शतपथब्राह्मणम्/काण्डम् ११/अध्यायः २

विकिस्रोतः तः

ब्राह्मणं १

१ विशिष्टजन्महेतुतया सामिधेनीप्रशंसनद्वारा पुरुषस्य जन्मत्रयनिरूपणं, जन्मनस्त्रित्वं प्रदर्श्य तस्मिन्नर्थे प्रसिद्धिप्रदर्शनं, यज्ञादेव पुनर्जन्मत्रयं प्रदर्श्य सामिधेनीसंख्याद्वारा प्रथमस्य जन्मनः समर्थनं, द्वितीयं तृतीयं च जन्म समर्थ्यैतस्य यज्ञसम्बन्धिजन्मत्रयस्य पूर्वोक्तजन्मत्रयदृष्टान्तेन निगमनं, तासां सामिधेनीनां आद्योत्तमयोस्त्रिरावृत्तिं विधाय तस्याः प्रशंसनम्, एवमभ्यस्ताभिः सह ताः पञ्चदश सामिधेन्यो भवन्ति ताश्चाघारादिसमिष्टयजुरन्तानां पञ्चदशाहुतीनां क्रमेणानुवाक्यास्थानीयास्तथाऽत्रत्या मंत्रा निगदाश्च याज्यास्थानीया इत्यभिधाय तद्द्वाराऽऽसामाहुतीनामितरयागवद्याज्याऽनुवाक्यावत्त्वसम्पादनं चेत्यादि.

ब्राह्मणं २

२ प्रसङ्गादनुवाक्यायाज्ययोश्छन्दोविशेषं विधाय तत्प्रशंसनं, वषट्कारानन्तरभाविनं होमविधिमनूद्य सकारणं तत्प्रशंसनं, यजमानस्याहुतिशरीरत्वं प्रतिपाद्य तत्प्रसङ्गादाहुतिनामनिर्वचनं चेत्यादि.

ब्राह्मणं ३

३ सामिधेन्यनन्तरभाविनौ आघारौ नामरूपात्मना स्तोतुं तत्सृष्टेराख्यायिकया प्रतिपादनं, तस्यां चाग्निवाय्वादित्यानां पृथिव्यन्तरिक्षद्युलोकानां च ब्रह्मणः सकाशात्सृष्टिमभिधाय तेषामुभयेषां परस्परमधिष्ठात्रधिष्ठेयभावसम्बन्धस्य सोपपत्तिकं प्रदर्शनं, तदेव स्रष्टृ ब्रह्म "तत्सृष्ट्वा तदेवानुप्राविशत्" इति न्यायेन सर्वं जगन्नामरूपाभ्यां व्याप्नोदित्यभिधानं, तत्र तयोर्नामरूपयोः स्वरूपं गुणं च प्रतिपाद्य तद्वेदनस्य प्रशंसनं, यक्ष्यगुणेऽप्येवं योज्यमित्यभिधाय तत्र नाम रूपयोर्मध्ये रूपस्यैव ज्यायस्त्वप्रतिपादनम्, एतद्वेदितुः फलनिरूपणम्, एत न्नामरूपोपलक्षितव्यापकब्रह्मस्वरूपप्राप्तिरेवामृतत्वकारणमित्यभिधानम् , अत्रापि दर्शपूर्णमासयोर्ब्रह्मप्राप्त्युपायतया नामरूपात्मकावाघारौ क्रियेते इति प्रकृतानुसरणम, एतत्सिद्धये मनसोरूपतादात्म्यस्य प्रतिपादनं, नामरूपात्मकस्य प्रपञ्चस्य मध्ये प्रथमाघारेण रूपप्रातिरुक्ता तथैव द्वितीयाघारेण नामावाप्तिरपि भवतीत्यमिधानं, इत्थं नामरूपावाप्तिद्वारा यजमानस्य कृत्स्नजगत्प्राप्तिरेव भवतीति प्रतिपादनम्, शंयुवाकान्ते समन्त्रकस्याभिमर्शनस्य विधित्सयाऽऽदौ तन्निमित्तस्य प्रतिपादनम् , न्यूनातिरिक्तरूपदोषस्य शमनाय समन्त्रकस्याभिमर्शनस्य विधानं, तत्रोक्तमन्त्रस्य व्याख्यानम् , उक्तार्थस्य निगमनं चेत्यादि.


