शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ५/ब्राह्मण १
४.५.१ उदयनीयेष्टिः
आदित्येन चरुणोदयनीयेन प्रचरति । तद्यदादित्यश्चरुर्भवति यदेवैनामदो देवा अब्रुवंस्तवैव प्रायणीयस्तवोदयनीय इति तमेवास्या एतदुभयत्र भागं करोति - ४.५.१.१
स यदमुत्र राजानं क्रेष्यन्नुपप्रैष्यन्यजते । तस्मात्तत्प्रायणीयं नामाथ यदत्रावभृथादुदेत्य यजते तस्मादेतदुदयनीयं नाम तद्वा एतत्समानमेव हविरदित्या एव प्रायणीयमदित्या उदयनीयमियं ह्येवादितिः - ४.५.१.२
स वै पथ्यामेवाग्रे स्वस्तिं यजति । तद्देवा अप्रज्ञायमाने वाचैव प्रत्यपद्यन्त वाचा हि मुग्धं प्रज्ञायतेऽथात्र प्रज्ञाते यथापूर्वं करोति - ४.५.१.३
सोऽग्निमेव प्रथमं यजति । अथ सोममथ सवितारमथ पथ्यां स्वस्तिमथादितिं वाग्वै पथ्या स्वस्तिरियमदितिरस्यामेव तद्देवा वाचम्प्रत्यष्ठापयन्त्सेयं वागस्यां प्रतिष्ठिता वदति - ४.५.१.४
अनुबन्ध्यायागः
अथ मैत्रावरुणीं वशामनूबन्ध्यामालभते । स एषोऽन्य एव यज्ञस्तायते पशुबन्ध एव समिष्टयजूंषि ह्येवान्तो यज्ञस्य - ४.५.१.५
तद्यन्मैत्रावरुणी वशा भवति । यद्वा ईजानस्य स्विष्टं भवति मित्रोऽस्य तद्गृह्णाति यद्वस्य दुरिष्टं भवति वरुणोऽस्य तद्गृह्णाति - ४.५.१.६
तदाहुः । क्वे जानोऽभूदिति तद्यदेवास्यात्र मित्रः स्विष्टं गृह्णाति तदेवास्मा एतया प्रीतः प्रत्यवसृजति यदु चास्य वरुणो दुरिष्टं गृह्णाति तच्चैवास्मा एतया प्रीतः स्विष्टं करोति तदु चास्मै प्रत्यवसृजति सोऽस्यैष स्व एव यज्ञो भवति स्वं सुकृतम् - ४.५.१.७
तद्यन्मैत्रावरुणी वशा भवति । यत्र वै देवा रेतः सिक्तम्प्राजनयंस्तदाग्निमारुतमित्युक्थं तस्मिंस्तद्व्याख्यायते यथा तद्देवा रेतः प्राजनयंस्ततोऽङ्गाराः समभवन्नङ्गारेभ्योऽङ्गिरसस्तदन्वन्ये पशवः - ४.५.१.८
अथ यदासाः पांसवः पर्यशिष्यन्त । ततो गर्दभः समभवत्तस्माद्यत्र पांसुलं भवति गर्दभस्थानमिव बतेत्याहुरथ यदा न कश्चन रसः पर्यशिष्यत तत एषा मैत्रावरुणी वशा समभवत्तस्मादेषा न प्रजायते रसाद्धि रेतः सम्भवति रेतसः पशवस्तद्यदन्ततः समभवत्तस्मादन्तं यज्ञस्यानुवर्तते तस्माद्वा एषात्र मैत्रावरुणी वशावकॢप्ततमा भवति यदि वशां न विन्देदप्युक्षवश एव स्यात् - ४.५.१.९
अथेतरं विश्वे देवा अमरीमृश्यन्त । ततो वैश्वदेवी समभवदथ बार्हस्पत्यासोऽन्तोऽन्तो हि बृहस्पतिः - ४.५.१.१०
स यः सहस्रं वा भूयो वा दद्यात् । स एनाः सर्वा आलभेत सर्वं वै तस्याप्तम्भवति सर्वं जितं यः सहस्रं वा भूयो वा ददाति सर्वमेता एवमेव यथापूर्वम्मैत्रावरुणीमेवाग्रेऽथ वैश्वदेवीमथ बार्हस्पत्यम् - ४.५.१.११
अथो ये दीर्घसत्त्रमासीरन् । संवत्सरं वा भूयो वा त एनाः सर्वा आलभेरन्त्सर्वं वै तेषामाप्तं भवति सर्वं जितं ये दीर्घसत्त्रमासते संवत्सरं वा भूयो वा सर्वमेता एवमेव यथापूर्वम् - ४.५.१.१२
उदवसानीयेष्टिः
अथोदवसानीययेष्ट्या यजते । स आग्नेयं पञ्चकपालं पुरोडाशं निर्वपति तस्य पञ्चपदाः पङ्क्तयो याज्यानुवाक्या भवन्ति यातयामेव वा एतदीजानस्य यज्ञो भवति सोऽस्मात्पराङिव भवत्यग्निर्वै सर्वे यज्ञा अग्नौ हि सर्वान्यज्ञांस्तन्वते ये च पाकयज्ञा ये चेतरे तद्यज्ञमेवैतत्पुनरारभते तथास्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ्भवति - ४.५.१.१३
तद्यत्पञ्चकपालः पुरोडाशो भवति । पञ्चपदाः पङ्क्तयो याज्यानुवाक्याः पाङ्क्तो वै यज्ञस्तद्यज्ञमेवैतत्पुनरारभते तथास्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ्भवति - ४.५.१.१४
तस्य हिरण्यं दक्षिणा । आग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणानड्वान्वा स हि वहेनाग्नेयोऽग्निदग्धमिव ह्यस्य वहम्भवति - ४.५.१.१५
अथो चतुर्गृहीतमेवाज्यं गृहीत्वा । वैष्णव्यर्चा जुहोत्युरु विष्णो विक्रमस्वोरुक्षयाय नस्कृधि घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति यज्ञो वै विष्णुस्तद्यज्ञमेवैतत्पुनरारभते तथास्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ्भवति तत्रो यच्छक्नुयात्तद्दद्यान्नादक्षिणं हविः स्यादिति ह्याहुरथ यदेवैषोदवसानीयेष्टिः संतिष्ठतेऽथ सायमाहुतिं जुहोति काल एव प्रातराहुतिम् - ४.५.१.१६