सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ५

विकिस्रोतः तः

ब्राह्मण १

१ उदयनीयेष्टिः तस्याम्प्रधानभूतस्यादित्यस्य चरोरुत्पत्तिविधिः, औदयनीयमितिकर्तव्यताजातं सर्वं प्रायणीयवत्कर्तव्यमितिप्रतिपादनाय प्रायणीयेतिहासस्येहातिदेशः, प्रायणीयोदयनययोर्द्वयोः प्रयोजनकथनं, प्रायणीयोदयनीययोः सकारणं देवताक्रमनिरूपणं चेति
अनुबन्ध्यायागः-तत्र प्रधानभूताया मैत्रावरुण्याया वशाया अनुवन्ध्याया उत्पत्ति- विधिः, उक्तस्यानुबन्ध्यायागस्य समिष्टयजुषामन्ते कर्तव्यतया चोदितत्वात्सवनीयादन्यपशुबन्धयागत्वस्य निरूपणम्, अनुबन्ध्याया वशाया मैत्रावरुणीयत्वे कारणप्रदर्शनम्, मैत्रावरुण्यावशायागस्य प्रयोजनकथनम्, मैत्रावरुण्याया वशाया उत्पत्तिं वर्णयितुं कारणोपन्यसनं, तत्प्रसङ्गेनाङ्गारेभ्योऽङ्गिरसां तदन्वन्यपशूनां पशुष्वपि परिशिष्टपांसुभ्यो गर्दभस्य परिशिष्टाद्रसान्मैत्रावरुण्या- वशायाश्चोत्पत्तिमभिधाय तस्या अन्त्यत्वे कारणाभिधानम्, वशाया गोरभावे उक्षवशस्यादानकथनं च, ततो वैश्वदेव्यावशायास्तदनन्तरं बार्हस्पत्या वशायाश्चोत्पत्तिवर्णनं तत्र बार्हस्पत्या वशाया अन्त्यत्वे कारणोपवर्णनं च, ये संवत्सरं तदधिककालं वा सहस्रदक्षिणाकं तदधिदक्षिणाकं वा दीर्घसत्रं गवामयनादिकमासीरंस्तैरुक्तं दीर्घसत्रे एतासां सर्वासां मैत्रावरुणीवैश्वदेवीबार्हस्पतीनां वशानामुत्पत्तिक्रमेणालंभो विधेय इति निरूपणं चेति.
उदवसानीयेष्टिः - तत्रोदवसानीयेष्टेरुत्पत्तिविधिमभिधाय तत्प्रधानभूतस्याग्नेयस्य पञ्चकपालस्य पुरोडाशस्य सार्थवादं विधानं पञ्चकपालत्वे कारणनिरूपणं च, अस्यामिष्टौ हिरण्यमनड्वान्वा दक्षिणां दद्यादिति सकारणं विधानम्, अथवोदवसानीयास्थाने पशुवच्चतुर्गृहीतेनाज्येन वैष्णव्यर्चाऽऽहुतिर्होतव्येति सोपपत्तिकं विधानम्, अत्रापि पक्षे यत्किंचिच्छक्त्यनुसारेण दक्षिणात्वेन दद्यादिति सहेतुकं विधानम्, उदवसानीयेष्टेस्तत्स्थानीयाहुतेरन्ते वा सायमग्निहोत्रहोमविधानं स्वकाले एव प्रातरग्निहोत्रहोमविधानं चेत्यादि


