तक्षशिलायाः उपनगरम् – जालियन्

विकिस्रोतः तः
Jump to navigation Jump to search
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । प्राचीनकालीनाध्ययनकेन्द्रेषु प्रसिद्धतमं वर्तते तक्षशिला । तत्समीपे एव विद्यमानम् अपरं विद्याकेन्द्रम् अस्ति जालियन्।
स्तूपः कश्चन


प्राचीनकालीनाध्ययनकेन्द्रत्वेन तक्षशिला नितरां प्रसिद्धा । तत: अनतिदूरे अस्ति अपरं शैक्षणिककेन्द्रं, यस्य च नाम अस्ति ‘जालियन्’ इति । लघुनगरम् आसीत् एतत् । एतस्य निर्माणकाल: क्रि.श. 200 - 300 इति वदन्ति इतिहासज्ञा: ।

शान्तमुखमुद्रा बुद्धमूर्तिः

शतमीटरपरिमितोन्नतस्य लघुपर्वतस्य उपरि निर्मितम् आसीत् एतत् नगरम् । इदानीं तत्र बौद्धविहाराणां, केषाञ्चित् स्तूपानां च अवशेषा: दृश्यन्ते प्राधान्येन । ईशान्यदिक्त: यदा प्रविश्यते तदा आदौ प्राप्यन्ते बौद्धविहारा: । अन्ये बौद्धविहारा: इव एते अपि गान्धारशैल्या निर्मिता: एव । वासप्रकोष्ठा:, तेषां पुरत: विशालं प्राङतणं च प्राप्यते अत्र । स्नानगृहाणि, उपस्थानशाला (स्वागतप्रकोष्ठ:), कोष्ठक: (सङ्ग्रहालय:), अग्निशाला (पाकशाला), उपाहारशाला (भोजनालय:), वर्च:कुट्य: (शौचालया:) चापि प्राप्यन्ते अत्र । आश्चर्यं नाम लघुनगरेऽस्मिन् कूपा: न आसन् । पर्वतस्य अधोभागे एव जलमूलानि आसन् । दक्षिणभागे अस्ति मुख्यस्तूप:, यत्र च विराजते उपवेशनभङतीयुक्ता बुद्धमूर्ति: । एष: स्तूप: पञ्चभि: चित्रावलीपङ्क्तिभि: युक्त: अस्ति । एतं स्तूपं परित: एकविंशति: लघुस्तूपा: सन्ति । मुख्यस्तूपस्थायां चित्रावलीपङ्क्तौ बुद्धमूर्तय: (लघ्वाकारका:) बहव: दृश्यन्ते । गजा:, सिंहा:, नग्नवामना: च स्तूपं शिरसा वहन्त: इव दृश्यन्ते प्रथमायां चित्रावलीपङ्क्तौ ।

स्वास्थ्यकरी बुद्धमूर्तिः

मुख्यस्तूपात् अनतिदूरे उत्तरभागीयभित्तौ दृश्यते ‘स्वास्थ्यकरी’ बुद्धमूर्ति: । एतस्या: नाभिभागे एकं रन्ध्रम् अस्ति । तस्मिन् अङतुलिस्थापनात् रोगा: व्याधय: च अपगच्छन्ति इति जनानां विश्वास: । अत: एतस्मिन् रन्ध्रे अङतुलिस्थापनाय स्वास्थ्येच्छूनां भक्तानां पङ्क्ति: एव भवति सदापि । मुख्यस्तूपस्य उत्तरभागे एव अन्य: अलङ्कृतस्तूप: आसीत् । स: त्रिपादोन्नत:, नीलादिवर्णै: उपेत:, मौक्तिकप्रवालमण्यादिभि: अलङ्कृत: च आसीत् । एष: स्तूप: इदानीं तक्षशिलायां वस्तुसङ्ग्रहालये अस्ति ।

