शतपथब्राह्मणम्/काण्डम् ११/अध्यायः २/ब्राह्मणं १

विकिस्रोतः तः

११.२.१

त्रिर्ह वै पुरुषो जायते। एतन्न्वेव मातुश्चाधि पितुश्चाग्रे जायतेऽथ यं यज्ञ उपनमति स यद्यजते तद्द्वितीयं जायतेऽथ यत्र म्रियते यत्रैनमग्नावभ्यादधति स यत्ततः सम्भवति तत्तृतीयं जायते तस्मात्त्रिः पुरुषो जायत इत्याहुः - ११.२.१.१

ता वा एताः। एकादश सामिधेनीरन्वाह दश वा इमे पुरुषे प्राणा आत्मैकादशो यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान्वै पुरुषस्तदेनं कृत्स्नं जनयत्यथ यदूर्ध्वं सामिधेनीभ्यः सा प्रतिष्ठा तदेनं जनयित्वा प्रतिष्ठापयति - ११.२.१.२

नव प्रसवस्य व्याहृतयः। नवेमे पुरुषे प्राणास्तदेनं द्वितीयं जनयत्याश्रावणं प्रत्याश्रावणं सा प्रतिष्ठाथ यदेवादः सृष्टौ जन्मोद्यते तदेनं तृतीयं जनयति पत्नीसंयाजा एव तत्र प्रतिष्ठा - ११.२.१.३

त्रिर्हि वै पुरुषो जायते। एवमेवैनमेतद्यज्ञात्त्रिर्जनयति तासामेकादशानां त्रिः प्रथमामन्वाह त्रिरुत्तमाम् - ११.२.१.४

ताः पञ्चदश सामिधेन्यः। द्वावाघारौ पञ्च प्रयाजा इडा त्रयोऽनुयाजाः सूक्तवाकश्च शंयोर्वाकश्च तास्त्रयोदशाहुतयोऽथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्टयजुश्च - ११.२.१.५

ताः पञ्चदशाहुतयः। तासां पञ्चदशानामाहुतीनामेता अनुवाक्या एताः पञ्चदश सामिधेन्य एतासामनुवाक्यानामेता याज्या य एवात्र मन्त्रो यो निगदस्तद्याज्यारूपमेतेनो हास्यैता आहुतयोऽनुवाक्यवत्यो भवन्त्येताभिः सामिधेनीभिरेताभिराहुतिभिरेता अनुवाक्या याज्यवत्यश्चाहुतिवत्यश्च भवन्ति - ११.२.१.६