ब्राह्मण २

२ अनुबन्ध्याप्रायश्चित्तं-तत्र वशाया आलभनादिवपोत्खेदान्तेतिकर्तव्यता- नुष्ठानानंतरं गर्भान्वेषणप्रैषदानकथनम्, अन्वेषणोत्तरं यदि गर्भो न लभ्यते तदा न काऽपि प्रायश्चित्तिः यदि च लभ्यते तदैषा प्रायश्चित्तिः कर्तव्येतिनिरूपणं, गर्भस्य लाभे तद्धिंसारूपं दोषं निरूप्य स्थाल्युष्णीषयोरुपकल्पनकरणप्रैषदानकथनं, वपाप्रचरणं विधाय अध्वर्युयजमानयोः पुनरागमनविधानम्, तदुत्तरमध्वर्योर्गर्भनिरूहणार्थकस्य प्रैषद्वयदानस्य विधानम्, निरुह्यमाणस्य गर्भस्य समन्त्रकं मन्त्रार्थयुतं चाभिमन्त्रणविधा- नम्, सप्रकारकं गर्भान्मेधग्रहणमुपवर्ण्य प्राकृतपशुवदवदानग्रहणकथनं च, अवदानानां मेधस्य च युगपच्छ्रपणं कृत्वा गर्भं चोष्णीषेणावेष्ट्य पशुश्रपणस्य पार्श्वतो विधानं, ततोऽध्वर्योः सेतिकर्तव्यताकं वसावदानहोमविधानं तदनु प्रतिप्रस्थातुः सेतिकर्तव्यताकं मेधहोमविधानं च, उक्ते मेधहोमे मंत्रं विनियुज्य व्याख्याय च तस्मिन्मंत्रे पुंस्त्वस्त्रीत्वादिलिङ्गस्य ज्ञानेऽज्ञाने च ऊहप्रकारवर्णनम्, अध्वर्योः सेतिकर्तव्यताकं वानस्पत्यस्य स्विष्टकृद्यागस्य विधानं तदनु प्रतिप्रस्थातुः सेतिकर्तव्यताकं सर्वस्य मेधस्य होमविधानं च, उक्ते मेधहोमे मन्त्रं विनियुज्य. तदभिप्रायकथनं च, स्विष्टकृदन्तेऽस्य गर्भावशेषस्य सहेतुकं वृक्षे आसंजनमप्सु- वाऽभ्यवहरणमाखूत्करे वोपकिरणं कुर्यादिति प्रतिपत्तौ पक्षत्रयं कथयित्वा तेष्वनुव्याहारभयं दर्शयित्वा चांते पशुश्रपणे शामित्रेऽग्नौ मरुत उद्दिश्य- जुहुयादिति सोपपत्तिकेन चतुर्थपक्षेण प्रतिपत्तेर्निगमनं, होमात्मके चतुर्थपक्षे होमावसरं होमप्रकारं चाभिधाय मन्त्रं च विनियुज्य मन्त्रान्ते स्वाहाकारो न प्रयोक्तव्य इति साभिप्रायं निरूपणं हुतस्य गर्भस्य समन्त्रकमङ्गारैरभ्यूहनविधानं चेत्यादि,


ब्राह्मण ३

३ षोडशीग्रहः-तत्र ज्योतिष्टोमे एव षोडशीग्रहस्य काम्यं विधानं तदर्थमिति- हासोपन्यासश्च, मंत्रेणोक्तेतिहासस्य दृढीकरणं फलविधिश्च उक्तस्य षोडशीग्रहस्यानुष्टुप्छन्दस्कया हरिवत्यंर्चा चतुःस्रक्तिना पात्रेण सोपपत्तिकं- ग्रहणविधानं, विहिते ग्रहणे प्रातःसवने आग्रयणानन्तर्यरूपं वा माध्यन्दिनसवने आग्रयणानन्तर्यरूपं वा कालं विधाय वैकल्पिकं ग्रहणसाधनभूतमंत्रद्वयविधानं, सप्रयोजनं कालविशिष्टस्य षोडशीग्रहस्तोत्रस्योपाकरणानुशंसनयोर्विधानं चेति.
अथ पृष्ठ्यः षडहो, विश्वजिदेकाहश्च ।
४ अतिग्राह्याग्रहाः तत्र पूर्वं पृष्ठ्ये षडहे विश्वजिति चातिग्राह्यग्रहविधायिन्या- ख्यायिका, अतिग्राह्यशब्दनिर्वचनम्, अतिग्राह्यग्रहाणां ग्रहणे समुच्चित्य फल-


