अहल्याकथा कृषिविज्ञानगर्भा

विकिस्रोतः तः
Jump to navigation Jump to search
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । अहल्योद्धारकथायाः गूढार्थः सङ्ग्रहेण विवृतः अस्ति ।


पुरा एकदा ब्रह्मदेवेन सुन्दरी नारी काचित् निर्मिता । सर्वे तां वाञ्छितवन्त: । तदा ब्रह्मदेवेन समय: निश्चित: । य: सर्व-प्रथमं पृथिवीप्रदक्षिणं कुर्यात् स: एव तस्या: पति: भवितुम् अर्हेत् इति । सर्वे स्वीये स्वीये वाहने उपविश्य अधावन् । एषा वार्ता विश्वे सर्वत्र प्रसृता । स्वीये आश्रमे स्थित: गौतम: अपि एतां वार्तां श्रुतवान् । तेन आश्रमस्य अर्धप्रसूताया: गोमातु: प्रदक्षिणा कृता । शास्त्रं वदति यत् अर्धप्रसूताया: गोमातु: प्रदक्षिणा कृता चेत् पृथिवीप्रदक्षिणपुण्यं लभ्यते इति । अत: गौतमेन एव जय: प्राप्त: । तस्मात् अहल्यागौतमयो: विवाहमङ्गलं सञ्जातम् ।

किन्तु देवराजस्य इन्द्रस्य मनसि अहल्याकाङ्क्षा न विरता । तेन विकृत: विचार: कृत: यत् यदि न्याय्येन मार्गेण अहल्या न लभ्येत तर्हि बलात्कारेण वा तस्या: उपभोगं कुर्याम् एव इति ।

अथ कदाचित् महर्षे: गौतमस्य अनुपस्थितौ इन्द्रेण अहल्याया: उपभोग: कृत: बलात्कारेण । एतद् ज्ञात्वा गौतमेन उभयो: कृते शाप: प्रदत्त: । शापदग्ध: इन्द्र: विक्षतशरीर: अजायत । अहल्या च पाषाणमयी जाता । अनन्तरं गणेशोपासनया विदर्भप्रान्ते कदम्बक्षेत्रे इन्द्र: शापमुक्त: जात: । श्रीरामचन्द्रस्य चरणस्पर्शात् अहल्याया: उद्धार: अपि अभवत् ।

एषा कथा तु सर्वविदिता एव अस्ति प्राय: । किन्तु अस्या: कथाया: आन्तर्यविषये कथनीयं किञ्चिदस्ति । एकस्या: ऋषिपत्ने: व्यभिचारेण सम्बद्धा एतादृशी कथा पुराणकारै: किमर्थं वर्णिता ? देवराजसम्बद्ध: जारवृत्तान्त: ऋषिभि: वर्णयितुं योग्य: विद्यते किम् ? ‘अहल्यायै जार !’ इति देवराजस्य सम्बोधनं श्रूयते । तादृशेन सम्बोधनेन देवराज: सुप्रसन्न: भवति इति कथितम् अस्ति । स्वकीयस्य जारवर्णनस्य सार्वत्रिकोद्घोषणां श्रुत्वा कश्चन निर्लज्ज: अपि प्रसन्न: भवितुं किम् अर्हेत् ?

Ahalya1.jpg

अन्ये अपि अनेके प्रश्ना: उत्पद्यन्ते अस्या: कथाया: विषये । प्रथम: प्रश्न: - कन्याया: विवाहार्थं नियम: आसीत् पृथिवीप्रदक्षिणं करणीयम् इति । तयो: परस्परसम्बन्ध: क: ? पलायनपरता, धावनतत्परता, गतिशीलता वा विवाहार्हतानिरूपिका: भवितुम् अर्हन्ति किम् ?

द्वितीय: प्रश्न: - गौतमेन इन्द्र: शप्त: इति तु युक्तम् एव । किन्तु अत्र अहल्यया किम् अपराद्धम् ? तया तु आगतं गौतमं मत्त्वा एव तस्य सङ्ग: कृत: । तथापि सा किमर्थं शापग्रस्ता जाता ?

अन्य: प्रश्न: - सर्वे जानन्ति एव यत् श्रीरामचन्द्रस्य पादस्पर्शात् अहल्योद्धार: जात: इति । किन्तु ‘एषा गौतमभार्या अहल्या’ इति विश्वामित्र: यदा अकथयत् तदा श्रीराम: चरणाभ्यां शिलास्पर्शं किमर्थम् अकरोत् ? ऋषिपत्नी तु भवति खलु परमवन्दनीया ? तस्या: एव चरणयो: स्पर्श: करणीय: आसीत् तेन, न तु स्वीयाभ्यां चरणाभ्यां स्पर्श: । तथापि श्रीरामेण चरणाभ्यां स्पर्श: किमर्थं कृत: ?

