मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः ८
← सर्गः ६ | मोक्षोपायटीका/उत्पत्तिप्रकरणम् भास्करकण्ठः |
सर्गः ९ → |
मोक्षोपायटीका/उत्पत्तिप्रकरणम् |
---|
श्रीरामः पृच्छति
कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिध्यति ।
न्यायेऽनुभूत एतस्मिन्न ज्ञेयमवशिष्यते ॥ ३,८.१ ॥
"एतत्" दृश्यासत्यत्वम् । ननु किमर्थमत्र युक्तिं पृच्छसीत्य् । अत्राह "न्याये"ति । यतः "एतस्मिन्न्याये" । न्यायेन "अनुभूते" सति । "ज्ञेयं नावशिष्यते" । युक्तिश्रवणेन सर्वस्य ज्ञातत्वात् ॥ ३,८.१ ॥
श्रीवसिष्ठः विस्तरकथनप्रतिज्ञां सम्पादयिष्यन्नुत्तरं कथयति
बहुकालमियं रूढा मिथ्याज्ञानविषूचिका ।
जगन्नाम्नी विचाराख्यादृते मन्त्रान्न शाम्यति ॥ ३,८.२ ॥
आ"रूढा" बुद्धौ सत्यतया स्फुरिता । जगतश्च मिथ्याज्ञानरूपत्वं शुक्तिरजतवज्ज्ञेयम् । युक्तश्च "विषूचिकायाः मन्त्रेण" नाशः ॥ ३,८.२ ॥
वक्ष्यमाणोपदेशश्रवणं प्रति श्रीरामं दृढीकरोति
वदाम्याख्यायिका राम या इमा बोधसिद्धये ।
ताश्चेच्छृणोषि तत्साधो मुक्त एवासि बुद्धिमान् ॥ ३,८.३ ॥
"आख्यायिकाः" उपदेशकारीणि आख्यानानि । "बोधसिद्धये" दृश्यात्यन्ताभावज्ञानसिद्धये । "मुक्तः" दृश्येनास्पृष्टः ॥ ३,८.३ ॥
अश्रवणे दण्डं कथयति
नो चेदुद्वेगशीलत्वादर्धादुत्थाय गच्छसि ।
तत्तिर्यग्धर्मिणस्तेऽद्य किञ्चिन्नापि तु सेत्स्यति ॥ ३,८.४ ॥
त्वं "नो चेत्" शृणोषि । अथ वा "उद्वेगशीलत्वातर्धादुत्थाय गच्छसि" । "तत्" तदा । "तिर्यग्धर्मिणः" पशुतुल्यस्य । "ते" । "किञ्चिदपि न सेत्स्यति" ॥ ३,८.४ ॥
ननु दृढतया श्रवणेनापि यदि किञ्चिन्न सेत्स्यति तदा किं कार्यमित्य् । अत्राह
यो यमर्थं प्रार्थयते तदर्थं यतते तथा ।
सोऽवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ॥ ३,८.५ ॥
"यः" पुरुषः । "यमर्थम्" यत्वस्तु । "प्रार्थयते" प्रार्थनाविषयं करोति । "तथा" तदनुकल्पेन । न त्वन्यथा । "यतते" । "सः अवश्यं तताप्नोति" । "चेत्" यदि । "श्रान्तः न निवर्तते" ॥ ३,८.५ ॥
नन्वहमस्मिन् प्रार्थिते वस्तुनि किंरूपं यत्नं करोमीत्य् । अत्राह
साधुसङ्गमसच्छास्त्रपरो भवसि राम चेत् ।
तद्दिनैरेव वा मासैः प्राप्नोषि परमं पदम् ॥ ३,८.६ ॥
निरतिशयप्रतिभावत्त्वे "दिनैः" । अन्यथा "मासैर्" । इति विभागः ॥ ३,८.६ ॥
श्रीवसिष्ठसाधुत्वे निश्चितः श्रीरामः आत्मज्ञानप्रबोधनिमित्तं शास्त्रं पृच्छति
