सामग्री पर जाएँ

मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः ११

विकिस्रोतः तः
← सर्गः १० मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः १२ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



ओं श्रीरामः पृच्छति

इदंरूपमिदं दृश्यं जगन्नामास्ति भासुरम् ।

महाप्रलयसम्पत्तौ भो ब्रह्मन् क्व नु गच्छति ॥ ३,११.१ ॥

"इदं" पुरः स्फुरत् । "दृश्यं" दृशिक्रियाविषयो । "जगन्नाम" जगदाख्यं वस्तु । "अस्ति" परमार्थत एवास्ति । अन्यथा भासमानत्वायोगात् । कथम्भूतम् "इदंरूपम्" । "इदम्" अनुभूयमानभावाभावमयम् । "रूपं" स्वरूपं यस्य । तत्"इदंरूपम्" । ततः किमित्य् । अत्राह "महाप्रलये"ति । "भो ब्रह्मन्" । इदमेव जगत्"महाप्रलयसम्पत्तौ क्व नु गच्छति" । कं देशं यातीत्यर्थः ॥ ३,११.१ ॥

 

 

श्रीवसिष्ठोऽप्येतत्सदृशं किञ्चित्पृच्छति

कुत आयाति कीदृग्वा वन्ध्यापुत्रः क्व गच्छति ।

क्व याति कुत आयाति वद वा व्योमकाननम् ॥ ३,११.२ ॥

"कुतः आयाति" । उत्पत्तिसमये इत्यर्थः । "कीदृग्वा" किंस्वरूपो वा । "याति" । "क्व गच्छति" । नाशसमय इत्यर्थः । एतत्सदृशः तव प्रश्न इति भावः ॥ ३,११.२ ॥

 

 

श्रीरामोऽत्रोत्तरं दधाति

वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति ।

कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता ॥ ३,११.३ ॥

वर्तमानभविष्यन्निषेधेन भूतनिषेधोऽप्याक्षिप्तः । ततः किमित्य् । अत्राह "कीदृशी"ति । "दृश्यता" दर्शनयोग्यता । लक्षणयास्तितेति यावत् ॥ ३,११.३ ॥

 

 

श्रीवसिष्ठः श्रीरामोक्तमुत्तरं दृष्टान्तीकृत्योत्तरमाह

वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन ।

जगदाद्यखिलं दृश्यं तथा नास्ति कदाचन ॥ ३,११.४ ॥

"जगदादी"त्य्"आदि"शब्देन प्रलयः गृह्यते । "कदाचन" कदापीत्यर्थः ॥ ३,११.४ ॥

 

 

फलितमाह

न चोत्पन्नं न च ध्वंसि यत्किलादौ न विद्यते ।

उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा ॥ ३,११.५ ॥

"किले"ति निश्चये । "यत्" वस्तु । "आदौ" पूर्वम् । "न चोत्पन्नं" भवति । "न च ध्वंसि" भवति । नाशभागपि न भवति । तथा "न विद्यते" स्थितिविषयतां च न याति । "तस्य कीदृशी" किंरूपा । "उत्पत्तिर्" भवति । उत्पत्त्यभावे च "नाशशब्दस्य का कथा" । एतद्वक्तुमपि न युक्तमिति भावः ॥ ३,११.५ ॥

 

 

 

श्रीरामः पुनः पृच्छति

वन्ध्यापुत्रनभोवृक्षकल्पना तावदस्ति हि ।

सा यथा नाशजन्माढ्या तथैवेदं न किं भवेत् ॥ ३,११.६ ॥

"तावच्"छब्दो विप्रतिपत्त्यभावद्योतकः । "हि" निश्चये । वन्ध्यापुत्रादिकल्पनाभावे वन्ध्यापुत्रेत्यादिकथैव न युक्ता स्यादिति भावः । ततः किमित्य् । अत्राह "सा" इति । "सा" वन्ध्यापुत्रादिकल्पना । असत्यत्वेऽपि "नाशजन्माढ्या" नाशजन्मयुक्ता । "यथा" भवति । "तथेदं" दृश्यम् । असत्यत्वेऽपि नाशजन्माढ्यं "किं न भवेत्" । भवत्वित्यर्थः । तथा च "क्व नु गच्छती"ति प्रश्नो युक्त एवेति भावः ॥ ३,११.६ ॥