एतेषां प्रश्नानाम् अवलोकनात् एव वयं ज्ञातुं शक्नुयाम यत् अस्यां कथायां कोऽपि अन्य: एव अर्थ: निगूढ: स्यात् इति । क: स: निगूढ: अर्थ: ? रूढार्थदृष्ट्या तु अतीव विलक्षणा इव दृश्यते एषा कथा । किन्तु पुराणकथा: ‘न हि रूढार्थेन, अपि तु गूढार्थेन’ अवलोकनीया: भवन्ति । क: स्यात् अहल्योद्घारकथाया: गूढार्थ: ?

अस्या: कथाया: गूढार्थस्य कुञ्चिका ‘अहल्या’शब्दे एव अस्ति । हलं नाम किञ्चन कृष्युपकरणम् । कर्षणसाधनं तत् । तस्य द्वारा या कृष्टा सा भवति ‘हल्या’ । या न कृष्टा सा उच्यते - ‘अहल्या’ इति । अत: ‘अहल्या’ नाम अकृष्टा भूमि: । तन्नाम कृषिकार्यसम्बद्धम् अस्ति एतत् पदम् । ब्रह्मदेवेन एषा ‘अहल्या’ निर्मिता । एषा भूमि:, एषा कृषि-व्यवस्था च विनिर्मिता । सर्वे वाञ्छन्ति भूमिम् । किन्तु कस्मै प्रदातव्या सा ? पितामहेन कथितं यत् पृथिवीप्रदक्षिणां य: करोति तस्मै दास्यते सा इति । पृथिव्या: प्राप्ति: पृथिवीप्रदक्षिणद्वारा कथं भवेत् ? अत्र ‘प्रदक्षिणा’शब्दस्य अर्थ: - ‘परित: भ्रमणमात्रम्’ एव न । प्रदक्षिणा नाम सर्वत: ज्ञानम् । अभित: परित: च अव-लोकनम् । परिप्ाूर्णम् अध्ययनम् । कृषिक्षेत्रस्य परिपूर्णं ज्ञानं यस्य भवति तेनैव कृषि: करणीया ।

केन प्राप्ता एषा अहल्या ? गौतमेन । कथं प्राप्ता ? गोमातु: प्रदक्षिणया । महर्षिणा गौतमेन भूमे: सम्बन्ध: गोविज्ञानेन सह स्थापित: । कृषे: अध्ययनं गोविज्ञानदृष्ट्या कृतम् । अर्धप्रसूताया: गोमातु: प्रदक्षिणं नाम एकस्या: नूतनाया: गोशृङ्खलाया: अध्ययनम् । गो: नूतनापत्यस्य संरक्षणं संवर्धनं च नाम गो-प्रदक्षिणा । गोसंरक्षणं कृतवता गौतमेन पृथिव्या सह, भूम्या सह, कृषिविज्ञानेन सह च गोविज्ञानस्य सम्बन्ध: स्पष्टीकृत: । अत: स: एव ‘अहल्याया:’ कृते (कृषिकार्यार्थं) सुयोग्य: इति मत्वा विधात्रा अहल्या गौतमाय प्रदत्ता ।

किन्तु देवेन्द्रस्य मनसि अहल्याकाङ्क्षा न विरता । क: अस्ति अत्र इन्द्र: ? अत्र इन्द्र: नाम शासक: । तस्य दृष्टि: कृषिक्षेत्रे विद्यते । धनलुब्ध: धनाकाङ्क्षी धनवान् एव इन्द्र: नाम । येनकेनचित् मार्गेण भूमे: अधिग्रहणम् इच्छति एष: इन्द्र: ।

गौतमस्य अनुपस्थितौ इन्द्रेण अहल्या उपयुक्ता । किन्तु गौतम: कुत्र गतवान् आसीत् ? स तु बहि: गतवान् आसीत् । वास्तविक-तया न गत:, अपि तु प्रेषित: स: । किमर्थं तथा कृतम् ?

