’सैनिकबकः’ नूतने क्षेत्रे…

विकिस्रोतः तः
Jump to navigation Jump to search
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।


सः निश्चल: नि:स्पन्द: । वयम् अपि तथैव व्यवहरन्त: परिशीलयन्त: आस्म । मन्दतया स: चञ्चूम् अचालयत् । तावता तदीयं चित्रं स्वीकृतम् आसीत् अस्माकं चित्रग्राहकेण ।

Sainika-baka2.jpg

पक्षिशास्त्रज्ञान् विचार्य वयं निश्चयज्ञानं प्राप्तवन्त: यत् तस्य नाम ‘अजटण्ट् स्टाक्’ इति । सैन्ये ‘अजटण्ट्’ इत्येतत् किञ्चन पदसूचकं पदम् । एतस्य पक्षिण: गतिस्थित्यादिकं परिशील्य तस्य तादृशं नाम कृतं स्यात् । ‘सैनिकबक:’ इति नाम्ना तं निर्देष्टुं शक्नुयाम वयम् । एष: पक्षी ‘लेप्टोप्टिलस् जवानिकस्’जातीय: इति पक्षिशास्त्रज्ञा: वदन्ति ।


विरलसन्ततियुतासु पक्षिजातिषु अन्यतमा अस्ति एषा ‘सैनिकबक’पक्षिजाति: अपि । तीक्ष्णाग्रा दीर्घा चञ्चू:, श्वेतं शरीरं, (पक्षौ कृष्णौ) दीर्घौ पादौ, दीर्घ: विरललोमा कण्ठ: इत्यादीनि एतस्य वैशिष्ट्यानि । पूर्वम् एते पक्षिण: इण्डोनेशिया, काम्बोडिया, नेपाल, म्यान्मार्, मलेशिया इत्यादिषु देशेषु बहुधा दृश्यन्ते स्म । किन्तु परिसरवैपरीत्यस्य कारणत:, विवेचनरहितमृगयाकारणत:, योग्यस्य संरक्षणोपायस्य अभावस्य कारणत: च एतस्या: पक्षिजाते: विनाशदशा आसन्ना जाता अस्ति । भारते असमबिहारादिप्रदेशेषु एतज्जतीया: पक्षिण: तत्र तत्र दृश्यन्ते ।

Sainika-baka1.jpg


सन्तानाद्यभिवृद्ध्यर्थं पक्षिण: दीर्घप्रयाणं कुर्वन्ति बहुधा इति तु वयं जानीम: एव । कर्णाटके ‘कैगा’नामकं स्थलं यथा अणुशक्ति-केन्द्रत्वेन ख्यातं, तथैव विविधपक्षिजाते: आश्रयस्थानत्वेन अपि प्रसिद्धम् । वृक्षजलादिबाहुल्यम् अपायराहित्यम् (अल्पता वा !) इत्यादीनि तेषाम् आवासस्य आगमनस्य वा कारणानि । गतस्य फेब्रवरीमासस्य (2009) प्रथमे सप्ताहे कैगासमीपस्थे ‘अणशि’परिसरे अस्माभि: एतज्जातीय: कश्चन पक्षी दृष्ट: पक्षिवीक्षणावसरे । तत: एतस्य वासस्थानादीनाम् अन्वेषणाय एतज्जातीयानाम् अन्येषां पक्षिणाम् अन्वेषणाय च सप्ताहद्वयं यावत् प्रयास: कृत: । तस्मात् तस्मिन् परिसरे एतज्जातीयं पक्षित्रयम् अस्माभि: अभिद्रष्टुं शक्तम् । तदीयं वासस्थानं तु न ज्ञातम् । भावचित्रद्वयस्य स्वीकाराय सप्ताहद्वयं यावत् अखण्डपरिश्रम: करणीय: अभवत् । एतस्य पक्षिण: मुख्य: आहार: लघुमीना: । एतस्य शावका: अल्पम् एव आहारं सेवित्वा अधिकां वृद्धिं प्राप्नुवन्ति । अन्ये शावका: दशकिलोमितस्य आहारस्य सेवनेन यादृशीं वृद्धिं प्राप्नुयु: तादृशीं वृद्धिं प्राप्नुवन्ति एतज्जातीया: शावका: किलोत्रयमितस्य आहारस्य सेवनात् एव ।


विनाशदशाम् आपन्ना एषा पक्षिजाति: नूतनेषु प्रदेशेषु अपि दृष्टिगोचरतां यान् अस्ति इति तु महत: सन्तोषस्य विषय: ।

आधारः[सम्पाद्यताम्]

'सम्भाषणसन्देशः' - जून् २००९
लेखकः – के. पुट्टराजु