 

 

अन्यत्र स्त्रियि दृष्टस्य पुत्रस्यारोपेण युक्तैव वन्ध्यापुत्रकल्पनात्र तु दृश्यस्य क्व यत्रापि सत्तैव नास्तीति न तत्कल्पना युक्तेत्युत्तरं श्रीवसिष्ठो भङ्ग्यान्तरेणाह

फुल्लस्यातुलभुः सम्यगालकैः कुरु कोलनम् ।

निरन्वया यथैवोक्तिर्जगत्सत्ता तथैव हि ॥ ३,११.७ ॥

"हि" निश्चये । "जगत्सत्ता तथैव" तेन प्रकारेणैव । "निरन्वया" कमप्यर्थमनुद्दिश्य प्रवृत्ता । व्यर्थेति यावत् । भवति । "तथा" कथम् । "फुल्लस्ये"त्यादि "कोलनम्" इत्यन्त्"ओक्तिर्यथा निरन्वया" भवति ॥ ३,११.७ ॥

 

 

 

निरन्वयत्वमेव दृष्टान्तान्तरैः प्रतिपादयति

यथा सौवर्णकटके दृश्यमानमपि स्फुटम् ।

कटकत्वं तु नास्त्येव जगत्त्वं तु तथा परे ॥ ३,११.८ ॥

"यथा सौवर्णकटके स्फुटं दृश्यमानमपि कटकत्वं नास्ति" परमार्थतः सुवर्णैकमयत्वात् । "परे" चिन्मात्रे । "जगत्त्वं तथै"व "नास्ती"त्यर्थः ॥ ३,११.८ ॥

 

 

आकाशे च यथा नास्ति शून्यत्वं व्यतिरेकवत् ।

जगत्त्वं ब्रह्मणि तथा नास्त्येवाप्युपलब्धिमत् ॥ ३,११.९ ॥

"च"शब्दः समुच्चये । "व्यतिरेकवत्" व्यतिरेकयुक्तम् । आकाशशून्यत्वयोः व्यतिरेकानुपलब्धेरित्यर्थः । दार्ष्टान्तिकमाह "जगत्त्वम्" इति । "जगत्त्वम्" जगद्रूपत्वम् । "तथा" तेन प्रकारेण । "ब्रह्मणि" व्यापके चित्स्वरूपे । "नास्त्येव" । विचारासहत्वादित्यर्थः । कथम्भूतम् "अपि" । "उपलब्धिमदपि" भासमानत्वेन उपलब्धमपीत्यर्थः ॥ ३,११.९ ॥

 

 

 

कज्जलान्न यथा कार्ष्ण्यं श्वैत्यं च न यथा हिमात् ।

पृथगेवं भवेद्बुद्धं जगन्नास्ति परे पदे ॥ ३,११.१० ॥

"यथा" "कार्ष्ण्यं" कृष्णता । "कज्जलात्पृथक्न" "भवेत्" । तथा "श्वैत्यं" श्वेतता । "हिमाद्यथा पृथङ्न" "भवेत्" । "बुद्धं" परमार्थेन निश्चितम् । "जगत्" । "परे पदे" परमात्मनि । "एवं" तथा । "पृथक्नास्ति" । "परे पदे" इति सप्तमीद्वयं पञ्चमीस्थाने ज्ञेयम् ॥ ३,११.१० ॥

 

 

 