गोविज्ञानेन गौतम: एकदिनात्मिकां कृषिं कृतवान् । मुद्गलपुराणे कथितं यत् गणेशेन गौतमाय आशीर्वाद: प्रदत्त: इति । तथा हि -

‘सत्यकाले च बीजेभ्य: क्षिप्तेभ्यो भूमिमण्डले ।
सस्यानां वै समुत्पत्ति: प्रात:काले भविष्यति ॥
- मुद्गलपुराणम्, 2-36-52

अनेन दिव्यज्ञानेन गौतमेन दुष्काले सहस्रश: गवां पालनं कृतम् । किन्तु तेषां माहात्म्यम् अदृष्टवद्भि: कैश्चित् दुष्टै: गौतमक्षेत्रं प्रति एका अतिकुपोषिता गोमाता प्रेषिता । तां बहि: प्रेषयितुं गौतमेन मृदुतया एव आघात: कृत: । किन्तु तावता एव सा मृता । दुष्टै: ‘गोहत्या !! गोहत्या !!’ इति कोलाहल: कृत: । प्रायश्चित्ताय गौतम: त्रिसन्ध्याक्षेत्रं (त्र्यम्बकेश्वरं नासिकजनपदस्थम्) गतवान् । तत्र गौतम्यां (गोदावर्यां) स्नानेन तस्य पापक्षालनम् अभवत् । अत्र महत्त्वप्ाूर्णं कथनीयं यत् यदा गोहत्या जाता तदा गौतमस्य कृषि: नष्टा । यदा कृषीवलेन गोहत्या क्रियते कार्यते वा, तदा गोकृषिसम्बन्ध: विनष्ट: भवेत् । तदा कृषे: उपरि तस्य नियन्त्रणम् अपि विनश्येत् । स: पापकर्ता भवेत् । किं पापम् ? कृषे: गोविज्ञानस्य च यत् साहचर्यम् आसीत् तत् नाशितं भवेत् तेन । तत् पापाय ।

यदा गौतम: बहिर्गत: तदा इन्द्र: आगत: । इन्द्रेण गौतमवेषेण अहल्यासङ्ग: कृत: । तन्नाम शासनाधीशद्वारा, धनलोभद्वारा च भूमे: अधिग्रहणं जातम् । धनलोभेन, शासनबलेन, द्रव्याकाङ्क्षया च कृषिभूमि: अधिगृहीता । कथम् ? बलात्कारेण ।

कृषे: क्षमताम् अज्ञात्वा, तां क्षमताम् अतिक्रम्य द्विवारं, त्रि-वारम्, अधिकवारं वा य: सस्यग्रहणप्रयास: भवेत् स: एव बलात्कार: नाम । धनाकाङ्क्षया कृषिधर्मं परित्यज्य धनलुब्ध: अतिरेकव्यवहारं यत् कुर्यात् स: एव बलात्कार: नाम ।

कथं भवति एष: बलात्कार: ? आध्ाुनिकशास्त्रम् अन्ाुसृत्य यदि कथनीयं तर्हि रासायनिकद्रव्यद्वारा भवेत् एष: बलात्कार: । रासायनिकोर्बरकाणां द्वारा भवेत् एष: बलात्कार: ।

रासायनिकद्रव्याणाम् उपयोगत: अत्यधिकम् उत्पादनं तु प्राप्येत । किन्तु चिन्त्यतां यत् रासायनिकद्रव्येषु ईदृशं किमस्ति, येन सस्यवृद्धि: भवेत् । तत्र एका विशिष्टा प्रक्रिया भवति । कृपया अवधानेन जानन्तु । रासायनिकोर्वरकेषु अतीव उष्णता विद्यते । जलसम्पर्केण तु अत्यधिका उष्णता बहि: आगच्छति । अनया उष्णतया क्षेत्रे विद्यमाना: कोटिश: सूक्ष्मातिसूक्ष्मजीविन: म्रियन्ते । अध्यात्मशास्त्रं वदति यत् जीवा: प्राय: देहहीनावस्थायां स्थातुं न इच्छन्ति इति । अत: सद्य: उपलभ्यस्य शरीरस्य अन्वेषणं कुर्वन्ति ते । विद्यमानजीवधारणक्षमताया: उपयोगं चिन्तयन्ति ते । तेन अपरिमिता सस्यवृद्धि: भवति । किन्तु अनया रीत्या कतिपयानां वर्षाणाम् अनन्तरं क्षेत्रे सूक्ष्मजीविनां सङ्ख्या क्षीणा भविष्यति । अत: तदनन्तरं रासायनिकद्रव्याणाम् अत्यधिकप्रयोगेण अपि धान्यवृद्धि: न भवति । तत्र कारणं - सूक्ष्मजीविनाम् अनुपलब्धि: एव ।

