शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ५/ब्राह्मण ८
४.५.८ गर्गत्रिरात्रमहीनम्
तद्यत्रैतत्त्रिरात्रे सहस्रं ददाति । तदेषा साहस्री क्रियते स प्रथमेऽहंस्त्रीणि च शतानि नयति त्रयस्त्रिंशतं चैवमेव द्वितीयेऽहंस्त्रीणि चैव शतानि नयति त्रयस्त्रिंशतं चैवमेव तृतीयेऽहंस्त्रीणि चैव शतानि नयति त्रयस्त्रिंशतं चाथैषा साहस्र्यतिरिच्यते - ४.५.८.१
सा वै त्रिरूपा स्यादित्याहुः । एतद्ध्यस्यै रूपतममिवेति रोहिणी ह त्वेवोपध्वस्ता स्यादेतद्धैवास्यै रूपतममिव - ४.५.८.२
सा स्यादप्रवीता । वाग्वा एषा निदानेन यत्साहस्र्ययातयाम्नी वाऽइयं वागयातयाम्न्यप्रवीता तस्मादप्रवीता स्यात् - ४.५.८.३
तां प्रथमेऽहन्नयेत् । वाग्वा एषा निदानेन यत्साहस्री तस्या एतत्सहस्रं वाचः प्रजातं पूर्वा हैषैति पश्चादेनां प्रजातमन्वेत्युत्तमेवैनामहन्नयेत्पूर्वमहास्यै प्रजातमेति पश्चादेषान्वेति सो एषा मीमांसैवोत्तम एवैनामहन्नयेत्पूर्वमहास्यै प्रजातमेति पश्चादेषान्वेति - ४.५.८.४
तामुत्तरेण हविर्धाने । दक्षिणेनाग्नीध्रं द्रोणकलशमवघ्रापयति यज्ञो वै द्रोणकलशो यज्ञमेवैनामेतद्दर्शयति - ४.५.८.५
आजिघ्र कलशम् । मह्या त्वा विशन्त्विन्दव इति रिरिचान इव वा एष भवति यः सहस्रं ददाति तमेवैतद्रिरिचानं पुनराप्याययति यदाहाजिघ्र कलशं मह्यात्वा विशन्त्विन्दव इति - ४.५.८.६
पुनरूर्जा निवर्तस्वेति । तद्वेव रिरिचानं पुनराप्याययति यदाह पुनरूर्जा निवर्तस्वेति - ४.५.८.७
सा नः सहस्रं धुक्ष्वेति । तत्सहस्रेण रिरिचानं पुनराप्याययति यदाह सा नः सहस्रं धुक्ष्वेति - ४.५.८.८
उरुधारा पयस्वती पुनर्माविशताद्रयिरिति । तद्वेव रिरिचानं पुनराप्याययति यदाह पुनर्माविशताद्रयिरिति - ४.५.८.९
अथ दक्षिणे कर्ण आजपति । इडे रन्ते हव्ये काम्ये चन्द्रे ज्योतेऽदिति सरस्वति महि विश्रुति एता ते अघ्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतादिति वोचेरिति वैतानि ह वा अस्यै देवत्रा नामानि सा यानि ते देवत्रा नामानि तैर्मा देवेभ्यः सुकृतम्ब्रूतादित्येवैतदाह - ४.५.८.१०
तामवार्जन्ति । सा यद्यपुरुषाभिवीता प्राचीयात्तत्र विद्यादरात्सीदयं यजमानः कल्याणं लोकमजैषीदिति यद्युदीचीयाञ्छ्रेयानस्मिंलोके यजमानो भविष्यतीति विद्याद्यदि प्रतीचीयादिभ्यतिल्विल इव धान्यतिल्विलो भविष्यतीति विद्याद्यदि दक्षिणेयात्क्षिप्रेऽस्माल्लोकाद्यजमानः प्रैष्यतीति विद्यादेतानि विज्ञानानि - ४.५.८.११
तद्या एतास्तिस्रस्तिस्रस्त्रिंशत्यधि भवन्ति । तास्वेतामुपसमाकुर्वन्ति वि वा एतां विराजं वृहन्ति यां व्याकुर्वन्ति विच्छिन्नो एषा विराड्या विवृढा दशाक्षरा वै विराट्तत्कृत्स्नां विराजं संदधाति तां होत्रे दद्याद्धोता हि साहस्रस्तस्मात्तां होत्रे दद्यात् - ४.५.८.१२
द्वौ वोन्नेतारौ कुर्वीत । तयोर्यतरो नाश्रावयेत्तस्मा एनां दद्याद्व्यृद्धो वा एष उन्नेता य ऋत्विक्सन्नाश्रावयति व्यृद्धो एषा विराड्या विवृढा तद्व्यृद्ध एवैतद्व्यृद्धं दधाति - ४.५.८.१३
तदाहुः । न सहस्रेऽधि किं चन दद्यात्सहस्रेण ह्येव सर्वान् कामानाप्नोतीति तदु होवाचासुरिः काममेव दद्यात्सहस्रेणाह सर्वान् कामानाप्नोति कामेनोअस्येतरद्दत्तं भवतीति - ४.५.८.१४
अथ यदि रथं वा युक्तं दास्यन्त्स्यात् । यद्वा वशायै वा वपायां हुतायां दद्यादुदवसानीयायां वेष्टौ - ४.५.८.१५
स वै दक्षिणा नयन् । अन्यूना दशतो नयेद्यस्मा एकां दास्यन्त्स्याद्दशभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै द्वे दास्यन्त्स्यात्पञ्चभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै तिस्रो दास्यन्त्स्यात्त्रिभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै पञ्च दास्यन्त्स्याद्द्वाभ्यां ताभ्यां दशतमुपावर्तयेदेवमा शतात्तथो हास्यैषान्यूना विराडमुष्मिंलोके कामदुघा भवति - ४.५.८.१६