुड्) जात: । अद्य च चिरात् शीतागारे स्थापित: आहार: विषमय: जात: स्यात् वा न वा इति गवेषयितुम् अपि यन्त्राणि आविष्कृतानि सन्ति । कयाचित् संस्थया ‘डीप्स्टिक्’नामकं यन्त्रम् आविष्कृतम् अस्ति । तच्च यन्त्रं पञ्चनिमेषाभ्यन्तरे एव ज्ञापयितुम् अर्हति यत् शीतागारे न्यस्तम् अन्नं विषमयम् अस्ति उत न इति । अमेरिकायां प्रतिवर्षम् ‘अन्नस्य विषमयीभवन’प्रकरणानि (फूड् पायसनिङ्ग) सार्धद्विकोटिमितानि सम्भवन्ति प्राय:, ब्रिटनदेशे च विशंतिलक्षमितानि । एतादृश: दुरभ्यास: (शीतागारे आहास्थापनरूप:) भारतेऽपि जायमान: अस्ति । चन्दीगढे कस्यैचित् अन्धशालायै केनचित् एतादृशम् (शीतागारे स्थापितम्) अन्नं यत् दत्तं तस्य भक्षणात् द्विपञ्चाशत: बालानां मरणं जातम् ! यत: तत् अन्नं विषमयं जातम् आसीत् । अयि मिष्टान्नशौण्डा: जना: ! एतादृशं मिष्टान्नं सर्वथा त्यजन्तु भवन्त: । इदं विषमेव अस्ति ।

‘ग्लास्को’संस्थाया: ‘अवाण्डिया’नामकम् औषधं मधुप्रमेहरोगेषु जनै: सेव्यते । परम् अन्तत: जनै: अवगतं यत् एतस्य औषधस्य सेवनात् हृदयरोग: जायते इति । जगति ‘अवाण्डिया’-विक्रयणत: 14000 कोटिं रूप्यकाणि सम्पाद्यन्ते निर्मातृसंस्थया । 2007 क्रिस्ताब्दे एव ‘जर्नल् आफ् द अमेरिकन् मेडिकल् असोसियेशन्’ ‘न्यु इङ्ग्लेण्ड् जर्नल् आफ् मेडिसिन्’ इत्येताभ्याम् उद्घुष्टम् अस्ति यत् ‘ग्लास्को’संस्थया निर्मीयमाणम् इदम् औषधम् असुरक्षितम् अस्ति इति । तथापि एशियाखण्डे अद्यापि इदम् औषधम् विक्रीयते निर्बाधम् !! ‘ग्लास्को’संस्थाया: धूर्ततां पश्यत । ‘डा स्टिवन् हेफनर्’नामकाय वैद्याय सा प्रतिवर्षं 75 सहस्रडालरमितं धनं प्रयच्छति । अयं च वैद्य: ‘न्यू इङ्ग्लेण्ड् जर्नल् आफ् मेडिसिन्’ इत्यस्या: संस्थाया: मार्गदर्शक: अस्ति । ग्लास्कोसंस्थाया: इदम् औषधम् [अवाण्डिया] अतिदुष्प्रभावं जनयति इत्येष: लेख: पत्रिकायां प्रकाश्यमान: अस्ति इति तेनैव वैद्येन सा संस्था सूचिता आसीत्, सा संस्था स्वीयस्य औषधस्य संरक्षणं करोतु इति उद्देशेन ।

अद्य ‘पोलियो’निवारणौषधं (वेक्सीन) हानिकरम् अस्ति इति जना: शनै: शनै: जानन्ति । 8.1.08 दिनाङ्के मुम्बय्यां पञ्च शिशव: रुग्णालयम् आनीता:, यै: पोलियोनिवारणौषधं गृहीतम् आसीत् । इतश्च वार्ता श्रूयते यत् भारतीयौषधविभागेन (ड्रग् कण्ट्रोलर्) शिशूनाम् अतिसारादिकं (गेस्ट्रो इण्टरैटिस्) न स्यात् इति उद्देशेन ‘ग्लास्को’संस्थाया: ‘रोटारिक्स्’नामकम् औषधं (वेक्सीन) स्वीकृतम् अस्ति । सा संस्था गवां वत्सानां च अन्त्रांशेभ्य: तत् औषधं निर्माति । एतम् अंशम् अधुना अपि प्रायेण कोऽपि न जानाति ।

अद्य ‘मेडिक्लेम्’ इत्यस्य कारणात् औषधस्य उपचारस्य च धनं संस्था एव ददाति । अत: ‘मेडिक्लेम्’ इतीदं मातुलगृहं मत्त्वा बहव: जना: आधुनिकवैद्यान् प्रति धावन्ति । वैद्याश्च कथयन्ति यत् रोगज्ञानार्थं ‘सी.टी.स्केन्’ कारणीयम् इति ।

