शतपथब्राह्मणम्/काण्डम् ११/अध्यायः २/ब्राह्मणं ६

विकिस्रोतः तः
Jump to navigation Jump to search

११.२.६

शिरो ह वा एतद्यज्ञस्य यत्प्रणीताः। स यत्प्रणीताः प्रणयति शिर एवैतद्यज्ञस्य संस्करोति स विद्याच्छिर एव म एतत्संस्क्रियत इति - ११.२.६.[१]

प्राण एवास्येध्मः। प्राणेन हीदं सर्वमिद्धं यत्प्राणभृन्निमिषद्यदेजति स विद्यादहमेवैष इध्म इति - ११.२.६.[२]

अनूकमेवास्य सामिधेन्यः। तस्मात्ता ब्रूयात्संतन्वन्निव मेऽनुब्रूहीति संततमिव हीदमनूकं मनश्चैवास्य वाक्चाघारौ सरस्वांश्च सरस्वती च स विद्यान्मनश्चैव मे वाक्चाघारौ सरस्वांश्च सरस्वती चेति - ११.२.६.[३]

पञ्च प्रयाजाः। इम एवास्य ते शीर्षण्याः पञ्च प्राणा मुखमेवास्य प्रथमः प्रयाजो दक्षिणा नासिका द्वितीयः सव्या नासिका तृतीयो दक्षिणः कर्णश्चतुर्थः सव्यः कर्णः पञ्चमोऽथ यच्चतुर्थे प्रयाजे समानयति तस्मादिदं श्रोत्रमन्तरतः संतृण्णं चक्षुषी आज्यभागौ स विद्याच्चक्षुषी एव म एताविति - ११.२.६.[४]

अथ य आग्नेयः पुरोडाशः। अयमेवास्य स दक्षिणोऽर्द्धो हृदयमेवास्योपांशुयाजः स यत्तेनोपांशु चरन्ति तस्मादिदं गुहेव हृदयम् - ११.२.६.[५]

अथ योऽग्नीषोमीयः पुरोडाशः। अयमेवास्य स उत्तरोऽर्ध ऐन्द्रं वा सांनाय्यमन्तरांसमेवास्य स्विष्टकृद्द्विषं प्राशित्रम् - ११.२.६.[६]

स यत्प्राशित्रमवद्यति। यथैव तत्प्राजापतेराविद्धं निरकृन्तन्नेवमेवैतस्यैतद्यद्वेष्टितं यद्ग्रथितं यद्वरुण्यं तन्निष्कृन्तति स विद्याद्यथैव तत्प्रजापतेराविद्धं निरकृन्तन्नेवमेव म इदं यद्वेष्टितं यद्ग्रथितं यद्वरुण्यं तन्निष्कृन्ततीति - ११.२.६.[७]

उदरमेवास्येडा। तद्यथैवाद इडायां समवद्यन्त्येवमेवेदं विश्वरूपमन्नमुदरे समवधीयते - ११.२.६.[८]

त्रयोऽनुयाजाः। इम एवास्य तेऽवाञ्चस्त्रयः प्राणा बाहू एवास्य सूक्तवाकश्च शंयोर्वाकश्च चत्वारः पत्नीसंयाजाश्चतस्रो वै प्रतिष्ठा ऊरू द्वावष्ठीवन्तौ द्वौ पादावेवास्य समिष्टयजुः - ११.२.६.[९]

ता एकविंशतिराहुतयः। द्वावाघारौ पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः पुरोडाशस्तद्दशाग्नीषोमीय उपांशुयाजोऽग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदिडा त्रयोऽनुयाजाः सूक्तवाकश्च शंयोर्वाकश्चाथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्टयजुश्च - ११.२.६.[१०]

ता एकविंशतिराहुतयः। द्वादश वै मासाः संवत्सरस्य पञ्चर्तवस्त्रयो लोकास्तद्विंशतिरेष एवैकविंशो य एष तपति सैषा गतिरेषा प्रतिष्ठा तदेतां गतिमेतां प्रतिष्ठां गच्छति - ११.२.६.[११]

तद्ध स्मैतदारुणिराह अर्धमासशो वा अहममुनादित्येन सलोको भवामि तामहं दर्शपूर्णमासयोः सम्पदं वेदेति - ११.२.६.[१२]

तदाहुः। आत्मयाजी श्रेया३न्देवयाजी३ इत्यात्मयाजीति ह ब्रूयात्स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयत इति स यथाहिस्त्वचो निर्मुच्येतैवमस्मान्मर्त्याच्छरीरात्पाप्मनो निर्मुच्यते स ऋङ्मयो यजुर्मयः साममय आहुतिमयः स्वर्गं लोकमभिसम्भवति - ११.२.६.[१३]

अथ ह स देवयाजी यो वेद। देवानेवाहमिदं यजे देवान्त्सपर्यामीति स यथा श्रेयसे पापीयान्बलिं हरेद्वैश्यो वा राज्ञे बलिं हरेदेवं स स ह न तावन्तं लोकं जयति यावान्तमितरः - ११.२.६.[१४]