मरुभूमिं नन्दनवनं कर्तुम्.....

विकिस्रोतः तः
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । जलरहितैः तडागैः अकृष्टैः क्षेत्रैः छात्ररहितैः विद्यालयैः पुरुषरहितैः गृहैः च उपेताः ग्रामाः सुसमृद्धाः कृताः जयपुरनगरवासीयेन राजेन्द्रप्रसादेन । सा च साहसगाथा इयम् ।

सः युवक: स्वीये ग्रामे ‘अयोग्य:’ (नालायक) इति प्रसिद्ध: । तस्य वास्तविकं नाम तु राजेन्द्रसिंह: इति । यद्यपि तस्य पिता भूस्वामी, तथापि एष: क्षेत्रं गत्वा कार्यं न करोति स्म । जयपुरनगरे तस्य वास: । हिन्दीभाषया स्नातकोत्तरपदवीं प्राप्तवान् स: तत्रत्यान् बालकान् भाषां बोधयितुं तु अर्हेत् एव । परन्तु स: तदपि न करोति । स: आयुर्वेदं जानाति । किन्तु तत् ज्ञानं तस्मिन् निरर्थकम् एव ।

पूर्वजन्मनि कृतेन पुण्येन, अस्य जन्मन: धनबलेन वा प्राप्तव्य: सर्वकारोद्योग: तेन प्राप्त: । परन्तु कार्यालयगमने स: उत्सुक: न आसीत् । स: स्वयं तु किमपि न करोति स्म । इतरै: युवकै: साकं वृक्षस्य अध: उपविश्य समाजस्य परिवर्तनं कथम् इति जल्पनेन कालं यापयति स्म । अनर्ह: इति नाम तस्य सार्थकम् एव खलु ।

अस्माकं समाजे अन्यविधानाम् औषधानाम् असाफल्ये सति सर्वरोगनिवारिणी एका ‘चिकित्सा’ आश्रीयते । ‘यदि एतस्य विवाह: क्रियेत तर्हि स्वयं स्वकर्तव्यम् अवगत्य, वध्वा: जन्मकुण्डल्या: बलेन वा स: ऋजुमार्गं प्राप्नुयात्’ इति चिन्तयन्ति जना: । अत: एतस्य युवकस्य विवाह: अपि कृत: । परन्तु तस्य विषये तत् औषधम् अपि फलकारि न जातम् । किन्तु तत: प्राप्ता प्रगति: तु - न केवलं स्वग्रामे, अपि तु श्वशुरग्रामे अपि एष: प्रसिद्ध: जात: - ‘अयोग्य:’ (नालायक्) इति ।

विवाहस्य कतीनाञ्चन मासानाम् अनन्तरं तस्य पत्नी सकृत् मातृगृहं गतवती । मातापितरौ ग्रामे आस्ताम् । राजेन्द्रसिंह: गृहे विद्यमानानि दूरदर्शनशय्यामञ्चशीतकादीनि वस्तूनि विक्रीय प्राप्तं धनं कोशे संस्थाप्य गृहात् पलायने मतिं कृतवान् । तेन सह गन्तुं तस्य चत्वार: सुहृद: अपि सिद्धा: आसन् । ते सर्वे साक्षात् लोक-यानस्थानकं प्राप्तवन्त: । तत्र प्रस्थातुं सिद्धम् एकं लोकयानं तै: दृष्टम् । ते तत् यानम् आरूढवन्त: । निर्वाहक: आगत्य - ‘कुत्र गमनम् ?’ इति यदा पृष्टवान्, तदा समस्या उद्भूता । अरावलीप्रदेशे विद्यमानानां जनानां जीवने परिवर्तनम् आनेतव्यम् इति स्वप्न: तेषां सर्वेषाम् आसीत् । परन्तु अरावल्यां कुत्र गन्तव्यम् इति तेषां स्पष्टता न आसीत् । तस्मात् अन्तिमस्थानकं प्रति गमनाय ते चिटिकां क्रीतवन्त: । ‘अयोग्य:’ ‘सुयोग्यत्वं’ यत् प्राप्तवान्, लोकस्य परिवर्तनाय ‘नालायक:’ ‘लोकनायकत्वं’ यत् प्राप्तवान्, तस्य निमित्तं यात्रा आरब्धा । घण्टाचतुष्टयात् अनन्तरम् अर्धरात्रे ‘किशोरी’नामकं ग्रामं प्राप्तवन्त: ते । तै: प्राप्तस्य ‘किशोरी’ग्रामस्य लक्षणानि एवम् आसन् -