यथा शैत्यं च शशिनो न हिमाद्व्यतिरिच्यते ।

ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान् ॥ ३,११.११ ॥

"च"शब्दः समुच्चये । "यथा शैत्यं" शीतता । "हिमात्" शीतलात् । "शशिनः" । "न व्यतिरिच्यते" नाधिका भवति । "तथा सर्गः ब्रह्मणः व्यतिरेकवान्" भेदवान् । "न" भवति ॥ ३,११.११ ॥

 

 

 

गुणिगुणनिदर्शनेनैक्यमुक्त्वा जगतो भ्रमसिद्धतया ऐक्यं कथयति

मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता ।

नास्त्येवैवं जगन्नास्ति दृष्टमप्यमलात्मनि ॥ ३,११.१२ ॥

दार्ष्टान्तिकं कथयति "एवम्" इति । "अमलात्मनि" शुद्धचित्स्वरूपे परमात्मनि । "एवम्" तथा । "दृष्टमपि" भातमपि । "जगन्नास्ती"त्यर्थः । ननु पूर्वं कटकादयः दृष्टान्तत्वेनोपात्ता इह तु मरुजलादीति वैषम्यमापतितमिति चेन् । न । पूर्वदृष्टान्तैः ब्रह्मैकरूपत्वं जगत उक्तम् । इहासत्यत्वम् । फलतस्तु सर्वेषां दृष्टान्तानां ब्रह्मैकतायामेव तात्पर्यमिति न किञ्चिद्विरुद्धम् ॥ ३,११.१२ ॥

 

 

 

पुनरप्येतदेव दृष्टान्तान्तरेण दृढयति

संविद्विलोचनालोको भात्ययं संविदम्बरे ।

जगदाख्येऽमले व्योम्नि दृष्टिमुक्तावली यथा ॥ ३,११.१३ ॥

"अयं" आत्मत्वेन प्रत्यक्षे स्थितः । "संविद्विलोचनालोकः" । "संविद्" एव चिदेव । "विलोचनं" प्रकाशकत्वसाम्येन नेत्रम् । तस्य्"आलोकः" रश्मिः । "भाति" पदार्थभावेन स्फुरति । कुत्र । "जगदाख्ये" जगन्नाम्नि । "संविदम्बरे" चिदाकाशे । का "यथा" । "दृष्टिमुक्तावली यथा" । यथा सा "अमले व्योम्नि" भूताकाशे । स्फुरति । तथेत्यर्थः । अयं भावः । यथा नेत्रान्निर्गताः रश्मयः आकाशे स्फुरन्तः मुक्तावलीरूपेण दृश्यन्ते । तथा चित उत्थिताः चिदालोकाख्याः रश्मयः जगदाख्ये चिदम्बरे स्फुरन्तः नानापदार्थरूपेण दृश्यन्ते इति ॥ ३,११.१३ ॥

 

 

 

चिदाकाशे चिदाकाशश्चित्त्वाद्यः कचति स्वयम् ।

तदेव तेन रूपं स्वं जगदित्यवबुध्यते ॥ ३,११.१४ ॥

"चिदाकाशः" "चिदाकाशे" चिदाकाशाख्यायां स्वभित्तौ । "चित्त्वाच्" चिद्भावेन । "कचति" स्फुरति । अहमिति स्वपरामर्शविषयो भवतीति यावत् । परामर्शाभावे हि तस्य चित्त्वमेव न स्यात् । "तेन" तेन चिदाकाशेन । "तत्" कचनाख्यं स्वं रूपम् । "जगदित्यवबुध्यते" ज्ञायते । कचनरूपत्वादेव जगतः ॥ ३,११.१४ ॥

 

 

 