भग्नशिरस्का बुद्धमूर्तिः


मुख्यस्तूपस्य उत्तरभागे एव उन्नता: बुद्धमूर्तय: बहव: सन्ति । तासां शरीराणि न सम्यक्तया उत्कीर्णानि । किन्तु मुखानि तु सुपरिष्कृततया निर्मितानि । सुरक्षादृष्ट्या इदानीं तानि मुखानि वस्तुसङ्ग्रहालये स्थापितानि सन्ति । शिक्षकत्वम् आपन्नस्य बुद्धस्य मूर्ति: अत्रत्यम् अपरं वैशिष्ट्यम् । ‘ते (बौद्धा:) नग्नपादा: सन्त: सञ्चरन्ति स्म । उत्तरीयम् उपवीतम् इव धरन्ति ते’ इति लिखति ग्रीक्लेखक: फिलोस्ट्रोटस: ।

जालियनस्थानां स्तूपविहारादीनां मानचित्रम्

बौद्धविहारभागे 28 प्रकोष्ठा: आसन् । एकैक: अपि प्रकोष्ठ: वातायनसहित: (वायुसञ्चाराय) दीपनीडसहित: च भवति स्म । सर्वोऽपि प्रकोष्ठ: सुधालिप्त: वर्णचित्रोपेत: बुद्धमूर्तियुक्त: च भवति स्म । तावन्त: एव प्रकोष्ठा: अट्टे अपि आसन् इति तर्क्यते । किन्तु अट्टभाग: इदानीं न दृश्यते पतनकारणात् । अट्टभागं प्रति गमनाय स्थितं सोपानमार्गमात्रं दृश्यते ।

स्तूपं वहत्सु नग्नवामनेषु अन्यतमः

पर्वतस्य उपरि कूपा: न आसन् इति लेखस्य आरम्भे एव उक्तं खलु ? एवं तर्हि प्रश्न: उदियात् यत् जलस्य आवश्य-कता किम् अधोभागात् आनीयमानेन जलेन एव पूर्यते स्म इति । ‘न’ इत्येव उत्तरम् । पर्वतस्य ऊर्ध्वभागे, तन्नाम वसतिभागे वृष्टिजलसङ्ग्रहस्य व्यवस्था आसीत् । विशालं जलागारं भूमौ परिकल्प्य तत्र वृष्टिजलं सङ्गृह्यते स्म । काष्ठावरणेन तत् पिधीयते स्म । स्नानादिनिमित्तं तस्य जलस्य उपयोग: प्रचलति स्म । अद्य वृष्टिजलसङ्ग्रहविषय: आधिक्येन चर्च्यते । किन्तु स: एव अंश: सार्धैकसहस्राधिकवर्षेभ्य: पूर्वम् एव व्यवहारपथम् आनीत: आसीत् अत्र ।

सङ्ग्रहालयस्थं मूर्तेः मुखम्

तक्षशिलाया: उपनगरत्वेन स्थित: अयं बौद्धविहारप्रदेश: 455 तमे वर्षे वैट् इन्स्नामकेन दाहपुरस्सरं नाशित: । अनन्तर-काले एतस्य पुनर्निर्माणं न सम्पन्नम् ।

तक्षशिलां परित: उपनगरत्वेन जालियन्सदृशानि उपनगराणि कानिचन आसन्, येषु च प्राधान्येन बौद्धविहारा: आसन् । शैक्षणिकव्यवहारा: प्राधान्येन प्रचलन्ति स्म अत्र । अत: स्पष्टं यत् जालियनादय: प्रदेशा: अपि शैक्षणिकदृष्ट्या महत्त्वभूता: एव इति । तक्षशिलाया: यावती ख्याति: तावती ख्याति: एतेषां स्थलानां नास्ति इत्येतावन्मात्रेण एतेषां महत्त्वं तु न हीयते खलु ?

आधारः[सम्पाद्यताम्]

'सम्भाषणसन्देशः' - फेब्रवरी २००९
लेखकः - फर्हान् विलायतभट्टः