शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ५/ब्राह्मण ४

विकिस्रोतः तः

४.५.४ अतिग्राह्याग्रहाः

सर्वे ह वै देवाः । अग्रे सदृशा आसुः सर्वे पुण्यास्तेषां सर्वेषां सदृशानां सर्वेषाम्पुण्यानां त्रयोऽकामयन्तातिष्ठावानः स्यामेत्यग्निरिन्द्रः सूर्यः - ४.५.४.१

तेऽर्चन्तः श्राम्यन्तश्चेरुः । त एतानतिग्राह्यान्ददृशुस्तानत्यगृह्णत तद्यदेनानत्यगृह्णत तस्मादतिग्राह्या नाम तेऽतिष्ठावानोऽभवन्यथैत एतदतिष्ठेवातिष्ठेव ह वै भवति यस्यैवं विदुष एतान्ग्रहान्गृह्णन्ति - ४.५.४.२

नो ह वा इदमग्रेऽग्नौ वर्च आस । यदिदमस्मिन्वर्चः सोऽकामयतेदं मयि वर्चः स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत ततोऽस्मिन्नेतद्वर्च आस - ४.५.४.३

नो ह वा इदमग्र इन्द्र ओज आस । यदिदमस्मिन्नोजः सोऽकामयतेदं मय्योजःस्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत ततोऽस्मिन्नेतदोज आस - ४.५.४.४

नो ह वा इदमग्रे सूर्ये भ्राज आस । यदिदमस्मिन्भ्राजः सोऽकामयतेदं मयि भ्राजः स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत ततोऽस्मिन्नेतद्भ्राज आसैतानि ह वै तेजांस्येतानि वीर्याण्यात्मन्धत्ते यस्यैवं विदुष एतान्ग्रहान् गृह्णन्ति - ४.५.४.५

तान्वै प्रातःसवने गृह्णीयात् । आग्रयणं गृहीत्वात्मा वा आग्रयणो बहु वा इदमात्मन एकैकमतिरिक्तं क्लोम हृदयं त्वद्यत्त्वत् - ४.५.४.६

माध्यन्दिने वैनान्त्सवने गृह्णीयात् । उक्थ्यं गृहीत्वोपाकरिष्यन्वा पूतभृतोऽयं ह वा अस्यैषोऽनिरुक्त आत्मा यदुक्थ्यः सो एषा मीमांसैव प्रातःसवन एवैनान्गृह्णीयादाग्रयणं गृहीत्वा - ४.५.४.७

ते माहेन्द्रस्यैवानु होमं हूयन्ते । एष वा इन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रोऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं निष्केवल्यं शस्त्रमिन्द्रो वै यजमानो यजमानस्य वा एते कामाय गृह्यन्ते तस्मान्माहेन्द्रस्यैवानु होमं हूयन्ते - ४.५.४.८

अथातो गृह्णात्येव । अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यं दधद्रयिं मयि पोषमुपयामगृहीतोऽस्यग्नये त्वा वर्चस एष ते योनिरग्नये त्वा वर्चसे - ४.५.४.९

उत्तिष्ठन्नोजसा । सह पीत्वी शिप्रे अवेपयः सोममिन्द्र चमूसुतमुपयामगृहीतोऽसीन्द्राय त्वौजस एष ते योनिरिन्द्राय त्वौजसे - ४.५.४.१०

अदृश्रमस्य केतवः । वि रश्मयो जनां अनु भ्राजन्तो अग्नयो यथा उपयामगृहीतोऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजायेति - ४.५.४.११

तेषां भक्षः । अग्ने वर्चस्विन्वर्चस्वांस्त्वं देवेष्वसि वर्चस्वानहम्मनुष्येषु भूयासमिन्द्रौजिष्ठौजिष्ठस्त्वं देवेष्वस्योजिष्ठोऽहम्मनुष्येषु भूयासं सूर्य भ्राजिष्ठ भ्राजिष्ठस्त्वं देवेष्वसि भ्राजिष्ठोऽहम्मनुष्येषु भूयासमित्येतानि ह वै भ्राजांस्येतानि वीर्याण्यात्मन्धत्ते यस्यैवंविदुष एतान्ग्रहान् गृह्णन्ति - ४.५.४.१२

तान्वै पृष्ठ्ये षडहे गृह्णीयात् । पूर्वे त्र्यह आग्नेयमेव प्रथमेऽहन्नैन्द्रं द्वितीये सौर्यं तृतीय एवमेवान्वहम् - ४.५.४.१३

तानु हैक उत्तरे त्र्यहे गृह्णन्ति । तदु तथा न कुर्यात्पूर्व एवैनांस्त्र्यहे गृह्णीयाद्यद्युत्तरे त्र्यहे ग्रहीष्यन्त्स्यात्पूर्व एवैनांस्त्र्यहे गृहीत्वाथोत्तरे त्र्यहे गृह्णीयादेवमेव यथापूर्वं विश्वजिति सर्वपृष्ठ एकाह एव गृह्यन्ते - ४.५.४.१४