शतपथब्राह्मणम्/काण्डम् ११/अध्यायः २/ब्राह्मणं ७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

११.२.७

संवत्सरो यज्ञः। स यो ह वै संवत्सरो यज्ञ इति वेदान्ते हैवास्य संवत्सरस्येष्टं भवत्यथो यत्किं च संवत्सरे क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति - ११.२.७.[१]

ऋतव ऋत्विजः। स यो ह वा ऋतव ऋत्विज इति वेदान्ते हैवास्यर्तूनामिष्टं भवत्यथो यत्किं चर्तुषु क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति - ११.२.७.[२]

मासा हवींषि। स यो ह वै मासा हवींषीति वेदान्ते हैवास्य मासानामिष्टं भवत्यथो यत्किं च मासेषु क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति - ११.२.७.[३]

अर्धमासा हविष्पात्राणि। स यो ह वा अर्धमासा हविष्पात्राणीति वेदान्ते हैवास्यार्धमासानामिष्टं भवत्यथो यत्किं चार्धमासेषु क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति - ११.२.७.[४]

अहोरात्रे परिवेष्ट्री। स यो ह वा अहोरात्रे परिवेष्ट्री इति वेदान्ते हैवास्याहोरात्रयोरिष्टं भवत्यथो यत्किं चाहोरात्रयोः क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति - ११.२.७.[५]

इयमेव प्रथमा सामिधेनी। अग्निर्द्वितीया वायुस्तृतीयान्तरिक्षं चतुर्थी द्यौष्पञ्चम्यादित्यः षष्ठी चन्द्रमाः सप्तमी मनोऽष्टमी वाङ्नवमी तपो दशमी ब्रह्मैकादश्येता हि वा इदं सर्वं समिन्धत एताभिरिदं सर्वं समिद्धं तस्मात्सामिधेन्यो नाम - ११.२.७.[६]

स वै त्रिः प्रथमामन्वाह। स यत्प्रथममन्वाह प्राचीं तेन दिशं जयति यद्द्वितीयं दक्षिणां तेन दिशं जयति यत्तृतीयमूर्ध्वामेव तेन दिशं जयति - ११.२.७.[७]

त्रिर्वेवोत्तमामन्वाह। स यत्प्रथममन्वाह प्रतीचीं तेन दिशं जयति यद्द्वितीयमुदीचीं तेन दिशं जयति यत्तृतीयमिमामेव तेन प्रतिष्ठां जयत्येवमु हाभिरिमांल्लोकान्जयत्येता दिशः - ११.२.७.[८]

ऋतमेव पूर्व आघारः। सत्यमुत्तरोऽव ह वा ऋतसत्ये रुन्द्धेऽथो यत्किंचर्तसत्याभ्यां जय्यं सर्वं हैव तज्जयति - ११.२.७.[९]

त्विषिरेव प्रथमः प्रयाजः। अपचितिर्द्वितीयो यशस्तृतीयो ब्रह्मवर्चसं चतुर्थोऽन्नाद्यं पञ्चमः - ११.२.७.[१०]

स प्रथमं प्रयाजमनुमन्त्रयते। त्विषिमान्भूयासमित्यपचितिमान्भूयासमिति द्वितीयं यशस्वी भूयासमिति तृतीयं ब्रह्मवर्चसी भूयासमिति चतुर्थमन्नादो भूयासमिति पञ्चमं त्विषिमान्ह वा अपचितिमान्यशस्वी ब्रह्मवर्चस्यन्नादो भवति य एवमेतद्वेद - ११.२.७.[११]

एतद्ध स्म वै तद्विद्वानाह। श्वेतकेतुरारुणेयः कं स्विदेवापरीषु महानागमिवाभिसंसारं दिदृक्षितारो य एवमेतत्प्रयाजानां यशो वेदितेति - ११.२.७.[१२]

