शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् ०२

विकिस्रोतः तः

दमदानदयेति त्रिकोपदेशब्राह्मणम्

त्रयाः प्राजापत्याः। प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुराः - १४.८.२.[१]

उषित्वा ब्रह्मचर्यं देवा ऊचुः ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति- १४.८.२.[२]

अथ हैनं मनुष्या ऊचुः ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति - १४.८.२.[३]

अथ हैनमसुरा ऊचुः ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्ददद इति दाम्यत दत्तदयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति - १४.८.२.[४]