  • जलरहिता: कूपा: तडागा: च ।
  • अकृष्टानि (कृषिं विना स्थितानि) क्षेत्राणि ।
  • छात्ररहिता: पाठशाला: ।
  • पुरुषरहितानि गृहाणि ।

स्थित्या: अस्या: मूलं ज्ञातुं कतिचन वर्षाणि पृष्ठत: गच्छेम ।

ब्रिटिश्शासनस्य आधीन्यम् अङ्गीकृत्य राजा तेजसिंहबहादुर: (1937-1947) आलवार्प्रदेशं पालयति स्म । स्वतन्त्रभारते स्वस्थिति: कीदृशी स्यात् इति विषये मनसि अस्पष्टतां वहन् राजा वैयक्तिकवित्तरक्षणाय ( Financial Security) मार्गम् अन्विष्यन् आसीत् । तदवसरे एव राज्यस्य वनप्रदेश: तस्य दृष्टिगोचरताम् आगत: । अत: अचिरात् एव वृक्षच्छेदनेन वने वृक्षा: नष्टा: अभवन् । राज्ञ: धनकोश: पूर्ण: जात: । यदा ‘Contractor’-जनानां यानानि अरावलीपर्वतस्य खण्डितवृक्षान् नयन्ति स्म, तदा तै: वृक्षै: साकं तस्य प्रदेशस्य सुभिक्षं, तत्रत्यानां जनानां जीवनस्य परिपूर्णत्वम् इत्यादीनि अपि नीतानि अभवन् । किन्तु अयम् अंश: ग्रामीणै: तज्ज्ञै: वा न अवगत: एव । अस्य कृत्यस्य (दुष्कृत्यस्य !) प्रभाव: शनै: शनै: दृष्टिगोचर: अभवत् । तस्मात् -

  • शनै: शनै: वृष्टि: न्यूना जाता ।
  • 5 कि.मी.दूरं गत्वा जलस्य आनयनं तत्रत्यानां महिलानां बालिकानां च दैनन्दिनं कार्यम् अभवत् ।
  • क्षेत्राणि कृषिकार्याय अनर्हाणि अभवन् ।
  • पुरुषा: स्वग्रामं स्वकुटुम्बं स्वजीवनशैलीं च परित्यज्य गुजरात्राज्यस्य नगराणि गत्वा भवननिर्माणकार्यं शरणं गतवन्त: ।

झटिति एतादृशस्य समाजस्य उद्घारार्थं कानि कार्याणि करणीयानि, कानि पदानि न्यसितव्यानि च इति स्पष्टतया जानन्ति स्म ते युवका: । ‘यदि बालकबालिका: विद्यालयं गच्छेयु:, पुरुषा: नगरेभ्य: प्रत्यागत्य कृषिकार्यस्य आरम्भं कुर्यु:, महिला: प्राथमिक-स्वच्छतानियमान् अनुसरेयु: तर्हि एष: ग्राम: शनै: आदर्शग्राम: सम्भवेत्’ इति आसीत् तेषां चिन्तनम् । ‘जना: बोधनीया:’ इति निर्णीतवन्त: ते । समाजस्य परिवर्तनं सरलम् एव दृश्यते स्म तेषां युवकानां दृष्ट्या । किन्तु दौर्भाग्यं नाम ग्रामीणा: एतस्य युवगणस्य कथनस्य श्रवणे सर्वथा अनासक्ता: आसन् । एतेषां मार्गदर्शनम् अङ्गीकर्तुं सिद्धा: न आसन् ते । एवम् एव कतिचन मासा: गता: ।