ब्राह्मणं ४

४ -अनयोराघारयोर्दर्शपूर्णमासात्मना स्तवनद्वारा अधिदैवमध्यात्मं च दर्शपूर्णमासयोः प्रतिपादनम्, एवं दर्शपूर्णमासौ चन्द्रादित्यात्मकौ इत्युक्त्वा तयोर्द्यावापृथिव्यहोरात्ररूपत्वस्याभिधानम् , अधिदैवार्थस्य निगमनं, प्रतिज्ञापूर्वकमध्यात्मस्यार्थस्य मीमांसाकरणं, तत्र दर्शपूर्णमासयोः प्राणोदानत्वयोरन्नादानप्रदत्वयोश्च सोपपत्तिकमभिधानम्, एतद्वेदितुः फलनिरूपणम् , एतयोर्मनोवाग्रूपताऽभिधानम्, इत्थमधिदैवमध्यात्म देहमध्ये भेदेन द्वैविध्यदर्शनस्य प्रयोजनकथनम् , एतत्प्रयोजनमधिकृत्याक्षेपसमाधानयोः प्रतिपादनम् , अत्र विषये केषांचिच्छाखिनां मतमुपन्यस्य तन्निराकरणम्, उक्तस्य चरुपक्षायुक्तत्वस्य निरसनं, दर्शपूर्णमासयोः समापनहेतुतयाऽप्याघारयोः प्रशंसनं चेत्यादि.


ब्राह्मणं ५

५ दर्शपूर्णमासावश्वमेधात्मना स्तोतुं प्रस्तावकथनन्, उक्तमर्थं प्रतिपादयितुं चन्द्रमसोऽश्वमेधत्वेन निरूपणं, चन्द्रमसो मेध्याश्वसादृश्यस्य प्रश्नपूर्वकं सम्पादनम्, एवमन्यस्याप्यङ्गजातस्य सम्पादनं, तत्र विवर्तननिमित्तेष्टेर्विधित्सयाऽस्य चन्द्रात्मकस्याश्वस्य विवर्तनस्य सम्पादनं, विवर्तननिमित्तेष्टेर्विधानं, पूर्णमासयागस्याश्वमेधयागरूपताऽभिधानम्, अस्याश्वमेधस्य संवत्सरकालीनत्वस्याप्यभिधानम्, इत्थमश्वमेधरूपतामग्निहोत्रर्दशपूर्णमासयोर्यागयोः प्रतिपाद्य तत्र विदुष एवाधिकार इति प्रतिपादनम्, उक्ताया अग्निहोत्रदर्शपूर्णमासयागयोरश्वमेधसम्पत्तेर्निगमनं चेत्यादि. .


ब्राह्मणं ६

६ उपासनार्थं यज्ञशरीरावयवत्वेन प्रणीतादीनामनुष्ठेयपदार्थानामधियज्ञमध्यात्मं च सम्पत्तिसम्पादनं, तत्र प्रणीतानामपां यज्ञशिरस्त्वेनानुसन्धानकथनम्, इध्मस्य प्राणरूपत्वेनोपासनकथनं, सामिधेनीषु सकलमध्यस्थावयवत्वस्याभिधानम्. आघारयोर्मनोवाग्रूपत्वेनोपासनकथनं, पञ्चसु प्रयाजेषु क्रमेण मुखनासापुटद्वयकर्णद्वयरूपशीर्षण्यपञ्चप्राणरूपानवयवान्प्रकल्प्य पञ्चानामपि प्रयाजानां तत्तदवयवरूपप्राणोपासनकथनम्, आज्यभागयोश्चक्षुर्द्वयरूपत्वं विधाय तद्रूपेणोपासनविधानं, दर्शे पूर्णमासे चाग्नेययागो यज्ञशरीरस्य दक्षिणार्धः--उपांशुयाग उभयत्र हृदयं--पूर्णमासे अग्नीषोमीययाग उत्तरार्धः--दर्शे तु ऐन्द्रः सान्नाय्ययाग उत्तरार्धः--स्विष्टकृद्यागोंऽसमध्यभागः--प्राशित्रं तु शत्रुरूपं इति यथायथं विभाव्य तत्तद्रूपेणोपासितव्यमित्यभिधानं, तत्र प्राशित्रस्य शत्रुरूपत्वात्तदवदानस्य शत्रुनिरसनार्थत्वं प्रतिपाद्य तद्रूपेणोपासनकथनम् , इडाया उदरत्वं-त्रयाणामनुयाजानामवाङ्मुखप्राणत्रयरूपत्वं--सूक्तवाक शंयुवाकयो र्बाहुद्वयरूपत्वं-चतुर्णां पत्नीसंयाजानां क्रमेणोरुद्वयाष्ठीवद्द्वयरूपत्वं-समिष्टयजुषः पादद्वयरूपत्वं च यथायथं विभाव्य तत्तद्रूपेणोपासनविधानम् , एवं शिरःप्रभृति पादान्ता अवयवा अधियज्ञमध्यात्मं चाहुतिभिरेव परिकल्पिताः सन्तः सम्भूयैकविंशतिसंख्याकाः-तत्संख्याद्वारेण सूर्यलोकप्राप्तिरूपफलनिरूपणद्वारा तासामाहुतीनां परिगणनम् , उक्तोपासनफलयोः साध्यसाधनभावस्य संपादनं, उक्तोपासनेन सह दर्शपूर्णमासावनुतिष्ठतो यजमानस्येतरस्माद्बहुतरफलभाक्त्वस्य विचारपूर्वकं प्रदर्शनं, तत्रात्मयाजिदेवयाजिनोर्मध्ये आत्मयाजिनः श्रेयस्त्वप्रतिष्ठापनं, तस्य सर्वपापक्षयरूपफलस्य सदृष्टान्तं कथनं, देवयाजिनः ईदृक्फलव्यतिरेकस्य प्रदर्शनं चेत्यादि.