ब्राह्मण ४ अथ पृष्ठ्यः षडहो, विश्वजिदेकाहश्च ।

४ अतिग्राह्याग्रहाः तत्र पूर्वं पृष्ठ्ये षडहे विश्वजिति चातिग्राह्यग्रहविधायिन्याख्यायिका, अतिग्राह्यशब्दनिर्वचनम्, अतिग्राह्यग्रहाणां ग्रहणे समुच्चित्य फलविधानं त्रयाणामपि तेषां प्रत्येकं प्रातिस्विकफलप्रदर्शनं च प्रातःसवने आग्रयणग्रहग्रहणानन्तरं वा माध्यन्दिनसवने उक्थ्यग्रहग्रहणानन्तरं वोपाकरिष्यन्पूतभृतोऽतिग्राह्यग्रहान्गृह्णीयादिति- सकारणं पक्षपक्षान्तरेण तेषां ग्रहणावसरत्रयं विधायोक्तेषु पक्षेषु प्रथमपक्षस्यैव निगमनं, गृहीतानामेषामतिग्राह्यग्रहाणां माहेन्द्रग्रहहोमादनन्तरं सोपपत्तिकं होमकरणविधानं, क्रमेण तेषां विहिते ग्रहणे मंत्रत्रयस्य विनियोजनं, यजमानस्य तेषां सप्रयोजनं भक्षणविधानं, पृष्ठ्ये षडहे यागे तानतिग्राह्य- ग्रहान् पूर्वे त्र्यहेऽन्वहमेकैकं गृह्णीयादथवोत्तरेऽन्वहमेकैकं गृह्णीयादिति पक्षद्वयमुक्त्वा तन्मध्ये द्वितीयं पक्षं निषिध्य प्रथमपक्षं च सिद्धान्तीकृत्य पुनः यदोत्तरे एव जिघृक्षा तदा पूर्वे उत्तरे च त्र्यहेऽर्थादुभयत्र गृह्णीयादिति तेषां ग्रहणप्रकारकथनम्, सर्वपृष्ठे विश्वजिति त्वेतेषां यथानुपूर्व्या एकाहे एव ग्रहणविधानं चेति.


ब्राह्मण ५

५ यज्ञात्मकस्य प्रजापतेरुपांशुपात्रादिभ्यःप्रदेशेभ्योऽजाविमनुष्यादयः प्रजाः प्रजायन्ते तेषां च पात्राणां पौनःपुन्येन प्रयोगात्ताः प्रजा अपि पौनःपुन्येन प्रजायन्ते यदा यदा चान्ते प्रजापत्यात्मकाद्यज्ञात्स- लेशो यदन्ततो हारियोजनो भवति स तदैताः प्रजाः पालयितुमभिजिघ्रति । उपांशुपात्रस्यासादनेनैव सर्वाः प्रजाः प्रजायन्ते इत्यादिरूपेण सप्रकारकेणार्थवादेन यज्ञसमृद्धेरुपपादनमित्यादि


ब्राह्मण ६

६ अवकाशमन्त्राः- तत्र ज्योतिष्टोमे एवाश्विनग्रहणोत्तरमध्वर्युर्ग्रहणक्रमाद्य- जमानेनोपांश्वादीन्ग्रहानवेक्षयति प्रतिग्रहं ' प्राणाय मे ' इत्याद्यवकाश मन्त्राणां प्रतिमन्त्रं यजमानाय वाचनदानपूर्वकमिति सप्रकारकमवकाशमन्त्र- वाचनविधानं ततो यजमानस्यान्वङ्ग माशिषां भूर्भुवः स्वः इति मन्त्रेणाशासनं, एतच्चावकाशमन्त्रवाचनं ज्ञातप्रियानूचानान्यतमाय यजमानाय कर्तव्यं नान्यस्मै इति नियमनं चेति


ब्राह्मण ७

७ ज्यौतिष्टौमिकं प्रायश्चित्तं-तत्र पूर्वं चतुस्त्रिंशतो मन्त्रविशेषाणां व्याहृतित्वमुपपाद्य तेषां प्रायश्चित्तार्थत्वोपपादनं , घर्मदुहो गोर्मरणेऽदोहे चान्यां गामुपसंक्रामय्येत्यादिप्रकारसहितं व्याहृतिभिश्चतुस्त्रिंशदाज्याहुतिहोमात्मकं प्रायश्चित्तं कुर्यादिति प्रतिपादनं सोमयागे यत्र कुत्रापि कर्मणि सोमाङ्गस्य सोमाङ्गाङ्गस्य वोपपाते परमेष्ठ्यादिचतुस्त्रिंशदाहुतीनां मध्ये ब्रह्मणा सकृद्गृहीतेनाज्येन तत्तद्देवत्यैकैका कालाहुतिराहवनीये होतव्या सुत्यासु त्वाग्नीध्रीये होतव्येति सौमि- काङ्गाद्युपपातप्रायश्चित्तविधानं, सोमेऽभिषुतस्य सोमरसस्य स्कन्दने स्कन्नम- द्भिरुपनिनीय वैष्णववारुण्यर्चाऽभिमृशेदिति सोपत्तिकं सौमिकहविःस्कन्दन- प्रायच्चित्तविधानम्, उक्ते प्रत्यश्चित्ते स्कन्नमद्भिरनुपनिनीय केवलं तत्स्कन्नं ' देवान्दिवम् ' इति मन्त्रेणाभिमृशेदेवेति पक्षान्तरविधानम्, उक्तासु कालाहुतिषु ताभि सहैव यजमानाय ' यज्ञस्य
दोहः- ' इति मन्त्रस्य सोपपत्तिकं वाचनविधानं चेति