भारतीयकृषिविज्ञानेन अपि एतस्य सूक्ष्मजीवशास्त्रस्य अभ्यास: कृत: एव । एतेषां सूक्ष्मजीविनां द्वारा एव भवति सस्यवृद्धि: । एतद् जानन्ति स्म अस्मत्पूर्वजा: । गौतम: एव अत्र उदाहरणम् । किन्तु तै: तेषां विनाशेन न कृता सस्यवृद्धि: । अपि तु क्षेत्रे सूक्ष्मजीविनां सङ्ख्यावर्धनार्थं प्रयत्न: कृत: । गो-विज्ञानेन एषा वृद्धि: भवेत् । गोमयस्य, गोमूत्रस्य च आधारेण, तदुपयोगेन वृद्धिं गतानां सूक्ष्मजीविनाम् उपयोजनेन च भारतीयपद्धत्यनुगुणं कृषि: कृता गौतमेन । किन्तु धनलुब्धेन, बलात्कारिणा इन्दे्रण दोहनमात्रं कृतं, न तु पोषणम् । परिणामत: कृषि: निष्फला जाता । तस्य उत्पादनक्षमता, उत्पादनेषु उच्चकोटिता, पोषकता, पौष्टिकता च विनष्टा । पाषाणमयी जाता भूमि: । एष: एव अहल्याया: शाप: - ‘त्वं पाषाणरूपा भविष्यसि’ इति । अनया रीत्या कृषे: हानि: जाता, कृषीवलस्यापि । असात्त्विकेन, सत्त्वहीनेन च अन्नेन तस्य क्षमता नष्टा । अनन्तरं शरीरे नानाविधा: रोगा: उद्भूता: । क्षतविक्षत: जात: तस्य काय: । एष: एव इन्द्राय दत्त: शाप: - ‘त्वं विक्षतशरीर: भविष्यसि’ इति ।

इत: मोक्षं प्राप्तुम् उपाय: क: ? इन्द्रेण विदर्भ-प्रदेशे तपश्चर्या कृता । किमर्थं विदर्भे एव ? ‘विदर्भ-शब्दस्य व्युत्पत्ति: एव - ‘विगता: दर्भा: यस्मात् स:’ इति । यत्र दर्भा: उद्भवेयु: तत्र अन्यत् किमपि न जायेत । अत: यत्र दर्भा: विगता: स्यु:, तन्नाम यत्र सर्वा भूमि: कृषियोग्या स्यात् स: प्रदेश: एव ‘विदर्भ:’ । तत्र इन्दे्रण तपस्या कृता इत्यस्य अर्थ: - तेन तत्र अध्ययनं कृतम् इति । अत्र अत्यल्पसाधनद्वारा कृषि: भवति । अत्र श्रीगृत्स्नमदेन कृषिक्षेत्रं विकासितम् । तस्य प्रयोगस्य गोविज्ञानस्य च अध्ययनेन रोगमुक्त: जात: देवेन्द्र: ।

अहल्योद्घार: श्रीरामेण कृत: । अत्र श्रीराम: नाम सुयोग्य: शासक: । कृषिधर्मज्ञाता शासक: । तस्य पादस्पर्शेन, तन्नाम तस्य प्रयत्नेन, सा पाषाणभूता अहल्या सुरूपा जाता । कथम् ? गोविज्ञानेन एव !!

सर्वस्य तात्पर्यं तु एतत् - अहल्या नाम भूमि: । गौतमेन गोविज्ञानेन कृषि: प्राप्ता, कृता च । यदा गोहत्या अभूत् तदा अहल्यागौतमयो: वियोग: जात: । तदा धनलुब्धेन इन्द्रेण अहल्यायां बलात्कार: कृत: । तेन अहल्या पाषाणमयी जाता । इन्द्र: अपि शतभग: जात: । कृषे: गोविज्ञानस्य च विसङ्गेन एव सर्वा: समस्या: उद्भूता: । अत: तयो: सङ्गेन एव इष्टं साधनीयम् । एतद् गोविज्ञानम् एव निरूपयति एषा अहल्याकथा । अत्रत्या नीति: अनुसरणीया सर्वै: ।

आधारः[सम्पाद्यताम्]

'सम्भाषणसन्देशः' - एप्रिल् २००९
लेखकः – श्री स्वानन्दगजाननपुण्डः