‘‘अलं चर्चया । अत्रत्यस्य जलाशयस्य (Check Dam) पुनरुद्धारं कुर्वन्तु नाम’’ - गोपालपुरग्रामीण: वृद्ध: मङ्गुभाईपटेल: अवदत् । तस्य आदेशम् अवगन्तुम् अङ्गीकर्तुं वा अशक्ता: राजेन्द्र-सिंहस्य सुहृद: केचन स्वीकृतं कार्यम् असाध्यं मन्यमाना: गृहं जयपुरं प्रतिप्रस्थितवन्त: । वृद्धस्य तस्य वचनस्य विषये ग्रामीणानाम् अपि महान् प्रतिस्पन्द: कोऽपि न आसीत् । राजेन्द्रसिंह: तु तस्मात् आदेशात् स्वजीवनस्य लक्ष्यम् अवगतवान् । यस्य प्राप्त्या सर्वं सिद्धं भवेत्, यस्य अभावे ग्रामीणानां जीवनस्य परिवर्तनम् असाध्यं तत् ‘जलम्’ एव अतिमुख्यम् इति दृष्टि: स्पष्टतया तेन तस्मिन् क्षणे प्राप्ता । अनुक्षणं ‘भोगसाधनहस्त:’ भूस्वामिपुत्र: राजेन्द्रसिंह: ‘खनित्रहस्त:’ भूत्वा कार्यारम्भम् अकरोत् । अन्यसाहाय्यं विना, क्वचित् एव प्राप्तेन अल्पेन साहाय्येन च स: कार्यमग्न: अभवत् । यावत् तस्य जलाशयस्य पुनर्निर्माणं समाप्तं तावता वृष्टे: सन्नाह: आरब्ध: । वृष्टे: आरम्भात् अल्पे एव काले जलं जलाशये सङ्गृहीतं जातम् । न केवलं तत्, समीपस्थानां गृहाणांं कूपेषु अपि जलं सन्दृष्टम् !! एतत् अपूर्वं दृश्यं द्रष्टुं पार्श्वस्थेभ्य: ग्रामेभ्य: जना: गणश: आगतवन्त: । यस्य आदेशेन एतत् कार्यम् आरब्धम् आसीत् तस्य मङ्गुभाईपटेलस्य बान्धवा: नवभ्य: ग्रामेभ्य: आगता: आसन् । तेषु षड्भ्य: ग्रामेभ्य: आगता: अवदन् यत् वयम् अपि स्वीये स्वीये ग्रामे एतादृशस्य जलाशयस्य निर्माणं करिष्याम: इति ।

स्वग्रामे स्वक्षेत्रे वा कूपखननं वैयक्तिकयत्नेन धनेन वा साधयितुं शक्यम् । परन्तु जलाशय: तु वैयक्तिकसम्पत्ति: नास्ति । स: सर्वस्य ग्रामस्य सम्पत्ति: । तस्या: स्वामी न कोऽपि भवति, किन्तु तत: लाभ: तु सर्वै: अपि प्राप्स्यते । एतादृश्या: समाजसम्पत्ते: निर्माणं कथम् ? सर्वे अग्रेसरस्य राजेन्द्रसिंहस्य मार्गदर्शनं याचितवन्त: । यदा ग्रामीणा: उत्साहेन ‘तरुणभारतसङ्घस्य’ (तत् आसीत् राजेन्द्रस्य गणस्य नाम) साहाय्यं प्रार्थितवन्त: तदा झटिति जनानां सहयोगेन जलाशयनिर्माणकार्यारम्भं कर्तुं शक्यम् अभविष्यत् । युगपत् अष्टोत्तरशतं जलाशयान् निर्माय तेषाम् अखण्डसमारोपकार्यक्रमं कारयितुम् अपि अवकाश: आसीत् एव । परन्तु तादृशी कार्यशैली तरुणभारतसङ्घेन न चिता । तरुणभारतसङ्घीया: तु कार्यारम्भात् पूर्वं कतिचन क्रमान् पूर्वाङ्गत्वेन कल्पितवन्त: । प्रथमं सोपानम् आसीत् - प्रतिग्रामम् एकस्या: ग्रामसभाया: आयोजनम्, यया जलाशय-निर्माणकार्यं स्वीक्रियेत, यया ग्रामस्थानां सर्वेषां गृहाणां सहमति: क्रियमाणाय कार्याय प्राप्तव्या स्यात् । ‘प्रतिकुटुम्बम् अङ्गीकार: मौखिकमात्रं भवेत् चेत् न अलम् । जलाशयनिर्माणकार्याय यत्किञ्चित् धनस्य दानेन शारीरकसहभागेन वा स्वस्य अङ्गीकारं सूचयेयु: सर्वे कुटुम्बा:’ इति निर्णीतम् ।