ब्राह्मण ८

८ गर्गत्रिरात्रमहीनम्-तत्रादौ सप्रकारकं सहस्र्या गौरतिरेचनविधानम्, अतिरेचनीयाया गोः परिच्छेदार्थं त्रिरूपारोहिण्युपध्वस्ताऽप्रवीतेति विशेषणचतुष्ट्याभिधानम्, दक्षिणानयनकाले आद्येऽह्नि अस्याः साहस्र्या गोरितराभ्यस्तस्मिन्नहनि नीयमानाभ्यो गोभ्यः पूर्वं वाऽन्त्येऽह्नि पश्चात्प्रतिनयनविधानं, ततोऽस्यै साहस्र्यै गवे सप्रकारकं सप्रयोजनं समन्त्रं द्रोणकलशस्यावघ्रापणविधानम्, अस्याः साहस्र्या गोर्दक्षिणे कर्णे यजमानकर्तृकं ' इडेरन्ते ' इतिमन्त्रस्य जपविधानं तत्र मन्त्रे ' ब्रूतात् ' इत्यस्य स्थाने ' वोचेः ' इति विपरिणमेदिति विधानं च, ततस्तस्याः साहस्र्या गोर्विमोचनं विधाय तस्याः स्वच्छन्दगमनेन यजमानाय फलोन्नयनविज्ञानकथनं, अनुबंध्यवपाहोमोत्तरमुदवसानीयायां वा होत्रादिभ्यः सोपपत्तिकं गोसाहस्रीदक्षिणादानविधानं तद्विभजनप्रकारकथनं च उक्तप्रकारेण दक्षिणां विभज्य दाने फलकथनं चेति. इति गर्गत्रिरात्रम् ।


ब्राह्मण ९

९ व्यूढद्वादशाहः-तत्र प्रथमं व्यूढद्वादशाहस्योत्पत्तिविधिः, अध्वर्योर्ग्रहव्यूहनं विधाय होतुरुद्गातुश्च छन्दोव्यूहनविधानं तत्रापि पूर्वस्मिंस्त्र्यहे समूढच्छन्द- स्वमर्थादैन्द्रवायवाग्रं ग्रहग्रहणविधानं, चतुर्थनवमयोः सकारणमाग्रयणाग्रत्वं-षष्ठसप्तमयोः शुक्राग्रत्वं-पंचमाष्टमयोरैन्द्रवायवाग्रत्वं तथा पूर्वेषां ग्रहणात्पूर्वं शुक्राग्रायणयोः स्वस्वस्थानेनासादनं किंतु परिमार्जनप्रभृति कृत्वा प्राकृते काले आसादानं विधेयं तदप्यासादनं यस्य हिङ्कारो विहितस्तेषां तदितरेषां त्वहिड्कृत्यैवासादनमिति विशेषप्रकारविधानम्, अनयोर्व्यूहनाव्यूहनयोरुपपादनं चेत्यादि. इति व्यूढद्वादशाहः ।


ब्राह्मण १०

१० प्रक्रान्ते ज्योतिष्टोमे प्राकृते वैकृते वा यदि सोमोऽपहृतश्चेत्तदा सोमान्वेषणप्रैषद्वयविधानपूर्वकं पूर्वपूर्वस्यालाभे उत्तरोत्तरेषामार्जुनारुणपुष्पश्येनहृतपूतिकादारारुणदूर्वाहरितकुशानां प्रतिनिधीनां सकारणमभि- षवविधानं, प्रतिनिध्यनुष्ठाने एकस्या एव गोर्दक्षिणात्वेन विधानम्, अवभृथान्ते एव प्रक्रांतं यज्ञं समाप्य पुनदींक्षां गृहीत्वाऽनुष्ठितयागेन पुनर्यजेतेत्येवं सोमापहरणे पुनर्यज्ञरूपप्रायश्चित्तविधानं, द्रोणकलशवसतीवर्येकधनादिकलशभेदे सेतिकर्तव्यताकं प्रायश्चित्तविधानं, तत्रापि दक्षिणादानात्प्राग्द्रोणकलशभेदने पूर्ववत्पुनर्यज्ञरूपं प्रायश्चित्तविधानं ज्यौतिष्टौमिकास्वग्निष्टोमादिसंस्थासु सोमातिरेके प्रायश्चित्तविधानं चेति.