प्रकृतमनुसरति

आदावेव हि यन्नास्ति कारणासम्भवात्स्वयम् ।

वर्तमानेऽपि तन्नास्ति नाशः स्यात्तत्र कीदृशः ॥ ३,११.१५ ॥

"हि" निश्चये । "यत्" यत्जगदाख्यं वस्तु । "कारणासम्भवातादौ एव स्वयं नास्ति" । "तत्वर्तमानेऽपि नास्ति" । "तत्र" तस्मिन् वस्तुनि । "नाशः" वन्ध्यापुत्रदृष्टान्तेन शङ्कितः नाशः । "कीदृशः" किंरूपः । "स्यात्" विषयाभावेनायोग्यत्वान्न स्यादित्यर्थः ॥ ३,११.१५ ॥

 

 

ननु परमात्मलक्षणस्य कारणस्य सद्भावात्कारणासम्भवः कथमुदेत्य् । अत्राह

क्वासम्भवद्भूतजाड्यं पृथ्व्यादेर्जडवस्तुनः ।

कारणं भवितुं शक्तं छायाया आतपो यथा ॥ ३,११.१६ ॥

भूतेषु दृश्यमानं जाड्यं "भूतजाड्यम्" । "असम्भवत्भूतजाड्यं" यस्य । तत्"असम्भवद्भूतजाड्यं" । अर्थात्चिदाख्यं वस्तु । "पृथ्व्यादेः जडवस्तुनः कारणं भवितुं क्व शक्तं" । न शक्तमित्यर्थः । अत्र दृष्टान्तमाह "छायाया" इति । आतपस्य छायाया नाशकत्वेन स्फुटं छायाकारणत्वायोगाद्दृष्टान्तता ॥ ३,११.१६ ॥

 

 

 

ननु कारणाभावेऽपि जगदस्तु इत्य् । अत्राह

कारणाभावतः कार्यं नेदं तत्किञ्चनोदितम् ।

यत्तत्कारणमेवास्ति तदेवेत्थमवस्थितम् ॥ ३,११.१७ ॥

"तत्" पूर्वोक्ताद्धेतोः । "कारणाभावतः" कारणाभावात् । "इदम्" अनुभूयमानम् । "कार्यं" जगदाख्यं कार्यम् । "उदितम्" उत्पन्नम् । "नास्ति" । कथम् । "किञ्चन" लेशेनापीत्यर्थः । पुनः किमेतद्दृश्यत इत्य् । अत्राह "यद्" इति । "तदेव" वस्तु । "इत्थं" जगद्रूपेण्"आवस्थितं" वर्तमानं भवति । "तदेव" किम् । "यत्" वस्तु । "तत्कारणम्" एतस्य जगतः कारणत्वेन शङ्कितं वस्तु । "एव" भवति । न त्वन्यत्किञ्चिदिति भावः ॥ ३,११.१७ ॥

 

 

 

अजातमेव यद्भाति संविदो भानमेव तत् ।

यज्जगद्दृश्यते स्वप्ने संवित्कचनमेव तत् ॥ ३,११.१८ ॥

"यद्" वस्तु । "अजातमेव भाति" । "तत्संविदो" ज्ञानस्य । "भानमेव" तथात्वेन स्फुरणमेव । भवति । अत्रानुरूपं दृष्टान्तमाह "यद्" इति । "तत्" इत्यनेन जगतः परामर्शः । स्वप्नस्य संवित्कचनरूपत्वं सर्वप्रतीतिसिद्धमेवेति दृष्टान्तत्वेन गृहीतम् ॥ ३,११.१८ ॥

 

 

संवित्कचनमेवान्तर्यथा स्वप्नजगद्भ्रमः ।

सर्गादौ ब्रह्मणि तथा जगत्कचनमाततम् ॥ ३,११.१९ ॥

"अन्तः" मनसि । "स्वप्नजगद्भ्रमः" स्वप्नजगद्रूपो भ्रमः । स्वप्नजगदिति यावत् । "सर्गादौ" बुद्ध्यारोपिते सर्गारम्भे । "तथा"शब्देन "संवित्कचनम्" आक्षिप्यते । "आततम्" विस्तीर्णम् ॥ ३,११.१९ ॥

 

 

 