येन क्रमेण गोपालपुरे प्रथम: जलाशय: निर्मित: तेन एव क्रमेण सर्वत्र कार्यारम्भं कर्तुं न शक्तं राजेन्द्रसिंहेन । सर्वेषां सहभाग: यावत् न प्राप्येत तावत् कार्यारम्भ: न स्यात् इति उतवान् स: । एतादृशेन नियमेन कार्यारम्भे विलम्ब: निश्चयेन अभवत् बहुत्र । परन्तु अनया शैल्या यदा जलाशया: निर्मिता: तदा तान् जलाशयान् प्रति सर्वेषां स्वामित्वं बन्धुत्वं च अभवत् । तस्मात् कृतस्य कार्यस्य, निर्मितस्य जलाशयस्य च रक्षणं सरलम् अभवत् । ‘कार्यस्य दायित्वं ग्राम-सदस्यानां, वयं तु प्रेरणादातार:’ इति स्पष्टता आसीत् तरुणभारत-सङ्घस्य कार्यकर्तॄणां नेतु: च मनसि । ‘एतस्मात् समाजकार्यकरणाय एका उत्तमा प्रणाली लोके सर्वत्र प्राप्ता राजस्थानात्’ इति क्षेत्रज्ञा: इदानीम् अभिप्रयन्ति ।

राजस्थानप्रयोगस्य अन्यत् वैशिष्ट्यम् आसीत् - स्वीकृतस्य कार्यस्य लघुत्वं सरलत्वं च, यत्र यत्नस्य फलस्य च अन्तरम् एव न आसीत् ।

  • जलाशयनिर्माणं ग्रामीणानां शारीरकधनशक्त्या एव कर्तुं शक्यम् आसीत् । सर्वकारस्य इतरेषां वा साहाय्यम् आवश्यकं न आसीत् ।
  • जलाशयनिर्माणात् अनन्तरं यदा प्रथमवारं वृष्टि: जायते तदा प्रतिगृहं कूपेषु जलं दृष्टम् ।
  • प्राप्तं फलं जनानां दैनन्दिनजीवनस्य शारीरक-प्रयासं न्यूनम् अकरोत् ।

यत्र प्रथम: जलाशय: निर्मित: तस्य गोपालपुर-ग्रामस्य अनुभव: इतरग्रामेषु कार्यारम्भाय प्रेरणावृद्ध्यै च जातम् । तस्मात् आजन्म ये निराशताग्रस्ता: आसन् ते ग्रामीणा: नवोत्साहं प्राप्य स्वस्य ग्रामेषु यथाशक्ति जलाशयनिर्माणकार्यं स्वीकृतवन्त: । प्रतिग्रामम् अनुभव: उत्तम: एव आसीत् । जलाशयनिर्माणात् जातया जलप्राप्त्या इतरे अपि प्रेरणां प्राप्तवन्त: । जलाशयनिर्माणप्रगति: सर्वेषां कल्पनां स्वप्नं च अतिशेते स्म ।

  • प्रथमे संवत्सरे 9 जलाशया: निर्मिता: अभवन् ।
  • द्वितीये संवत्सरे 36 जलाशया: निर्मिता: अभवन् ।
  • तृतीये संवत्सरे 90 जलाशया: निर्मिता: अभवन् ।
  • चतुर्थे च 210 जलाशया: निर्मिता: अभवन् ।

