शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ५/ब्राह्मण ३

विकिस्रोतः तः

४.५.३ षोडशीग्रहः

इन्द्रो ह वै षोडशी । तं नु सकृदिन्द्रं भूतान्यत्यरिच्यन्त प्रजा वै भूतानि ता हैनेन सदृग्भवमिवासुः - ४.५.३.१

इन्द्रो ह वा ईक्षां चक्रे । कथं न्वहमिदं सर्वमतितिष्ठेयमर्वागेव मदिदं सर्वं स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत स इदं सर्वमेवात्यतिष्ठदर्वागेवास्मादिदं सर्वमभवत्सर्वं ह वा इदमतितिष्ठत्यर्वागेवास्मादिदं सर्वं भवति यस्यैवं विदुष एतं ग्रहं गृह्णन्ति - ४.५.३.२

तस्मादेतदृषिणाभ्यानूक्तम् । न ते महित्वमनुभूदध द्यौर्यदन्यया स्फिग्या क्षामवस्था इति न ह वा अस्यासौ द्यौरन्यतरां चन स्फिचीमनुबभूव तथेदं सर्वमेवात्यतिष्ठदर्वागेवास्मादिदं सर्वमभवत्सर्वं ह वा इदमतितिष्ठत्यर्वागेवास्मादिदं सर्वं भवति यस्यैवं विदुष एतं ग्रहं गृह्णन्ति - ४.५.३.३

तं वै हरिवत्यर्चा गृह्णाति । हरिवतीषु स्तुवते हरिवतीरनुशंसति वीर्यं वै हर इन्द्रोऽसुराणां सपत्नानां समवृङ्क्त तथो एवैष एतद्वीर्यं हरः सपत्नानां संवृङ्क्ते तस्माद्धरिवत्यर्चा गृह्णाति हरिवतीषु स्तुवते हरिवतीरनुशंसति - ४.५.३.४

तं वा अनुष्टुभा गृह्णाति । गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनमथातिरिक्तानुष्टुबत्येवैनमेतद्रेचयति तस्मादनुष्टुभा गृह्णाति - ४.५.३.५

तं वै चतुःस्रक्तिना पात्रेण गृह्णाति । त्रयो वा इमे लोकास्तदिमानेव लोकांस्तिसृभिः स्रक्तिभिराप्नोत्यत्येवैनं चतुर्थ्या स्रक्त्या रेचयति तस्माच्चतुःस्रक्तिना पात्रेण गृह्णाति - ४.५.३.६

तं वै प्रातःसवने गृह्णीयात् । आग्रयणं गृहीत्वा स प्रातःसवने गृहीत एतस्मात्कालादुपशेते तदेनं सर्वाणि सवनान्यतिरेचयति - ४.५.३.७

माध्यन्दिने वैनं सवने गृह्णीयात् । आग्रयणं गृहीत्वा सो एषा मीमांसैव प्रातःसवन एवैनं गृह्णीयादाग्रयणं गृहीत्वा स प्रातःसवने गृहीत ऐतस्मात्कालादुपशेते - ४.५.३.८

अथातो गृह्णात्येव । आतिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना उपयामगृहीतोऽसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिन इति - ४.५.३.९

अनया वा । युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर उपयामगृहीतोऽसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिन इति - ४.५.३.१०

अथेत्य स्तोत्रमुपाकरोति । सोमोऽत्यरेच्युपावर्तध्वमित्यत्येवैनमेतद्रेचयति तं वै पुरास्तमयादुपाकरोत्यस्तमितेऽनुशंसति तदेनेनाहोरात्रे संदधाति तस्मात्पुरास्तमयादुपाकरोत्यस्तमितेऽनुशंसति - ४.५.३.११