आत्मज्ञानप्रबोधाय शास्त्रं शास्त्रविदां वर ।
किंनाम तत्प्रधानं स्याद्यस्मिञ्ज्ञाते न शोच्यते ॥ ३,८.७ ॥
"आत्मज्ञानप्रबोधाय" आत्मज्ञानाविर्भावार्थम् । "न शोच्यते" दृश्यासक्तिरूपं शोचनं नानुभूयते ॥ ३,८.७ ॥
श्रीवसिष्ठ उत्तरं कथयति
आत्मज्ञानप्रधानानामिदमेव महामते ।
शास्त्राणां परमं शास्त्रं महारामायणाभिधम् ॥ ३,८.८ ॥
"आत्मज्ञानं प्रधानं" वाच्यतया सारभूतं येषाम् । ते । तादृशानाम् । "इदं रामायणाभिधम्" अयं महारामायणाख्यः इतिहासः । ननु श्रीवाल्मीकिना स्वेनोपनिबद्धे श्रीमहारामायणे श्रीरामवृत्तान्तकथनप्रसङ्गतः श्रीरामं प्रति श्रीवसिष्ठेन कृतः उपदेशः निबद्धः यः केनापि दयालुना अस्माच्छ्रीमहारामायणादुद्धृतः तत्कथमुपदेशकालानन्तरभाविनः श्रीमहारामायणस्य श्रीवसिष्ठेन "इदम्" इत्यनेन परामर्शः कृतः । अनेन हि श्रीमहारामायणस्य श्रीवसिष्ठकृतत्वं द्योतते इति चेत् । आरम्भे एवास्माभिः अयं निर्णयः कृतः । किं पुनः पुनः पृच्छसि । यतः तत्र प्रतिभावतां स्वयमस्यार्थस्यावबोधकत्वमुक्तम् । तद्रहितानां त्वनधिकारः उक्तः । इति प्रतिभामेव पृच्छ । यदि न प्रतिभा अस्ति तदानधिकारित्वान्मौनमेव कार्यमित्यलं प्रपञ्चेन ॥ ३,८.८ ॥
श्रीमहारामायणमेव प्रशंसति
इतिहासोत्तमादस्मात्परो बोधः प्रवर्तते ।
सर्वेषामितिहासानामयं सार उदाहृतः ॥ ३,८.९ ॥
"अस्मात्" रामायणाख्यात् ॥ ३,८.९ ॥
श्रुतेऽस्मिन् वाङ्मये यस्माज्जीवन्मुक्तत्वमक्षतम् ।
उदेति स्वयमेवात इदमेवातिपावनम् ॥ ३,८.१० ॥
"वाङ्मये" शास्त्रे ॥ ३,८.१० ॥
स्थितमेवास्तमायाति जगद्दृश्यं विचारणात् ।
यथा स्वप्ने परिज्ञाते स्वप्नार्थादेव भावना ॥ ३,८.११ ॥
"स्थितमेव" न तु मुद्गरादिप्रहारैः नाशं नीतम् । अत्र दृष्टान्तमाह "यथे"ति । "भावना" सत्यताभावना । "एव"कारः पादपूरणार्थः । अयं भावः । यथा स्वप्ने जाग्रदवस्थायामसत्यतया परिज्ञाते सति । तत्रानुभूतैः भावाभावैः हर्षामर्षौ न ज्ञायेते । अन्यथा हि जाग्रत्यनुभूतैरतीतैरपि भावाभावैरिव तत्रत्यैः भावाभावैः हर्षामर्षोत्पादः स्यात् । तथा महारामायणविचारणेन दृश्ये असत्यतया ज्ञाते सति दृश्यविषयैः भावाभावैः हर्षामर्षौ न ज्ञायेते इति ॥ ३,८.११ ॥
नन्वन्यान्यपि शास्त्राणि सन्त्येव । तत्कथमस्यैवासाधारणकारणत्वं कथयसीत्य् । अत्राह
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।