एवम् एकस्मिन् एव दशके 700 जलाशया: निर्मिता: अभवन् आलवार्परिसरस्य विभिन्नेषु ग्रामेषु । यत्र मानवयत्न: समाप्त:, तत: प्रकृति: अस्य पुनरुद्धरण-कार्यस्य दायित्वं स्व्यकरोत् । आलवार्परिसरे जना: स्वतन्त्रतया कार्यं कुर्वन्त: 90 कि.मी. यावत् प्रवहन्त्या: रूपारेल्नद्या: तीरे अपि 350 जलाशयान् निर्मितवन्त: । तस्मात् तस्यां नद्यां जलप्रवाह: दृष्ट: - बहूनां दशकानाम् अनन्तरम् । तथैव 1990 संवत्सरे अरावलीनद्या: मुखं प्रथमवारं दृष्टम् । 1995 तमात् वर्षात् आरभ्य एषा नदी निरन्तरं जलेन पूर्णा सती ‘जीवनदी’ जाता । ग्रामे जलाशयानां निर्माणात् अनन्तरं तस्य ग्रामस्य तडाग: जलेन पूर्ण: अभवत् । अचिरात् एव तडागे मीनानां समूह: दृष्ट: ।

राजेन्द्रसिंहस्य प्रेरणया ग्रामीणा: सामूहिकनिर्णयं कृतवन्त: यत् वयं तडागात् मीनग्रहणं न कुर्म: इति । तथैव आचरितवन्त: अपि ते । यदा तडागे मीना: बाहुल्येन दृष्टा: तदा तत्रत्य: सर्व-कार: ‘स्वदायित्वं’ ‘स्वकर्तव्यं’ च स्मरन् तेषां मीनानां सङ्ग्रहणदायित्वम् एकस्मै प्रादात् । स: सर्वकारीयानि अङ्गीकारपत्रकाणि स्वीकृत्य यदा ग्रामं प्रविष्टवान् तदा ग्रामजना: तं गलहस्तिकया दूरीकृतवन्त: । तेषां दृढ-सङ्कल्पम् अवगम्य स: तत: पलायितवान् । शनै: शनै: तडागे मीनानां बाहुल्यं यत् जातं तत: पक्षिण: आकृष्टा: अभवन् । पूर्वयोजनां विना, सर्वकारस्य धनव्ययं विना, तडागस्य रक्षणाय आवरणं विना च तस्मिन् ग्रामे एक: पक्षिणां शरणालय: उत्पन्न: अभवत् । वातावरणस्य रक्षणाय मनुष्यै: न केवलं स्वीयं कर्तृत्वं वोढव्यम्, अपि तु अकार्यस्य अकरणम् अपि (अनुचिते काले मत्स्यग्रहणम्) अवश्यं स्मर्तव्यम् इति पाठ: आल्वारीयात् अनुभवात् अस्माभि: अवगन्तुं शक्य: ।