भूतमेव पूर्व आज्यभागः। भविष्यदुत्तरोऽव ह वै भूतं च भविष्यच्च रुन्द्धेऽथो यत्किं च भूतेन च भविष्यता च जय्यं सर्वं हैव तज्जयति - ११.२.७.[१३]

ब्रह्माग्नेयः पुरोडाशः। स यो ह वै ब्रह्माग्नेयः पुरोडाश इति वेदाव ह ब्रह्म रुन्द्धेऽथो यत्किं च ब्रह्मणा जय्यं सर्वं हैव तज्जयति - ११.२.७.[१४]


क्षत्रमुपांशुयाजः। स यो ह वै क्षत्रमुपांशुयाज इति वेदाव ह क्षत्रं रुन्द्धेऽथो यत्किं च क्षत्रेण जय्यं सर्वं हैव तज्जयति तद्यदुपांशुयाजं कुर्वन्त्येके नैके तस्मादुच्चैश्चोपांशु च क्षत्रायाचक्षते - ११.२.७.[१५]

विडुत्तरः पुरोडाशः। स यो ह वै विडुत्तरः पुरोडाश इति वेदाव ह विशं रुन्द्धेऽथो यत्किं च विशा जय्यं सर्वं हैव तज्जयति तद्यदाग्नेयश्च पुरोडाश उपांशुयाजश्च पूर्वौ भवतस्तस्मादुभे ब्रह्म च क्षत्रं च विशि प्रतिष्ठिते - ११.२.७.[१६]

राष्ट्रं सांनाय्यं। स यो ह वै राष्ट्रं सांनाय्यमिति वेदाव ह राष्ट्रं रुन्द्धेऽथो यत्किं च राष्ट्रेण जय्यं सर्वं हैव तज्जयति तद्यत्संनयन्त्येकेनैके तस्माद्राष्ट्रं सं चैति वि च - ११.२.७.[१७]

तपः स्विष्टकृत्। स यो ह वै तपः स्विष्टकृदिति वेदाव ह तपो रुन्द्धेऽथो यत्किं च तपसा जय्यं सर्वं हैव तज्जयति - ११.२.७.[१८]

लोकः प्राशित्रं। स यो ह वै लोकः प्राशित्रमिति वेदाव ह लोकं रुन्द्धेऽथो यत्किं च लोकेन जय्यं सर्वं हैव तज्जयति नो ह लवेन लोकाद्व्यथते लवेन ह वा अमुष्मिंलोके लोकाद्व्यथन्तेऽथ य एवं वेद न ह बहु चन पापं कृत्वा लोकाद्व्यथते - ११.२.७.[१९]

श्रद्धेडा। स यो ह वै श्रद्धेडेति वेदाव ह श्रद्धां रुन्द्धेऽथो यत्किं च श्रद्धया जय्यं सर्वं हैव तज्जयति - ११.२.७.[२०]

अशनिरेव प्रथमोऽनुयाजः। ह्रादुनिर्द्वितीय उल्कुषी तृतीयः - ११.२.७.[२१]

स प्रथममनुयाजमनुमन्त्रयेत। अशन्यमुं जहीति यं द्विष्याद्ध्रादुन्यमुं जहीति द्वितीयमुल्कुष्यमुं जहीति तृतीयम् - ११.२.७.[२२]

स य एष क्षिप्रं म्रियते। अशनिर्ह तमनुयाजो हन्त्यथ यो विस्रवन्मिश्र इव ह्रादुनिर्ह तमनुयाजो हन्त्यथ योऽभ्युष्टमिश्र इवोल्कुषी ह तमनुयाजो हन्ति - ११.२.७.[२३]

सैषा यज्ञमेनिः। एतया वै मेन्या देवा असुरान्पराभावयांचक्रुस्तथो एवैवंविद्यजमानः पाप्मानं द्विषन्तं भ्रातृव्यं पराभावयति - ११.२.७.[२४]

स यदनुयाजान्तो यज्ञः स्यात्। अशन्यन्तः स्याद्ध्रादुन्यन्त उल्कुष्यन्तस्तस्माद्वै देवानां यज्ञ इडान्तो वैव शंय्वन्तो वा - ११.२.७.[२५]

