सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८

विकिस्रोतः तः

ब्राह्मणम् ०१ शान्तिब्राह्मणम्

१ शान्तिब्राह्मणम्-तत्र च तदेवं यद्विज्ञानं केवलममृतत्वसाधनं स आत्मा निरुपाधिकः अशनायाद्यतीतो यदेव साक्षादपरोऽक्षाद्ब्रह्म य आत्मा स सर्वान्तरो नेतिनेत्यादिलक्षणः काण्डद्वयेन निर्द्धारितोऽधुना तस्यैवोपाधिवैशिष्ट्यमापन्नस्य प्रमाणप्रमेयादिव्यवहारविषयतामुपगतस्याभ्युदयफलानां क्रममुक्तिफलानां कर्मसमृद्ध्यर्थानां चेति त्रिविधोपासनानां पूर्वत्रानुक्तानां प्रतिपादनं, तत्र सर्वोपास्त्यङ्गभूतानां ॐकारो दमो दानं दयेति पदार्थानां विधित्सयां श्रुतिमुखेन पूर्वमात्मयाथात्म्यविज्ञानसिद्धये मिथ्याभूतकार्यकारणसम्बन्धमाश्रित्य तात्पर्येण व्याख्यातस्य ब्रह्मणो यच्छुद्धं स्वरूपं तस्य पूर्वोपात्तकार्यकारणसम्बन्धस्य हेयत्वं द्योतयितुमनुवादकरणं, तत्र लक्ष्यं तत्पदार्थं दर्शयित्वा लक्ष्यस्य त्वत्पदार्थस्य प्रदर्शनं, त्वम्पदार्थस्य पूर्णत्वे हेतुमभिधायैक्यज्ञानफलस्य निरूपणं, ततो ध्यानविधानार्थं तस्मिन्विनियुक्तं मन्त्रमभिधाय तद्व्याख्यानमुखेनोंकारप्रतीकं कार्यकारणोभयविधं ब्रह्म ध्येयमिति प्रतिपादनं, ततः प्रणवस्य यथोक्तब्रह्मवाचकत्वमस्तीत्युपपादनं चेत्यादि.


ब्राह्मणम् ०२ दमदानदयेति त्रिकोपदेशब्राह्मणम्

२ दमदानदयेति त्रिकोपदेशब्राह्मणम्-- तत्र च बाह्यसाधनस्य दमादिसाधनत्रयस्य विधानं, तत्र तेनापि विशिष्ट एवं बाह्याभ्यन्तरशुचिः सन्सर्वोपास्तिष्वधिक्रियते-अतस्तद्विधानायाख्यायिकारूपस्यार्थवादस्याभिधानं, लिङ्गदर्शनपूर्वकं देवमनुष्यासुरेभ्यः प्रजापतिना दत्तस्यानुशासनस्य विधानं चेति.


ब्राह्मणम् ०३ सूर्याग्न्योरुपस्थानब्राह्मणम्

३ सूर्याग्न्योरुपस्थानब्राह्मणम्--तत्र च दमादियुक्तस्यापि शरीरपाते तु नामृतत्वं आध्यात्मिकवाय्वादिदेवताप्रतिबन्धकत्वाद्देहस्यैव सूक्ष्मतां गतस्य प्रतिबन्धकत्वा च्चेत्याशङ्कायां तस्या निराकरणं, तत्र सूर्याग्न्योरुपस्थानस्य प्रतिपादनं चेति.

ब्राह्मणम् ०४ हृदयब्रह्मोपासनब्राह्मणम्

४ हृदयब्रह्मोपासनब्राह्मणम्--तत्र च सोपाधिकस्य ब्रह्मणो निरुपाधिकस्वरूपेऽनधिकृतानां ध्यानभेदस्योपवर्णनं, तत्र प्रजापतिर्देवादीनामनुशास्तेति सामान्यतः श्रवणाद्दक्षादिष्वपि प्रजापतित्वशङ्का मा भूदिति प्रजापतेर्विशेष्यत्वेन प्रतिपादनं, तत्रोक्तहृदयस्योपास्यार्थं ब्रह्मत्वप्रतिपादनं, हृदयस्य सूक्ष्मत्वात्प्रजापतेश्च सर्वात्मकत्वात्कथं हृदयस्य प्रजापतिना सहैक्यमित्याशङ्कायां तत्समाधानकथनं, तत उपास्यत्वेन सिद्धस्य हृदयस्य प्रशंसार्थं तन्नामाक्षरैकदेशोपासनस्य निरूपणं, तत्र क्रमेण त्रयाणामक्षराणां सोपपत्तिकं विवरणं, एतद्विज्ञानफलकथनं चेति.