‘न्यूयाकर् टैम्स्’ कथयति (30.11.07) यत् अमेरिकायां प्रतिवर्षं द्विलक्षाधिकषट्कोटिमिता: सी.टी.स्केन्प्रयोगा: भवन्ति इति । भाविनि काले भारते अपि एतावता प्रमाणेन एव तादृशं परीक्षणं भवितुम् अर्हति इति भाति । ‘सी.टी.स्केन्’ इत्यस्य अधिकोपयोगवशात् कर्करोगस्य शिलान्यास: भवति इति तज्ज्ञा: ब्रुवन्ति । भो: श्रीमन्त: जना: ! अनावश्यकप्रयोगान् एतान् मा कुर्वन्तु भवन्त: ।

हृदयरोगात् संरक्षणं प्राप्तुं केचन वैद्यपार्श्वं व्रजन्ति । ते च वैद्या: तान् कथयन्ति यत् ‘कोलेस्टरोल्’स्तर: न्यूनीकरणीय: इति । एतदर्थं च ‘कोलेस्टरोल’विरुद्धम् औषधं दीयते । रोगी च नि:शङ्कं तत् सेवते । तदौषधम् अस्ति ‘फ्रैसर’संस्थया निर्मितं ‘लिपीटोर’-नामकम् । केवलम् अमेरिकायामेव तदौषधं प्रतिवर्षं 1300 कोटिरूप्यकमितं विक्रीयते । तदौषधस्य कृते एकेन जनेन प्रतिमासं प्राय: 3600 रूप्यकाणां व्यय: करणीय: भवति । ‘कोलेस्टरोल’स्तर: यदि अत्युच्च: स्यात् तर्हि तन्निमित्तं 5000 रूप्यकाणां व्ययो भवेत् । यदा ‘कोलेस्टरोल्’स्तरवृद्धि: देशे आधिक्येन दृष्टा तदा अमेरिकीयौषधविभागेन कोलेस्टरोल-ह्रासकौषधस्य विशिष्टारक्षणस्थानम् (एक्सक्लुसिव पेटण्ट्) अपसारितं, सामान्यौषधरूपेण तस्य विक्रयणम् अनुमतं च । तदा ‘फैझर’संस्थया स्वीयम् औषधं विक्रेतुं नूतन: एव मार्ग: आश्रित: । डा जार्विकाय (येन कृत्रिमं हृदयम् आविष्कृतं निर्मितं च) सार्धपञ्चकोटिरूप्यकमित: उत्कोच: तया दत्त: । तत: दूरदर्शने काचित् विज्ञापिका प्रकाशिता, यस्यां डा जार्विक: स्वयं ‘लिपीटोर’नामकस्य औषधस्य सेवनात् हृदयस्य दृढतां प्राप्य द्रुततया समुद्रे केनिपातान् प्रयुज्य नावं चालयति । इयं विज्ञापिका अनुचिता अन्याय्या च अस्ति इति उपालम्भे प्राप्ते, तस्या: विज्ञापिकाया: प्रसारणं स्थगितम् अभवत् ।

इत: पूर्वं कोलेस्टरोलस्तरं ह्रासयितुं ‘बेयर’संस्थीयं ‘बायकोस’नामकम् औषधम् उपयुज्यमानम् आसीत् । तस्य सेवनात् रोगिणां मरणानि जातानि, स्नायवश्च त्रुटिता: अभवन् । अत: तदौषधं तया संस्थया प्रतिगृहीतम् । अद्यापि ‘लिपीटोर’नामकस्य औषधस्य विक्रयणात् फैझर्संस्था प्रतिवर्षं 120 अब्जमितम् आयं मासत्रये प्राप्नोति ।

आम्लपित्तरोगस्य (एसिडिटी) कृते ग्लास्कोसंस्थाया: यत् औषधम् अस्ति तस्य सेवनात् पुरुषाणां वक्ष:स्थलेषु स्तनौ वर्धेते । अन्त्रव्रणशामकौषधसेवनादपि एवमेव भवति, शिरोबाधा भवति, श्रमश्चापि अनुभूयते इति डा जोनमोरलीमहाशय: कथयति । अन्त्रव्रणाम्लपित्तादिरोगाणाम् उपशमनार्थं चायकाफीपानादीनां परित्याग: एव समुचित: उपाय: इति तज्ज्ञा: वदन्ति ।

आधारः[सम्पाद्यताम्]

'सम्भाषणसन्देशः' - मार्च् २००९
लेखकः – कान्तिभट्टः
अनुवादः – मुक्तिचन्द्रविजयः, मुनिचन्द्रविजयश्च