यदिदं दृश्यते किञ्चित्तत्सदेवात्मनि स्थितम् ।

नास्तमेति न चोदेति जगत्किञ्चित्कदाचन ॥ ३,११.२० ॥

"यतिदम्" अनुभूयमानम् । "किञ्चित्" वस्तु । "दृश्यते" । "तत्सदेव" सद्वस्त्वेव । स्व्"आत्मनि" चिन्मये स्वस्वरूपे । "स्थितं" भवति । फलितमाह "नास्तम्" इति । अत इत्यध्याहार्यम् । चिन्मात्राख्येन रूपेण सदैव स्थितत्वादिति भावः ॥ ३,११.२० ॥

 

 

यथा द्रवत्वं सलिलं स्पन्दत्वं पवनो यथा ।

यथा प्रकाश आभासो ब्रह्मैव त्रिजगत्तथा ॥ ३,११.२१ ॥

न हि कश्चित्"द्रवत्वा"दि "सलिला"देः पृथक्कृत्य दर्शयितुं समर्थ इति भावः । "प्रकाशः" सूर्यादिप्रकाशः । "आभासः" अर्थप्राकट्यम् ॥ ३,११.२१ ॥

 

 

 

यथा पुरमिवास्तेऽन्तर्विदेव स्वप्नसंविदि ।

तथा जगदिवाभाति स्वात्मैव परमात्मनि ॥ ३,११.२२ ॥

"यथा स्वप्नसंविदि" स्वप्नज्ञाने । स्वप्नावस्थायामिति यावत् । "अन्तः" अन्तःकरणे । "विदेव" ज्ञानमेव । "पुरमिवाभाति" विलसति । "तथा स्वात्मैव परमात्मनि" । "परमात्मे"त्याख्यायां स्वभित्तौ । "जगदिवाभाति" । न त्वन्यज्जगन्नामास्तीति भावः ॥ ३,११.२२ ॥

 

 

 

अत्र श्रीरामः पृच्छति

एवं चेत्तत्कथं ब्रह्मन् सुघनप्रत्ययं वद ।

इदं दृश्यविषं जातमसत्स्वप्नानुभूतिवत् ॥ ३,११.२३ ॥

हे "ब्रह्मन्" । त्वं "वद" । "एवं चेत्" पूर्वोक्तः प्रकारो यदि भवति । "तत्" तर्हि । "इदम्" अनुभूयमानम् । "दृश्यविषं" । "दृश्यम्" एव मोहादायकत्वेन "विषं" विषद्रव्यम् । "सुघनप्रत्ययं" । "सुघनः प्रत्ययः" आश्वासः यस्मिन् । तत् । तादृशम् । "कथं" केन हेतुना । "जातम्" उत्पन्नम् । कथम् । "असत्स्वप्नानुभूतिवत्" । "असती" या "स्वप्नानुभूतिः" स्वप्नाकारा अनुभूतिः । स्वप्नमिति यावत् । तद्"वत्" ॥ ३,११.२३ ॥

 

 

दृश्यात्यन्तासम्भवं विना मुक्तिममन्यमानः तमेव विस्तरेण पृच्छति

सति दृश्ये किल द्रष्टा सति द्रष्टरि दृश्यता ।

एकसत्त्वे द्वयोर्बन्धो मुक्तिरेकक्षये द्वयोः ॥ ३,११.२४ ॥

"किले"ति निश्चये । दृश्यसत्तायां द्रष्टृसत्ता भवति । द्रष्टृसत्तायां च दृश्यसत्ता भवति । यतः त्वयैवेति भावः । फलितमाह "एकसत्त्वे"ति । "द्वयोः" मध्ये "एकसत्त्वे बन्धः" स्यात् । "द्वयोः" मध्ये "एकक्षये मुक्तिः" स्यात् । तस्मात्मुक्त्यर्थमेकक्षय एव साध्यः इति भावः ॥ ३,११.२४ ॥

 

 

