शतपथब्राह्मणम्/काण्डम् ११/अध्यायः २/ब्राह्मणं ४

विकिस्रोतः तः
Jump to navigation Jump to search

११.२.४

एष वै पूर्णमाः। य एष तपत्यहरहर्ह्येवैष पूर्णोऽथैष एव दर्शो यच्चन्द्रमा दृदृश इव ह्येषः -११.२.४.[१]

अथो इतरथाऽऽहुः। एष एव पूर्णमा यच्चन्द्रमा एतस्य ह्यनु पूरणं पौर्णमासीत्याचक्षतेऽथैष एव दर्शो य एष तपति ददृश इव ह्येषः - ११.२.४.[२]

इयमेव पूर्णमाः। पूर्णेव हीयमसावेव द्यौर्दर्शो ददृश इव ह्यसौ द्यौः - ११.२.४.[३]

रात्रिरेव पूर्णमाः। पूर्णेव हीयं रात्रिरहरेव दर्शो ददृश इव हीदमहरेषा नु देवत्रा दर्शपूर्णमासयोर्मीमांसा - ११.२.४.[४]

अथाध्यात्मम्। उदान एव पूर्णमा उदानेन ह्ययं पुरुषः पूर्यत इव प्राण एव दर्शो ददृश इव ह्ययं प्राणस्तदेतावन्नादश्चान्नप्रदश्च दर्शपूर्णमासौ - ११.२.४.[५]

प्राण एवान्नादः। प्राणेन हीदमन्नमद्यत उदान एवान्नप्रद उदानेन हीदमन्नं प्रदीयते स यो हैतावन्नादं चान्नप्रदं च दर्शपूर्णमासौ वेदान्नादो हैव भवति प्र हास्मा अन्नाद्यं दीयते - ११.२.४.[६]

मन एव पूर्णमाः। पूर्णमिव हीदं मनो वागेव दर्शो ददृश इव हीयं वाक्तदेतावध्यात्मं प्रत्यक्षं दर्शपूर्णमासौ स यदुपवसथे व्रतोपायनीयमश्नाति तेनैतावध्यात्मं प्रत्यक्षं दर्शपूर्णमासौ प्रीणाति यज्ञेन प्रातर्देवौ - ११.२.४.[७]

तदाहुः। यन्न पूर्णमासायेति हविर्गृह्यते न दर्शायेति हविर्गृह्यते न पूर्णमासायानुब्रूहि न दर्शायानुब्रूहि न पूर्णमासं यज न दर्शं यजेत्यथ केनास्य दर्शपूर्णमासाविष्टौ भवत इति स यं मनस आघारयति मनो वै पूर्णमास्तेन पूर्णमासं यजत्यथ यं वाच आघारयति वाग्वै दर्शस्तेनो दर्शं यजत्येतेनो हास्य दर्शपूर्णमासाविष्टौ भवतः - ११.२.४.[८]

तद्धैके चरू निर्वपन्ति। पौर्णमास्यां सरस्वतेऽमावास्यायां सरस्वत्या एतत्प्रत्यक्षं दर्शपूर्णमासौ यजामह इति वदन्तस्तदु तथा न कुर्यान्मनो वै सरस्वान्वाक्सरस्वती स यदेवैतावाघारावाघारयति तदेवास्य दर्शपूर्णमासाविष्टौ भवतस्तस्मादेतौ चरू न निर्वपेत् - ११.२.४.[९]


तदाहुः। आगूर्ती वा एष भवति यो दर्शपूर्णमासाभ्यां यजते पौर्णमासेन हीष्ट्वा वेदामावास्येन यक्ष्य इत्यामावास्येनेष्ट्वा वेद पुनः पौर्णमासेन यक्ष्य इति स आगूर्त्येवामुं लोकमेति यदामुं लोकमेति कथमनागूर्ती भवतीति स यदेवैता उभयत्राघारावाघारयति तदेवास्य दर्शपूर्णमासौ संतिष्ठेते स संस्थितयोरेव दर्शपूर्णमासयोरथामुं लोकमेति तथानागूर्ती भवति - ११.२.४.[१०]