शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् ०४

विकिस्रोतः तः

हृदयब्रह्मोपासनं ब्राह्मणम्

एष प्रजापतिर्यद्धृदयम्। एतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददन्त्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद - १४.८.४