 

ननु तत्रापि किं पुनः पुनः दृश्यात्यन्ताभावमेव पृच्छसीत्य् । अत्राह

अत्यन्तासम्भवो यावद्बुद्धो दृश्यस्य नाक्षयः ।

तावद्द्रष्टुरद्रष्टृत्वं न सम्भवति मोक्षदम् ॥ ३,११.२५ ॥

"बुद्धः" सम्यक्ज्ञातः । "अक्षयः" अविच्छिन्नः । "अद्रष्टृत्वं" अद्रष्टृभावः । शुद्धचिन्मात्रतेति यावत् । दृश्यात्यन्ताभावस्य सुकरत्वाद्द्रष्टृतानिरासस्य च दृश्यात्यन्ताभावं विना दुष्करत्वाच्च पुनः पुनः दृश्यात्यन्ताभावप्रश्न इति भावः ॥ ३,११.२५ ॥

 

 

 

ननु दृश्यात्यन्ताभावे तव किं प्रयोजनम् । दृश्यध्वंसेनापि कार्यसिद्धेरित्य् । अत्राह

दृश्यं चेत्सम्भवत्यादौ पश्चात्क्षयमुपागतम् ।

तद्दृश्यस्मरणानर्थरूपो बन्धो न नश्यति ॥ ३,११.२६ ॥

"तत्" तदा । "दृश्यस्मरणानर्थरूपः" दृश्यस्मरणमेवानर्थः । सः रूपं यस्य । सः तादृशः "बन्धः" । "न नश्यति" नाशं न याति । पूर्वं सत्यतया ज्ञातस्य ततो नष्टस्यार्थस्य स्मरणं हि दुर्निवारमेव । यथा मात्रादेरिति भावः । "तत्" कदा । "चेत्" यदि । "आदौ" पूर्वम् । "दृश्यं" "सम्भवति" सत्यतया उपपत्तिमद्भवति । "पश्चात्क्षयं" नाशम् । "उपागतं" भवति । तस्मात्त्रैकालिक एवाभावोऽत्राङ्गीकरणीय इति भावः ॥ ३,११.२६ ॥

 

 

 

ननु नष्टस्य दृश्यस्य का स्मृतिर्भवतीत्य् । अत्राह

यत्र क्वचन संस्थस्य स्वादर्शस्येव चिद्गतेः ।

प्रतिबिम्बो लगत्येव सर्गस्मृतिमयो ह्ययम् ॥ ३,११.२७ ॥

"हि" निश्चये । "अयं" समनन्तरमुक्तः । "सर्गस्मृतिमयः" सर्गस्मरणस्वरूपः । "प्रतिबिम्बः लगत्येवा"वश्यं लगति । कस्याः । "चिद्गतेः" चित्प्रकारस्य । कस्य्"एवादर्शस्येव" । यथा यत्र क्वचन संस्थितस्यादर्शस्य पदार्थसान्निध्ये प्रतिबिम्बो लगति तथा यत्र क्वचन स्थितायाः चिद्गतेः सूक्ष्मत्वेन स्थितदृश्यसान्निध्यात्प्रतिबिम्बो लगतीत्यर्थः ॥ ३,११.२७ ॥

 

तर्हि मुक्तिः कदा सम्भवतीत्य् । अत्राह

आदावेव हि नोत्पन्नं दृश्यं नास्त्येव चेत्स्वयम् ।

द्रष्टृदृश्यभ्रमाभावात्तत्सम्भवति मुक्तता ॥ ३,११.२८ ॥

"दृश्यं" दृशिक्रियाविषयो भावजातम् । "आदावेव" प्रथममेव । "स्वयं" स्वभावेन्"आनुत्पन्नं" अजातं सत् । "चेत्" यदि । "नास्त्येव" । "तत्" तदा । "मुक्तता" "सम्भवति" उपपत्तियुक्ता भवति । कुतः । "द्रष्टृदृश्यभ्रमाभावात्" । अयं भावः । दृश्यात्यन्ताभावे सति पुरुषस्येदं दृश्यमिति भ्रमः शाम्यति । तच्छान्तौ चाहं द्रष्टेति भ्रमोऽपि शाम्यत्येव । ततश्च शुद्धचिन्मात्रस्वरूप एवासौ शिष्यते । तदेव च मुक्तिरिति ॥ ३,११.२८ ॥

