शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् १२

विकिस्रोतः तः

सर्वासामुपासनानां गतेः फलस्य च विधायकं ब्राह्मणम्

यदा वै पुरुषो अस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा डम्बरस्य खं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शश्वतीः समाः - १४.८.१२

रथोपरि टिप्पणी