शतपथब्राह्मणम्/काण्डम् ११/अध्यायः २/ब्राह्मणं ५

विकिस्रोतः तः

११.२.५.

अपि ह वा एतर्हि। देवेभ्योऽश्वमेधमालभन्ते तदाहुः प्राकृतोऽश्वमेध इतीतर इन्नूनं स तद्वा एष एवाश्वमेधो यच्चन्द्रमाः - ११.२.५.१

तदाहुः। पदेपदेऽश्वश्य मेध्यस्याहुतिं जुह्वतीति स यत्सायंप्रातरग्निहोत्रं जुहोति द्वे सायमाहुती जुहोति द्वे प्रातस्ताश्चतस्र आहुत्यश्चतुष्पाद्वा अश्वस्तदस्य पदे पद एवाहुतिर्हुता भवति - ११.२.५.२

तदाहुः। विवृत्तेऽश्वस्येष्टिं निर्वपतीत्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदिमं लोकमागच्छति सोऽस्मिंलोके विवर्तते - ११.२.५.३

स यदामावास्येन यजते। विवृत्त एवास्यैतदिष्टिं निर्वपत्यथ यत्पौर्णमासेन यजतेऽश्वमेधमेवैतदालभते तमालभ्य देवेभ्यः प्रयच्छति संवत्सरे वा इतरमश्वमेधमालभन्त एष वै मासः परिप्लवमानः संवत्सरं करोति तदस्य संवत्सरे संवत्सर एवाश्वमेध आलब्धो भवति - ११.२.५.४

तं वा एतम्। मासिमास्येवाश्वमेधमालभन्ते स यो हैवं विद्वानग्निहोत्रं च जुहोति दर्शपूर्णमासाभ्यां च यजते मासिमासि हैवास्याश्वमेधेनेष्टं भवत्येतदु हास्याग्निहोत्रं च दर्शपूर्णमासौ चाश्वमेधमभिसम्पद्येते - ११.२.५.५