 

 

 

प्रश्नमुपसंहरति

तस्मादसम्भवन्मुक्तेर्मम प्रोत्साहयुक्तितः ।

अत्यन्तासम्भवं दृश्ये कथयात्मविदां वर ॥ ३,११.२९ ॥

हे "आत्मविदां वर" श्रेष्ठ । "तस्मात्" ततो हेतोः । "असम्भवन्मुक्तेः" दृश्यात्यन्ताभावज्ञानं विनानुपपद्यमानमुक्तेः । "मम" । "दृश्ये" वर्तमानम् "अत्यन्तासम्भवं" । "कथय" । कुतः । "प्रोत्साहयुक्तितः" प्रकृष्टमुद्योगं कृत्वेत्यर्थः ॥ ३,११.२९ ॥

 

 

श्रीवसिष्ठ उत्तरमाह

असदेव यथा भाति जगत्सर्वात्मकं तथा  ।

शृण्वहं कथया राम दीर्घया कथयामि ते ॥ ३,११.३० ॥

त्वं "शृणु" । "अहं तथा" तं प्रकारम् । "कथयामि" । कया । "दीर्घया" सविस्तरया । "कथया" वाक्यप्रबन्धेन । "तथा" कथम् । "सर्वात्मकं" समस्तदृश्यस्वरूपम् । "जगत्" । "यथा" येन प्रकारेण । "असदेव भाति" बुद्बुदौ असत्यतया स्फुरति ॥ ३,११.३० ॥

 

 

 

ननु किमर्थं दीर्घया कथया कथयसीत्य् । अत्राह

व्यवसायकथावाक्यैर्यावत्तन्नानुवर्णितम् ।

न विश्राम्यति ते तावद्धृदि पांसुर्यथा ह्रदे ॥ ३,११.३१ ॥

"व्यवसायकथावाक्यैः" । "व्यवसायस्य" विशिष्टस्य निश्चयस्योत्पादिका "कथा" "व्यवसायकथा" । तदभिधायकैः "वाक्यैः" "व्यवसायकथावाक्यैः" । "तत्" दृश्यासत्त्वम् । "यावत्नानुवर्णितं" स्यात् । "तावत्ते हृदि न विश्राम्यति" न स्थितिं करोति । को "यथा" । "पांसुर्यथा" । "यथा पांसू" रजः । "ह्रदे न विश्राम्यति" । तथेत्यर्थः ॥ ३,११.३१ ॥

 

 

 

ननु दृश्यात्यन्ताभावज्ञानेन किं मम सेत्स्यतीत्य् । अत्राह

अत्यन्ताभावमस्यास्त्वं जगत्सर्गभ्रमस्थितेः ।

बुद्ध्वैकध्याननिष्ठात्मा व्यवहारं करिष्यसि ॥ ३,११.३२ ॥

"त्वं व्यवहारं" परम्परायातं राज्यरूपं व्यवहारम् । "करिष्यसि" कूटकार्षापणव्यवहारवत्करिष्यसि । न तु वैराग्यावस्थावत्तद्विमुखो भविष्यसि । मूढत्वावस्थावद्वा तदासक्तः । "त्वं" कथम्भूतः । "एकध्याननिष्ठात्मा" । "एकस्य" चिन्मात्राख्यस्य वस्तुनः । "ध्याने" चिन्तायाम् । "निष्ठा" यस्य । तादृशः "आत्मा" सत्त्वरूपं मनः यस्य । सः । तादृशः । अन्तः चिन्मात्रध्यान एकनिष्ठः । बहिः व्यवहारभागपि भविष्यसीत्यर्थः । किं कृत्वा । "अस्याः" अनुभूयमानायाः । "जगत्सर्गभ्रमस्थितेः" । "जगत्सर्ग"रूपा जगत्सृष्टिरूपा । या "भ्रमस्थितिः" भ्रमदार्ढ्यम् । तस्याः "अत्यन्ताभावं" त्रैकालिकाभावम् । "बुद्ध्वा" ज्ञात्वेत्यर्थः ॥ ३,११.३२ ॥