ब्राह्मणम् ०५ हृदयब्रह्मणः सत्यमित्युपासनाविधिब्राह्मणम्

५ हृदयब्रह्मणः सत्यमित्युपासनाविधिब्राह्मणम्--तत्र चैतस्यैव हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनान्तरस्य सप्रकारकं विधानं, तत्र तस्य स्वरूपकथनपूर्वकं तद्विज्ञानफलस्याभिधानं, कैमुतिकन्यायेन फलान्तरस्याभिधानं, कथमीदृग्विधज्ञानादुपासकस्येदं फलमित्यपेक्षायामुक्तोपासकस्यानुवादपूर्वकं हेतोरभिधानं चेत्यादि.


ब्राह्मणम् ०६ सत्यस्य ब्रह्मणः स्तुतिब्राह्मणम्

६ सत्यस्य ब्रह्मणः स्तुतिब्राह्मणम्-- तत्र चादौ सत्यस्य ब्रह्मणः प्रशंसार्थं प्रथमजत्वं साधयित्वाऽशब्दोपलक्षितान्मूलकारणात्सूत्रोत्पत्तिं चाभिधाय तस्य महत्त्वप्रतिपादनं, ततस्तस्य यक्षत्वं निरूपयितुमुत्पन्नाद्विराडात्मनः सकाशादिन्द्रादिदेवतासृष्टेः प्रतिपादनं, तत्र यक्षत्वं प्रसाध्य हृदयब्रह्मवदस्यापि सत्यस्य ब्रह्मणः प्रशंसार्थं वर्णत्रयात्मत्वं च प्रसाध्य सफलमक्षरत्रयस्वरूपप्रदर्शनं, एवं विशिष्टसत्योपास्तिमुक्त्वाऽधुना तस्यैवाध्यात्मिकाधिदैविकसंस्थानभेदवैशिष्टयं कल्पयित्वा तदुपास्तेरभिधानं, ततः कथं तावन्योऽन्यस्मिन्प्रतिष्ठितावित्यपेक्षायां परस्परोपकार्योपकारकभावेनेत्यभिधानं, ततो ज्ञातारिष्टः पुमान्कथं नाम हितमाचरेदित्यभिप्रायेण श्रुतिमुखतश्चक्षुरादित्यपुरुषप्रसङ्गागतस्यारिष्टदर्शनस्य प्रतिपादनं, उक्तस्य प्रकृतयोः परस्परोपकार्योपकारकत्वस्य निगमनं, एवं स्थानद्वयसम्बन्धि सत्यब्रह्मणो ध्यानमुक्त्वाऽधुना तस्यैवाधिदैविकव्याहृत्यवयवकत्वेन आध्यात्मिकव्याहृत्यवयवकत्वेन च ध्यानस्य सोपपत्तिकं नामविशेषाभिधानसहितं सफलं निरूपणं चेति.

ब्राह्मणम् ०७ विद्युद्ब्रह्मोपासनाब्राह्मणम्

७ विद्युद्ब्रह्मोपासनाब्राह्मणम्-तत्र चैतस्यैव सत्यब्रह्मणोऽशेषपापध्वंस. कस्योपासनान्तरस्याभिधानं, तत्र विद्युच्छब्दनिर्वचनं, एवं विद्युद्ब्रह्मोपासितुरुपास्यानुगुणं फलं भवतीति निरूपणं चेति.