इदं समस्तविज्ञानशास्त्रकोशं विदुर्बुधाः ॥ ३,८.१२ ॥
"यतिह" अस्मिन् रामायणे । "अस्ति" सामस्त्येन विद्यते । "ततन्यत्र" अन्यशास्त्रेषु । "अस्ति" व्यस्तत्वेन भवतीत्यर्थः । "यतिह नास्ति तत्क्वचित्" कुत्रापि शास्त्रे । "नास्ति" । अतः "बुधाः" समस्तशास्त्रसारज्ञाः । "इदम्" एतत्श्रीमहारामायणम् । "समस्तविज्ञानशास्त्रकोशं" सकलाध्यात्मशास्त्रभाण्डागारम् । "विदुः" जानन्ति ॥ ३,८.१२ ॥
उक्तलक्षणश्रीमहारामायणश्रवणे फलं कथयति
य इदं शृणुयाद्नित्यं तस्योदारचमत्कृतेः ।
बालस्यापि परं बोधं बुद्धिरेति न संशयः ॥ ३,८.१३ ॥
"बालस्यापि" मूर्खस्यापीत्यर्थः । पण्डितस्य तु का कथेति भावः ॥ ३,८.१३ ॥
एतद्विमुखस्य कर्तव्यं कथयति
यस्मै नेदं त्वभव्याय रोचते दुष्कृतोदयात् ।
विचारयतु यत्किञ्चित्स शास्त्रं ज्ञानवाङ्मयम् ॥ ३,८.१४ ॥
"अभव्याय" आसुरस्वभावयुक्ताय । "ज्ञानवाङ्मयम्" ज्ञानवाक्यनिर्भरम् ॥ ३,८.१४ ॥
ननु मुक्तिकामस्य मम किमेतच्छ्रवणेनेत्य् । अत्राह
जीवन्मुक्तत्वमस्मिंस्तु श्रुते समनुभूयते ।
स्वयमेव यथा पीते नीरोगत्वं वरौषधे ॥ ३,८.१५ ॥
"स्वयमेव" अयत्नमेव ॥ ३,८.१५ ॥
श्रूयमाणे हि शास्त्रेऽस्मिञ्श्रोता वेत्त्येतदात्मना ।
यथावदिदमस्माभिर्न तूक्तं वरशापवत् ॥ ३,८.१६ ॥
"एतत्" मदुक्तं वस्तु । ननु यद्येतच्छ्रवणे प्रवृत्तस्य किञ्चित्प्रत्यवायादि स्यात्तदा किं कार्यमित्य् । अत्राह "इदम्" इति । "वरशापवत्" वरशापयुक्तम् । मन्त्रवदिति शेषः ॥ ३,८.१६ ॥
सर्गान्तश्लोकेन स्वात्मविचारस्य दृश्यात्यन्ताभावज्ञाने असाधारणकारणत्वं कथयति
शाम्यति संसृतिदुःखमिदं ते
स्वात्मविचारमहाकथयैव ।
नो धनदानतपःश्रुतवेदैस्
तत्कथनोज्झितयत्नशतेन ॥ ३,८.१७ ॥
"ते" तव । "इदं" दृश्यस्वरूपम् । "संसृतिदुःखम्" जन्माख्यं दुःखम् । "स्वात्मविचारमहाकथया" । "स्वात्मविचारस्य" । या "महाकथा" अन्योऽन्यं महती कथा । तय्"ऐव शाम्यति" । "धनदानतपःश्रुतवेदैः इदं संसृतिदुःखं नो शाम्यति" । अतः भवितव्यमिति शेषः । अतः कारणात्पुरुषेण । तस्य "स्वात्मविचारस्य" । यत्"कथनम्" साधुभिः सह अन्योऽन्यकथनम् । तदर्थं "उज्झितानि" त्यक्तानि । "यत्नशतानि" कथनव्यतिरिक्तानि यत्नशतानि । येन । सः । तादृशेन भवितव्यम् । इति शिवम् ॥ ३,८.१७ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणेऽष्टमः सर्गः ॥ ३,८ ॥