‘देवलोके दुर्भिक्षम्’ इति काचित् उक्ति: अस्ति । एतस्या: उक्ते: आशय: तु - वयं सर्वं देवलोकात् प्राप्नुम: इत्यत: तस्य निरन्तर-प्राप्त्यर्थं देवलोकं प्रति ‘सत्त्वस्य’ प्रेषणाय अस्माभि: यज्ञादीनि कर्तव्यानि अनुष्ठेयानि, अन्यथा दुर्भिक्षं सम्भाव्यते इति । देवलोक: भूलोक: च परस्परम् अवलम्ब्य एव तिष्ठत: । एतस्या: उक्ते: अन्वय: वृष्ट्युत्पादनविषये स्पष्टतया दृश्यते । आकाशात् पतत् तोयं वृक्षमूलानां द्वारा भूम्या: अधोभागं गच्छति, अध: सर्वत्र प्रसरति च । तत: कूपा: तडागा: च जलेन पूर्णा: भवन्ति । वृक्षाणाम् अभावे जलं भूम्या: ऊर्ध्वभागात् एव समुद्रं प्रति (राजस्थाने खननगर्तं प्रति) गच्छति व्यर्थतया । न केवलं तत्, जलप्रवाह: भूम्या: तले विद्यमानाम् उत्तमां मृत्तिकाम् अपि अपनयति । अत: आकाशात् प्राप्तस्य जलस्य भूगर्भे रक्षणम् अवश्यं चिन्तनीयम् । राजेन्द्रसिंहस्य जलाशया: एतत् कार्यं कुर्वन्ति । वृक्षा: अपि अत्र सहकुर्वन्ति । वृक्षा: जलाशयादिभि: कृत्रिमोपक्रमै: साधयितुम् अशक्यम् अन्यत् अपि कार्यं कुर्वन्ति । तच्च - ते वृक्षा: भूम्या: अधोभागे रक्षितं जलं स्वमूलै: गृहीत्वा पर्णानां द्वारा उपरि बाष्परूपेण (Transpiration) प्रेषयन्ति । स: च वायु: उपरि गत्वा पर्जन्यत्वं प्राप्नोति । एवं वृक्षा: एव अत्र ‘हव्यवाहा:’ । एताम् अनिवार्यताम् अवगत्य राजेन्द्रसिंहस्य गणेन वनवर्धनविषये ‘शुक्लाम्बरधरम्....’ उक्तम् । राज्ञ: तेजसिंहस्य दुराशया वृक्षाणां निर्मूलनं यत् जातं तत: अनन्तरम् अरावलीपर्वते भूम्या: अध: पद्मरागशिला: लक्षिता: । तत: महता प्रमाणेन शिलाखननकार्यम् आरब्धम् । एष: प्रदेश: ‘पद्मरागशिलाकेन्द्रम्’ इति प्रसिद्धम् अभवत् । भूम्या: उपरि वृक्षाणां वर्धनं चिन्तनीयम् उत भूम्या: अध: विद्यमानानां खनिजानां बहि: आनयनं करणीयम् इत्येष: प्रश्न: उद्भूत: । अनयो: एकस्या: एव वृत्ते: अवसर: । कार्यद्वयम् अपि युगपत् कर्तुं न शक्यते । तरुणभारतसङ्घ: एतं विचारम् उच्च-न्यायालयस्य पुरत: संस्थाप्य अरावलीपर्वतप्रदेशे खनिजस्य अन्वेषणस्य स्थगनं करणीयम् इति प्रार्थयत् । बहूनां मासानां यत्नस्य, वादप्रतिवादादीनां च अनन्तरं न्यायालयेन सा प्रार्थना अङ्गीकृता । खननकार्यस्य निषेधकरणात् तत्क्षेत्रीयाणां महान्तं विरोधम् अर्जितवन्त: तरुणभारतसङ्घीया: । सङ्घस्य कार्य-कर्तार: आक्रमणस्य विषया: अभवन् । त्र्यधिकवारं राजेन्द्रसिंहं मारयितुं प्रयत्न: प्रवृत्त: । तदा सर्वकारा: आरक्षका: च किं कुर्वन्त: आसन् इति प्रश्न: भवतां मनसि उद्भवेत् एव । वयम् अत्र उत्तरदाने असमर्था: ।

जनानां रक्षणं शासननिर्वहणं च सर्वकाराणां सर्व-कारोद्योगिनाम् अधिकारिणां च उभे मुख्यकर्तव्ये । खनि-भूमीनां स्वामिन: अपि भारतीया: । तेषां रक्षणम् अपि सर्व-कारस्य कर्तव्यम् एव । अत: तस्मात् कर्तव्यात् सर्वकारीया: च्युता: भवितुं न इच्छन्ति । शासननियमा: जनानां रक्षणाय कथं राजस्थाने उपयुक्ता: इति पश्याम - तरुणभारतसङ्घेन राजेन्द्रसिंहस्य नेतृत्वे शासनम् उल्लङ्घ्य द्वौ महान्तौ अपराधौ कृतौ -

