शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् ०८

विकिस्रोतः तः

शाण्डिल्यविद्याग्रंथः

मनोमयपुरुषोपासनाब्राह्मणम्

मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वैवमयमन्तरात्मन्पुरुषः स एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किं च य एवं वेद - १४.८.८