फलप्राप्तिपर्यन्तम्...

विकिस्रोतः तः
Jump to navigation Jump to search
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । अस्मिन् लेखे, फलप्राप्त्यर्थम् अस्माभिः कृताः सर्वे प्रयत्नाः विफलाः यदि भवेयुः तर्हि प्रयत्नम् अपरित्यज्य, निराशेन अभूत्वा समोत्साहेन लक्ष्यप्राप्तिपर्यन्तं क्रियावता भवितव्यं चेत् ये उपायाः आश्रयिणाः स्युः ते केचन अत्र दत्ताः सन्ति ।


वयं किञ्चन लक्ष्यं स्वीकृत्य कार्यप्रवृत्ता: भवाम:, विविधान् प्रयत्नान् कुर्म: च । कदाचित् कार्यं सिद्ध्यति, कदाचित् नैव । कार्ये असिद्धे, पुन: प्रयत्नं कुर्म:, प्रयत्नान्तरं कुर्म:, पुन: पुन: प्रयतामहे च । परं तदा प्रश्न: उदेति यत् कतिवारं, कदापर्यन्तं प्रयत्न: इति । यद्यपि केषुचित् गौणकर्मसु केषाञ्चन प्रयत्नानाम् अनन्तरं स्वसमीपे विद्यमानं समयं, श्रमसामर्थ्यम्, आद्यताम्, आनुकूल्यम्, औचित्यानि च दृष्ट्वा अस्माभि: तद्विषये पुनरीक्षणं क्रियते, तथापि प्रधानलक्ष्ये, मुख्यकर्मणि, अवश्यकरणीये कार्ये, च (कार्यपद्धति:, गुणवत्ता इत्यादिषु च) कदापर्यन्तम् इत्यस्य एकमात्रम् उत्तरं चिन्तनीयं - ‘फलप्राप्तिपर्यन्तम्’ इति । तथा प्रयत्नम् अपरित्यज्य, निराशेन अभूत्वा समोत्साहेन लक्ष्यप्राप्तिपर्यन्तं क्रियावता भवितव्यं चेत् ये उपाया: आश्रयणीया: स्यु: ते केचन अत्र दत्ता: सन्ति । परिशील्यन्ताम् ।

1. ‘यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोष:’ इत्यस्या: सुभाषितपङ्क्ते: ‘यत्न: कृत:, न सिद्धम्, अत्र दोष: नास्ति, किमपि कर्तुं न शक्यते, चिन्ता न करणीया’ इत्यादिरूपेण अन्यथा व्याख्यानं न करणीयम् । फलस्य अप्राप्तित: जातस्य दु:खस्य निवारणाय अनया रीत्या समाधानं कदाचित् उच्येत । परं तद् न योग्यम् । अत्र दोष: क: इत्युक्ते का न्यूनता इति पर्यालोच्य तां न्यूनताम् अवगत्य अग्रिमवारं तां न्यूनतां विना प्रयतनीयम् इत्यर्थ: एव अस्माभि: ग्रहीतव्य: ।

2. प्रयत्नेषु क्रियमाणेषु यानि प्रारम्भिकवैफल्यानि स्यु: तेषां वैफल्यानां परिणामत: जायमानाभ्य: मनुष्यसहजाभ्य: निराशा-चिन्ता-दु:ख-मनोवेदनादिभ्य: भावनाभ्य: आत्मा रक्षणीय: । एतत् प्रथमम् अपघातस्थानम् (Accident Zone) । मार्गे एतादृशानि अपघात-स्थानानि असङ्ख्यानि भवन्ति । जागरूक: ध्येयपथिक: अपघातान् निवारयति । वस्तुत: वैफल्यं ‘वैफल्यं’ न, परं वैफल्यत: प्रभावितै: भूयते यत् तद् एव ‘वैफल्यं’ नाम । कार्ये पराजय: प्राप्येत चेदपि मन: पराजितं न भवेत् । शरीरस्य श्रम: भवेत् चेदपि मनस: श्रम: न भवेत् । मन: उत्साहस्य अनन्त: उत्सेक: स्यात् ।

3. प्रत्येकं विफलता कञ्चित् पाठं पाठयति । तथा पठित: पाठ: प्रविशन्तीं विफलतां द्वाराद् बहि: एव अवरुणद्धि । अत: पाठा: पठ्यन्ताम् । पठनस्य आनन्द: अनुभूयताम् ।

4. महत्तमं कार्यं साधयितुं महत्तम: प्रयत्न:, महत्तमा शक्ति:, महत्तमं मूल्यं वा अपेक्षितं भवति । उपाय: यावान् महान् स्यात् तावान् एव महान् भवेत् तत्सम्बद्ध: अपाय: । अत: महत्तमकार्येषु कर्तव्येषु अपायसम्भावना (Risk) अपि महत्तमा एव भवेत् । तादृश्या: तस्या: सम्मुखीकरणाय सज्जता अपि महत्तमा भवेत् ।

5. मनसि गौरवत्रयं भवेत् -

1. स्वस्य सामर्थ्यस्य विषये गौरवभावना ।
2. इतरेषां संसूचनानां (उपदेशानाम् इति वा) विषये गौरवभावना ।
3. स्वस्य सर्वेषां कार्याणां, कार्यपरिणामानां च विषये उत्तरदायी अहमेव इति विषये गौरवभावना ।

गौरवभावना नाम गम्भीरतया विषयस्य स्वीकरणम् । किञ्च, स्वस्य मनोवाक्कृतीनां विषये ये गौरववन्त: स्यु: ते एव न्यूनान् दोषान् कुर्वन्ति ।

6. कार्यं नष्टं चेदपि मन: नष्टं न भवेत् इति प्रयतनीयं चेत् तदर्थं भाववशगत्वं न उपकाराय । कर्तव्यवशग: जन: एव अन्ते वशीकृतफल: भविष्यति ।