ब्राह्मणम् ०८ शाण्डिल्यविद्याग्रन्थो वा मनोमयपुरुषोपासनाब्राह्मणम्

८ शाण्डिल्यविद्याग्रन्थो वा मनोमयपुरुषोपासनाब्राह्मणम्-- तत्र चोपाधीनामनेकत्वात्प्रत्येकमनेकविशेषणत्वाच्च तथैव प्रकृतस्य ब्रह्मणो मनउपाधिकस्योपासनविधानं, तस्य ध्यानार्थमौपाधिकस्वरूपकथनद्वारा स्थानविशेषस्याभिधानम् , तत्र दृष्टान्तदार्ष्टान्तिकयोरभिधानम्, एवमुपासितुः फलनिरूपणं चेति.

ब्राह्मणम् ०९ वेदत्रयीवाग्धेनूपासनाब्राह्मणम्

९ वेदत्रयीवाग्धेनूपासनाब्राह्मणम् --तत्र च पुनस्तस्यैव ब्रह्मणो वाङ्मयधेनुसम्बन्धेनोपासनस्य महाफलार्थत्वेन विधानम्, तत्रोपासने निमित्तभूतस्य धेनुसामान्यत्वस्य सार्वात्म्येनोपपादनम् , तत्र स्तनानां विनियोगकथनम् , वत्सत्वसम्पादनं चेति.

ब्राह्मणम् १० जठरस्थवैश्वानरोपासनाब्राह्मणम्

१० जठरस्थवैश्वानरोपासनाब्राह्मणम् -- तत्र च प्रकृतस्यैव ब्रह्मणः कौक्षेयाग्नित्वमापन्नस्यापरोऽक्षत्वं दर्शयितुं पुनरुपासनान्तरस्य विधानम्, तत्राग्नेः स्वरूपकथनम्, तत्सद्भावे मानकथनं च, ततः प्रासङ्गिकमरिष्टदर्शनं चेति.

ब्राह्मणम् ११ ज्वरादिव्याध्यादेस्तपस्त्वोपासनाब्राह्मणम्

११ ज्वरादिव्याध्यादेस्तपस्त्वोपासनाब्राह्मणम् - तत्र चैवं ब्रह्मोपासनानां केषाञ्चित्फलवतां कथनानन्तरं--अब्रह्मोपासनानां केषाञ्चित्फलवतां प्रदर्शनं, तत्र व्याधौ-प्रेतस्यारण्यं प्रत्याहरणे - प्रेतस्याग्नावभ्याधाने च परमतपोबुद्धिकरणप्रतिपादनं, तत्सहैवोक्तोपासनानां फलप्रतिपादनं चेति.


ब्राह्मणम् १२ सर्वासामुपासनानां गतेः फलस्य च विधायकं ब्राह्मणम्

१२ सर्वासामुपासनानां गतेः फलस्य च विधायकं ब्राह्मणम् --तत्र चास्मिन्प्रकरणे उक्तानां सर्वोपासनानां गतेरनुक्तफलस्य च प्रदर्शनम् , तत्र छिद्रप्रमाणकथनम् , गन्तव्यस्थानकथनम् , गच्छतो विराडात्मा विश्रामस्थानमिति कथनं चेति.

ब्राह्मणम् १३ अन्नप्राणयोरेकब्रह्मोपासनाविधायकं ब्राह्मणम्

१३ अन्नप्राणयोरेकब्रह्मोपासनाविधायकं ब्राह्मणम्--तत्र च पुनः प्रकृतब्रह्मोपासनमेवानुसृत्य श्रुतिमुखेन " वि रम्" इति गुणद्वयविशिष्टान्नप्राणोपाधिकब्रह्मोपासनं विशिष्टफलकं विधातुमादौ तस्यैतस्यैवोपास्यत्वस्य निर्णयार्थाया युक्तेरभिधानम्, ततोऽन्नप्राणयोरेकत्वेन ब्रह्मदृष्टिः कार्येत्येतस्यार्थस्येतिहासकथनद्वारा दृढीकरणम्, ततः कथं ज्ञानात्कृतकृत्यः स्यादित्यपेक्षायामनप्राणयोः सशक्तिकयोरेकत्वविज्ञानात्तथा स्यान्न केवलयोरेकत्वविज्ञानादित्याशयेन तयोः शक्तिभूतस्य गुणद्वयस्य क्रमेणोपदेशकरणकथनम्, " वि-रम्" इत्येतयोर्गुणयोः सोपपत्तिकं स्वरूपप्रतिपादनम् , एवमुपासितुः फलनिरूपणं चेति.


