शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ५/ब्राह्मण २

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

४.५.२ अनुबन्ध्याप्रायश्चित्तम्

वशामालभते । तामालभ्य संज्ञपयन्ति संज्ञप्याह वपामुत्खिदेत्युत्खिद्य वपामनुमर्शं गर्भमेष्टवै ब्रूयात्स यदि न विन्दन्ति किमाद्रियेरन्यद्यु विन्दन्ति तत्र प्रायश्चित्तिः क्रियते - ४.५.२.१

न वै तदवकल्पते । यदेकां मन्यमाना एकयेवैतया चरेयुर्यद्द्वे मन्यमाना द्वाभ्यामिव चरेयु स्थालीं चैवोष्णीषं चोपकल्पयितवै ब्रूयात् - ४.५.२.२

अथ वपया चरन्ति । यथैव तस्यै चरणं वपया चरित्वाध्वर्युश्च यजमानश्च पुनरेतः स आहाध्वर्युर्निरूहैतं गर्भमिति तं ह नोदरतो निरूहेदार्ताया वै मृताया उदरतो निरूहन्ति यदा वै गर्भः समृद्धो भवति प्रजननेन वै स तर्हि प्रत्यङ्ङैति तमपि विरुज्य श्रोणी प्रत्यञ्चं निरूहितवै ब्रूयात् - ४.५.२.३

तं निरुह्यमाणमभिमन्त्रयते । एजतु दशमास्यो गर्भो जरायुणा सहेति स यदाहैजत्विति प्राणमेवास्मिन्नेतद्दधाति दशमास्य इति यदा वै गर्भः समृद्धो भवत्यथ दशमास्यस्तमेतदप्यदशमास्यं सन्तं ब्रह्मणैव यजुषा दशमास्यं करोति - ४.५.२.४

जरायुणा सहेति । तद्यथा दशमास्यो जरायुणा सहेयादेवमेतदाह यथायं वायुरेजति यथा समुद्र एजतीति प्राणमेवास्मिन्नेतद्दधात्येवायं दशमास्यो अस्रज्जरायुणा सहेति तद्यथा दशमास्यो जरायुणा सह स्रंसेतैवमेतदाह - ४.५.२.५

तदाहुः । कथमेतं गर्भं कुर्यादित्यङ्गादङ्गाद्धैवास्यावद्येयुर्यथैवेतरेषामवदानानामवदानं तदु तथा न कुर्यादुत ह्येषोऽविकृताङ्गो भवत्यधस्तादेव ग्रीवा अपिकृत्यैतस्यां स्थाल्यामेतं मेधं श्चोतयेयुः सर्वेभ्यो वा अस्यैषोऽङ्गेभ्यो मेध श्चोतति तदस्य सर्वेषामेवाङ्गानामवत्तं भवत्यवद्यन्ति वशाया अवदानानि यथैव तेषामवदानम् - ४.५.२.६

तानि पशुश्रपणे श्रपयन्ति । तदेवैतं मेधं श्रपयन्त्युष्णीषेणावेष्ट्य गर्भं पार्श्वतः पशुश्रपणस्योपनिदधाति यदा शृतो भवत्यथ समुद्यावदानान्येवाभिजुहोति नैतं मेधमुद्वासयन्ति पशुं तदेवैतम्मेधमुद्वासयन्ति - ४.५.२.७

तं जघनेन चात्वालमन्तरेण यूपं चाग्निं च हरन्ति । दक्षिणतो निधाय प्रतिप्रस्थातावद्यत्यथ स्रुचोरुपस्तृणीतेऽथ मनोतायै हविषोऽनुवाच आहावद्यन्ति वशाया अवदानानां यथैव तेषामवदानम् - ४.५.२.८

अथ प्रचरणीति स्रुग्भवति । तस्यां प्रतिप्रस्थाता मेधायोपस्तृणीते द्विरवद्यति सकृदभिघारयति प्रत्यनक्त्यवदाने अथानुवाच आहाश्राव्याह प्रेष्येति वषट्कृतेऽध्वर्युर्जुहोत्यध्वर्योरनु होमं जुहोति प्रतिप्रस्थाता - ४.५.२.९