7. कदाचित् प्रारम्भिकाणि लघुवैफल्यानि भाविन: महत: भाग्यस्य द्वारोद्घाटनस्य कारणानि भवन्ति इति सत्यम् अस्माभि: सदैव स्मर्तव्यम् ।

8. जीवनं नाम काचित् क्रीडा । सर्वस्य अपि क्रीडाया: केचन नियमा: भवन्ति । ते अवगम्यन्ताम् । सोत्साहं सानन्दं च क्रीड्यताम् ।

9. यदा भवता कश्चन दोष: कृत: इति ज्ञायेत तदा अनुक्षणम् एव तस्य परिष्काराय पदं निधीयताम् । निर्लज्जेन भूयतां च ।

10. बाहू प्रसार्य आलिङ्गनेन परिवर्तनशीलताया: स्वागतं क्रियताम् ।

11. अस्माकम् अवधानं फले न भवेत्, अपि तु कया रीत्या कार्यं करणीयम् इति पद्धतौ भवेत् ।

12. कार्यसिद्धौ बहूनि कारणानि भवन्ति -

1. लक्ष्यस्य योग्यत्वम्
2. पूर्वसज्जता
3. समयस्य आनुकूल्यम्
4. उचिते काले उचितं कार्यम्
5. साधनानि
6. कार्यविभजनम् (वितरणं च)
7. संयोजनम्
8. सातत्यम् इत्यादीनि । तानि कार्यसिद्धिकराणि चिन्त्यन्ताम् ।

13. यावता प्रमाणेन विस्तरेण पूर्वचिन्तनं भवेत् तावता प्रमाणेन एव दोषसम्भावनायां न्यूनता स्यात् ।

14. लघुषु अंशेषु अवधानेन महत्तमं कार्यं स्वयं सिद्ध्येत् ।

15. कार्ये गुणवत्ता रक्ष्यताम् । गुणवत्ता फलं रक्षिष्यति ।

16. केषाञ्चित् शकटानां चालनाय कुञ्चिकाया: भ्रामणं पर्याप्तं भवति । केषाञ्चित् तु पादेन प्रहार: आवश्यक: भवति । भवत: जीवनशकट: अन्यस्य पादेन प्रहृत: न भवेत्, अपि तु स्वयंचालित: स्यात् ।

17.जना:, परिस्थिति:, साधनानि वा कथं सन्ति, कथं न सन्ति इति वा कारणेन भवत: कार्यकरणम् अकरणं वा न । भवता कथं भवितव्यम् इति तदनुगुणं भवत: कार्यं भवेत् । बाह्यकारणै: भवता प्रभावितेन न भवितव्यम् । बाह्यनियन्त्रित: जन: प्रतिपदं विफल: भवेत् । अन्त:-सत्त्वनियन्त्रित: तु पदे पदे जेष्यति ।

18. चञ्चलमनस्क:, शीघ्रदु:ख:, पलायनशील:, सूक्ष्मसंवेदन:, अपरिश्रमशील:, अतिरेकचिन्तक: इत्यादय: स्वल्पेन अपि कारणेन आहता: सन्त: कार्यात् विरमन्ति । अत: भवता एतद्विपरीततया भूत्वा फलप्राप्तिपर्यन्तं कार्ये स्थिरेण भाव्यम् ।

19. स्वीकृतस्य कार्यस्य अर्धे अत्याग:, समाप्तिपर्यन्तं करणम् इत्येतत् कश्चन स्वभाव: । प्रयत्नेन प्राप्तव्य: कश्चन गुण: ।

20. समस्या समस्यायै न । भवान् समस्यां कथं पश्येत् इत्येतत् अवलम्ब्य समस्याया: स्वरूपं निश्चितं भवेत् । अत: स्वीया दृष्टि: परिवर्त्यताम् ।

21. अतीतं विस्मर्यताम् । वर्तमाने अवधीयताम् । भविष्यते आत्मा सज्जीक्रियताम् ।

22. धनुष: त्यक्त: बाण: लक्ष्यभेदनपर्यन्तं मध्येमार्गं न विरमति । (विरत: चेत् तस्य अध:पतनं सुनिश्चितम्) तथैव कृतकार्य-सङ्कल्प: आरब्धकार्यश्च अहं फलप्राप्तिपर्यन्तं (अथवा यावज्जीवं) लक्ष्यदिशि धावन् एव स्याम् इति चिन्त्यताम् ।

23.कष्टात् पूर्वं भीरुत्वं दृश्यते । कष्टे धीरत्वं दृश्यते । भीरु: धीर: भवितुम् अर्हति । किन्तु धीर: कदापि भीरु: नैव भविष्यति । यत: स: धीर: । फलप्राप्ति: धीरस्यैव भवति, न कदापि भीरो: ।

24. स्वीयानि पदचिह्नानि पृष्ठत: परित्यज्यन्तां, न तु पुरत: विद्यमानानां पदचिह्नानाम् अनुगमनं क्रियताम् । अत: कार्ये नद्यरण्यकण्टकपर्वतादीनां चक्रवातमहावातझञ्झावातादीनां चैव अपेक्षा क्रियताम् ।

25. यदा कदापि उद्दिष्टं कार्यं न सिद्धं चेत् तदा एष: लेख: सकृत् पठ्यताम् । कञ्चित् कालं यावत् शान्ततया चिन्त्यताम् । कश्चन प्रकाश: अवश्यमेव लभ्येत । कश्चन मार्ग:, कश्चन उपाय: स्फुरेत् च ।

आधारः[सम्पाद्यताम्]

'सम्भाषणसन्देशः' - मार्च् २००९
लेखकः - च मू कृष्णशास्त्री