ब्राह्मणम् १४ प्राणोपासनाब्राह्मणम्

१४ प्राणोपासनाब्राह्मणम्--तत्र च पुनस्तस्यैव ब्रह्मण उक्थादिगुणपूगविशिष्टत्वेनोपासनस्य विधानम्, तत्रोक्थस्वरूपकथनम् , एवमुपासनस्य क्रमेण दृष्टमदृष्टं च फलं भवतीति प्रतिपादनम् , ततः प्राणस्य योक्तृतागुणवत्त्वेनोपासनस्य विधानम्, तत्र प्राणे यजुःशब्दप्रवृत्तेः प्रदर्शनम् , एवमुपासितुः पूर्ववत्फलनिरूपणम्, ततः प्राणस्य सर्वप्राणिसम्यग्गमनहेतुत्वगुणवैशिष्ट्येनोपासनस्य विधानम्, पूर्ववदत्रापि प्राणे सामशब्दप्रवृत्तेः प्रदर्शनम् , पूर्ववदुपासनफलनिरूपणम्, ततः प्राणस्य पालकगुणवत्त्वेनोपासनस्य विधानम् , तत्र प्राणस्य क्षत्त्रशब्दाभिधेयत्वप्रसाधनम् , एतद्वेदनफलनिरूपणं चेत्यादि.


ब्राह्मणम् १५ गायत्रब्रहमोपासनाब्राह्मणम्

१५ गायत्रब्रह्मोपासनब्राह्मणम्-तत्र च हृदयाद्यनेकोपाधिविशिष्टस्य ब्रह्मण उपासनाभिधानानन्तरमधुना गायत्र्युपाधिविशिष्टस्य ब्रह्मण उपासनस्य विधानं, तस्या एतस्या गायत्र्याः क्रमेण पादत्रयस्य सोपपत्तिकं स्वरूपनिरूपणं, ततः शब्दलक्षणायास्त्रिपदाया गायत्र्यास्तुरीयपादस्य स्वरूपोपपादनं, ततस्त्रैलोक्यत्रैविद्यप्राणादित्रयलक्षणपादत्रयवती गायत्री तुरीये दर्शते पदे परोरजसि प्रतिष्ठितेति सोपपत्तिकं प्रतिपादनं, तत्तुरीयं पदं सत्ये प्रतिष्ठितमित्यभिधानं, सत्यं च चक्षुरेवेत्युपपादनं, तत्सत्यं बले प्रतिष्ठितमित्यभिधानं, बलं च प्राण एवेत्युपपादनं, गायत्रीशब्दनिर्वचनं, प्रसङ्गान्मतान्तरं दृष्ट्वा बटवे उपदेश्या गायत्री इयमेव भविष्यतीति विभ्रमो माऽभूदित्यभिप्रेत्य मतान्तरं दूषयितुं तस्योपन्यसनम्,

एवम्प्रासङ्गिकमुक्त्वा गायत्रीज्ञानफलकथनाभिप्रायेण गायत्रीविदः प्रशंसनं, तत एवमुक्तगायत्र्युपासनासङ्ग्रहविषयकस्यैव मन्त्रस्यैहिकफलविशेषोपायकथनार्थमवतारणं, तत्र प्रवृद्धद्वेषवन्तम्प्रति-उक्तोपस्थानमन्त्रे ऊहप्रदर्शनेनाभिचारिकस्योपस्थानान्तरस्याभिधानं, कामिनम्प्रति पुनराभिचारिकस्योपस्थानान्तरस्याभिधानं, ततो गायत्रीमुखविज्ञानमन्तरेण तद्विज्ञानं पूर्णं न भवति-अतस्तद्विधानार्थमर्थवादस्याभिधानं, तत्र गायत्र्या मुखमग्निरिति बुडिलर्षेर्जनकराजस्य च संवादेन निरूपणं, एतद्गायत्रीविज्ञानवेदनफलनिरूपणं चेत्यादि.