ब्राह्मणं ७

७ यज्ञादीनां संवत्सराद्यात्मनोपासनं विधाय तत्तद्वैशिष्ट्येन दर्शपूर्णमासयागस्य विशिटफलसाधनतायाः प्रतिपादनं, तत्र दर्शपूर्णमासस्य संवत्सरात्मत्वमुपवर्ण्य तद्रूपेणोपासनविधानं, ऋत्विक्षु वसन्तादयृतुत्वमारोप्य तद्रूपेणोपासनविधानं, हविःषु मासात्मत्वं तत्सम्बन्धिषूलूखलमुसलादिपात्रेष्वर्द्धमासात्मत्वं चारोप्य तद्रूपेणोपासनविधानं, परिवेषणसाधनयोर्धृष्ट्योरहोरात्रबुद्ध्योपासनं कर्तव्यमिति विधानं, सामिधेनीनां पृथिव्यादिदेवतारूपेणोपासनविधानं, तत्र प्रथमोत्तमयोर्विहितया त्रिरावृत्त्या जेतव्यस्य प्रदर्शनम् , इत्थं सामिधेन्युपासनस्य प्रतिठाफलस्य निगमनम् , आघारयोर्ऋतसत्यात्मनोपासनं विधाय तत्फलस्य कथनं, प्रयाजेषु त्विष्याद्युपासनविधानम्, एतश्चोपासनमनुमन्त्रणमन्त्रैः कार्यमित्यमिधानम्, उक्तार्थस्यारुणेयश्वेतकेतूक्त्या दृढीकरणं, भूतभविष्यदात्मनाऽऽज्यभागयोर्ध्यानं विधाय तत्फलकथनम् , आग्नेययागस्य ब्रह्मजातित्वमभिधाय तद्वेदनस्य फलकथनम्, उपांशुयागस्य क्षत्रजात्यात्मकत्वं प्रतिपाद्य तद्वेदनस्य समर्थनपूर्वकं फलनिरूपणम् , आग्नेयादीनां पौर्वापर्यक्रमस्य प्रशंसनं, दधिपयोलक्षणसान्नाय्ययागस्य राष्ट्ररूपेण ध्यानं विधाय तस्य समर्थनं, स्विष्टकृद्यागस्य तपोरूपत्वेनोपासनं विधाय तत्फलस्याभिधानं, प्राशित्राख्यावदानस्य लोकबुद्ध्योपासनं विधाय तत्फलकथनम् , इडायाः श्रद्धारूपेणोपासनं विधाय तत्फलकथनम्, अनुयाजत्रयस्य क्रमेणाशनिह्रादुन्युल्कुषीरूपत्वमुपजीव्याभिचरतः प्रयोगे अनुयाजानामनुमंत्रणमंत्राणां सप्रयोजनं सकारणं विधानम्, एतस्याशन्याद्यात्मकत्ववेदनस्य फलनिरूपणं, यज्ञस्योक्ताशन्यादिरूपत्वमुपन्यस्यानुयाजांतत्वस्य निषेधकरणम्, एतेषां स्वर्गप्राप्तिप्रतिबन्धकपापप्रतिक्षेपहेतुत्वेन प्रशंसनं, प्रयाजानामनुयाजानां च होमे धर्मविशेषस्य विधानम् , एवमनुयाजविषयं वक्तव्यं प्रतिपाद्य सूक्तवाकस्य संस्थात्वप्रतिपादनम्, एतद्वेदनस्य फलनिरूपणं, शंयुवाकस्य प्रतिष्ठात्मत्वप्रतिपादनम् , पत्नीसंयाजानां मिथुनरूपतया प्रजातिहेतुत्वमभिधाय तद्वेदनस्य फलाभिधानं, समिष्टयजुषोऽन्नरूपत्वमभिधाय तद्वेदनस्य फलाभिधानं, यजमानस्यर्त्विजां च संवत्सराद्यात्मकत्वस्य सोपपत्तिकमभिधानं, यजमानस्य वेदेर्दक्षिणभागे उपवेशनस्य विधित्सया दक्षिणवेद्यन्तस्य तुलादण्डरूपत्वाभिधानं, दक्षिणवेद्यन्तस्य तुलारूपतां जानतो यजमानस्य नैतद्भवतीत्यभिधानं चेत्यादि.