  • सर्वकारस्य भूमौ जलाशयानां निर्माणं कृतम् ।
  • वने अङ्कुरार्पणं विहितं, वृक्षाणां वर्धनं कृतं च ।

राजेन्द्रसिंहं प्रति सर्वकारस्य प्रतिनिधित्वेन विभिन्ना: विभागा: पत्राणि, अधिसूचना:, बन्धनादेशादीनि च प्रेषित-वन्त: । एकस्मिन् कालखण्डे तान् अभिलक्ष्य राजस्थानस्य विभिन्नेषु न्यायालयेषु 377 न्यायिकाभियोगा: पञ्जीकृता: आसन् ।

एतस्या: स्थित्या: परिहार: राज्यस्य राजधानीत: जयपुरात्, देशस्य राजधानीत: देहलीत:, उच्चन्यायालयात् वा न प्राप्त: । राजनीतिपुरुषा:, समाजस्य अन्ये नेतार: च स्वकार्यमात्रे मग्ना: आसन् । तरुणभारतसङ्घस्य अयं प्रयत्न: सुदूरस्थायां फिलिप्पैन्-देशस्य राजधान्यां मनिलायां निवसद्भि: अभिज्ञात: । 1999 तमस्य वर्षस्य अगस्ट्मासस्य प्रथमे दिनाङ्के तस्य संवत्सरस्य ‘म्याग्सेसे’-पुरस्काराय अरावलीप्रदेशस्य वातावरणस्य रक्षणाय कृतप्रयत्न: राजेन्द्रसिंह: चित: । विदेशीयस्य पुरस्कारस्य प्राप्ते: अनन्तरं एतस्य आन्दोलनस्य विषय: सर्वत्र प्रसृत: अभवत् भारते । तदनन्तरं सर्वकारा: राजेन्द्रसिंहं प्रति ‘बाणप्रेषणं’ स्थगितवन्त: ।

निसर्ग: मनुष्याणाम् इतरजीविनां च प्रयोजनाय कल्पित: अस्ति भगवता । यदि अल्पपरिमाणेन तस्य दुष्प्रयोग: जायेत तर्हि स: क्षमार्ह: भवेत् । निसर्ग: अपि तं कथमपि सहेत । परन्तु यदि महता प्रमाणेन स: दुष्प्रयोग: जायेत तर्हि निसर्ग: सर्वथा विनष्ट: भवेत् । राजस्थानम् एव एतस्य प्रत्यक्षम् उदाहरणम् । एतां स्थितिं ‘Tripping Point’ इति तज्ज्ञा: वर्णयन्ति । महती हानि: जाता स्यात् चेदपि तस्या: स्थित्या: परिवर्तनम् उचितेन मानवयत्नेन भवितुम् अर्हति इत्येतम् अंशं निरूपयति आल्वारप्रदेशीय: अनुभव: । एवम् आल्वार्प्रदेशे वृक्षाणां वर्धनेन रक्षणेन च निसर्गसामरस्यं साधितम् ।

  • वृक्षात् जलं, जलात् मीना:, तत: पक्षिण: चेति प्रतिपदं वर्धनं पुनरुद्धरणं च ।
  • प्रतिगृहं कूपे जलम् आसीत् इत्यत: प्रतिदिनं दूरात् जलानयनकार्यात् विमुक्ता: बालिका: पाठशालां प्रति गमनम् आरब्धवत्य: ।
  • कृषि: साध्या अभवत् इति कारणेन पुरुषा: नगरेभ्य: प्रत्यागतवन्त: ।
  • समय: प्राप्त: इति कारणेन महिला: अक्षराभ्यासम् आरब्धवत्य: ।

यत् जयपुरयुवान: इष्टवन्त: तत् सर्वं साधितम् । परन्तु यथा कर्तव्यम् इति तै: चिन्तितं तेन क्रमेण न । प्रत्युत सर्वम् अङ्कुरार्पणात् साधितम् ।

आधारः[सम्पाद्यताम्]

'सम्भाषणसन्देशः' - मार्च् २००९
लेखकः – एन्. आर्. कुमारः