प्रयाजैर्वै देवाः स्वर्गं लोकमायंस्तानसुरा अन्वाजिगांसंस्ताननुयाजैः प्रत्यौहंस्तद्यदनुयाजा इज्यन्ते पाप्मानमेव तद्द्विषन्तं भ्रातृव्यं यजमानः प्रत्यूहति - ११.२.७.[२६]

प्राणा वै प्रयाजाः। अपाना अनुयाजास्तस्मात्प्रयाजाः प्राञ्चो हूयन्ते तद्धि प्राणरूपम् प्रत्यञ्चोऽनुयाजास्तदपानरूपमेता ह वै दर्शपूर्णमासयोरुपसदो यदनुयाजास्तस्मात्त उपसद्रूपेण प्रत्यञ्चो हूयन्ते - ११.२.७.[२७]

संस्था सूक्तवाकः। स यो ह वै संस्था सूक्तवाक इति वेदाव ह संस्थां रुन्द्धेऽथो यत्किं च संस्थया जय्यं सर्वं हैव तज्जयति गच्छति वयसः संस्थाम् - ११.२.७.[२८]

प्रतिष्ठा शंयोर्वाकः। स यो ह वै प्रतिष्ठा शंयोर्वाकेति वेदाव ह प्रतिष्ठां रुन्द्धेऽथो यत्किं च प्रतिष्ठया जय्यं सर्वं हैव तज्जयति गच्छति प्रतिष्ठाम् - ११.२.७.[२९]

ते देवाः। एतान्पत्नीसंयाजान्पश्चात्पर्यौहन्त मिथुनमेवैतदुपरिष्टाददधत प्रजात्यै तद्यत्पत्नीसंयाजा इज्यन्ते मिथुनमेवैतदुपरिष्टाद्धत्ते प्रजात्यै देवानां ह वै प्रजातिमनु प्रजायते मिथुनेन मिथुनेन ह प्रजायते य एवमेतद्वेद - ११.२.७.[३०]

अन्नं समिष्टयजुः। स यो ह वा अन्नं समिष्टयजुरिति वेदाव हान्नं रुन्द्धेऽथो यत्किं चान्नेन जय्यं सर्वं हैव तज्जयति - ११.२.७.[३१]

संवत्सरो यजमानः। तमृतवो याजयन्ति वसन्त आग्नीध्रस्तस्माद्वसन्ते दावाश्चरन्ति तद्ध्यग्निरूपं ग्रीष्मोऽध्वर्युस्तप्त इव वै ग्रीष्मस्तप्तमिवाध्वर्युर्निष्क्रामति वर्षा उद्गाता तस्माद्यदा बलवद्वर्षति साम्न इवोपब्दिः क्रियते शरद्ब्रह्मा तस्माद्यदा सस्यं पच्यते ब्रह्मण्वत्यः प्रजा इत्याहुर्हेमन्तो होता तस्माद्धेमन्वषट्कृताः पशवः सीदन्त्येता ह वा एनं देवता याजयन्ति स यद्येनमैषावीरा याजयेयुरेता एव देवता मनसा ध्यायेदेता हैवैनं देवता याजयन्ति - ११.२.७.[३२]

अथ हैषैव तुला। यद्दक्षिणो वेद्यन्तः स यत्साधु करोति तदन्तर्वेद्यथ यदसाधु तद्बहिर्वेदि तस्माद्दक्षिणं वेद्यन्तमधिस्पृश्येवासीत तुलायां ह वा अमुष्मिंलोक आदधति यतरद्यंस्यति तदन्वेष्यति यदि साधु वासाधु वेत्यथ य एवं वेदास्मिन्हैव लोके तुलामारोहत्यत्यमुष्मिंलोके तुलाधानं मुच्यते साधुकृत्या हैवास्य यच्छति न पापकृत्या - ११.२.७.[३३]