यस्यै ते यज्ञियो गर्भ इति । अयज्ञिया वै गर्भास्तमेतद्ब्रह्मणैव यजुषा यज्ञियं करोति यस्यै योनिर्हिरण्ययीत्यदो वा एतस्यै योनिं विच्छिन्दन्ति यददो निष्कर्षन्त्यमृतमायुर्हिरण्यं तामेवास्या एतदमृतां योनिं करोत्यङ्गान्यह्रुता यस्य तं मात्रा समजीगमं स्वाहेति यदि पुमान्त्स्याद्यद्यु स्त्री स्यादङ्गान्यह्रुता यस्यै तां मात्रा समजीगमं स्वाहेति यद्यु अविज्ञातो गर्भो भवति पुंस्कृत्यैव जुहुयात्पुमांसो हि गर्भा अङ्गान्यह्रुता यस्य तं मात्रा समजीगमं स्वाहेत्यदो वा एतं मात्रा विष्वञ्चं कुर्वन्ति यददो निष्कर्षन्ति तमेतद्ब्रह्मणैव यजुषा समर्ध्य मध्यतो यज्ञस्य पुनर्मात्रा सङ्गमयति - ४.५.२.१०

अथाध्वयुर्वनस्पतिना चरति । वनस्पतिनाध्वर्युश्चरित्वा यान्युपभृत्यवदानानि भवन्ति तानि समानयमान आहाग्नये स्विष्टकृतेऽनुब्रूहीत्यत्याक्रामति प्रतिप्रस्थाता स एतं सर्वमेव मेधं गृह्णीतेऽथोपरिष्टाद्द्विराज्यस्याभिघारयत्याश्राव्याह प्रेष्येति वषट्कृतेऽध्वर्युर्जुहोत्यध्वर्योरनु होमं जुहोति प्रतिप्रस्थाता - ४.५.२.११

पुरुदस्मो विषुरूप इन्दुरिति । बहुदान इति हैतद्यदाह पुरुदस्म इति विषुरूप इति
विषुरूपा इव हि गर्भा इन्दुरन्तर्महिमानमानञ्ज धीर इत्यन्तर्ह्येषमातर्यक्तो भवत्येकपदीं द्विपदीं त्रिपदीं चतुष्पदीमष्टापदीं भुवनानु प्रथन्तां स्वाहेति प्रथयत्येवैनामेतत्सुभूयो ह जयत्यष्टापद्येष्ट्वा यदु चानष्टापद्या - ४.५.२.१२

तदाहुः । क्वैतं गर्भं कुर्यादिति वृक्ष एवैनमुद्दध्युरन्तरिक्षायतना वै गर्भा अन्तरिक्षमिवैतद्यद्वृक्षस्तदेनं स्व एवायतने प्रतिष्ठापयति तदु वा आहुर्य एनं तत्रानुव्याहरेद्वृक्ष एनं मृतमुद्धास्यन्तीति तथा हैव स्यात् - ४.५.२.१३

अप एवैनमभ्यवहरेयुः । आपो वा अस्य सर्वस्य प्रतिष्ठा तदेनमप्स्वेव प्रतिष्ठापयति तदु वा आहुर्य एनं तत्रानुव्याहरेदप्स्वेव मरिष्यतीति तथा हैव स्यात् - ४.५.२.१४

आखूत्कर एवैनमुपकिरेयुः । इयं वा अस्य सर्वस्य प्रतिष्ठा तदेनमस्यामेवप्रतिष्ठापयति तदु वा आहुर्य एनं तत्रानुव्याहरेत्क्षिप्रेऽस्मै मृताय श्मशानं करिष्यन्तीति तथा हैव स्यात् - ४.५.२.१५

पशुश्रपण एवैनं मरुद्भ्यो जुहुयात् । अहुतादो वै देवानां मरुतो विडहुतमिवैतद्यदशृतो गर्भ आहवनीयाद्वा एष आहृतो भवति पशुश्रपणस्तथा ह न बहिर्धा यज्ञाद्भवति न प्रत्यक्षमिवाहवनीये देवानां वै मरुतस्तदेनं मरुत्स्वेव प्रतिष्ठापयति - ४.५.२.१६

स हुत्वैव समिष्टयजूंषि । प्रथमावशान्तेष्वङ्गारेष्वेतं सोष्णीषं गर्भमादत्ते तं प्राङ्तिष्ठञ्जुहोति मारुत्यर्चा मरुतो यस्य हि क्षये पाथा दिवो विमहसः स सुगोपातमो जन इति न स्वाहाकरोत्यहुतादो वै देवानां मरुतो विडहुतमिवैतद्यदस्वाहाकृतं देवानां वै मरुतस्तदेनं मरुत्स्वेव प्रतिष्ठापयति - ४.५.२.१७

अथाङ्गारैरभिसमूहति । मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्पिपृतां नो भरीमभिरिति - ४.५.२.१८
इत्यग्निष्टोमः