 

 

 

ननु ततोऽपि किमित्यपेक्षायां फलान्तरमपि कथयति

भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः ।

दृशस्त्वां वेधयिष्यन्ति न महाद्रिमिवेषवः ॥ ३,११.३३ ॥

दृश्यात्यन्ताभावज्ञाने सति "भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः दृशः त्वां न वेधयिष्यन्ति" हर्षामर्षोत्पादनरूपां ताडनां न कुर्वन्ति । "भावः" उद्भूतिः । "अभावः" अन्तर्धिः । "ग्रहः" ग्रहणम् । "उत्सर्गः" त्यागः । भावादीनामपि दृश्यतयात्यन्ताभावस्य सम्पन्नत्वान्न तत्कृता ताडना तव भविष्यति । न हि वन्ध्यापुत्रेण कश्चित्ताडित इति भावः । ताः का "इव" । "इषवः इव" । यथा इषवः महान्तं पर्वतं न विध्यन्ति । तथेत्यर्थः ॥ ३,११.३३ ॥

 

 

दृश्यात्यन्ताभावकथनं प्रतिजानीते

स एषोऽस्त्येक एवात्मा न द्वितीयास्ति कल्पना ।

जगदत्र यथोत्पन्नं तत्ते वक्ष्यामि राघव ॥ ३,११.३४ ॥

"सः" प्रसिद्धः । "एषः" सर्वेषामपरोक्षत्वेन वर्तमानः । "एक एवास्ति" । "एव"शब्दार्थं स्फुटयति "ने"ति । "द्वितीया कल्पना" दृश्यमयी कल्पना । "नास्ति" । तथा च दृश्यात्यन्ताभावः स्फुट एवेति भावः । तर्हि भासमानं जगत्कथमस्तीत्य् । अत्राह "जगद्" इति । "अत्रा"द्वितीये ब्रह्मणि । "जगत्यथा उत्पन्नं तत्ते वक्ष्यामि" । तेनैव दृश्यात्यन्ताभावः स्फुटीभविष्यतीति भावः ॥ ३,११.३४ ॥

 

 

सर्गान्तश्लोकेनैतत्सङ्गृह्णाति

तस्मादिमानि सकलानि विजृम्भितानि

यो हीदमङ्ग सकले सकलं महात्मा ।

रूपावलोकनमनोमननप्रकाश

कोशास्पदं स्वयमुदेति च लीयते च ॥ ३,११.३५ ॥

"तस्मात्" परमात्मलक्षणातुपादानकारणात् । "इमानि" अनुभूयमानानि । "विजृम्भितानि" दृश्यरूपाणि विलासितानि । मृद इव घटा निर्यान्तीति शेषः । "तस्मात्" कस्मात् । "हि" निश्चये । हे "अङ्ग" । "यः सकलं" समस्तदृश्यप्रपञ्चरूपं भूत्वा । "स्वयं" स्वेनैव्"ओदेति च" उदयं याति च । "विलीयते" लयं याति च । "यः महात्मा" किम् । "रूपावलोकनमनोमननं" मनस्कारः । "प्रकाशः" इन्द्रियेणालोकितस्य रूपस्य मनोमननद्वारेण साक्षिभूते चिन्मात्रे स्फुरणम् । तेषां "कोश"रूपम् "आस्पदं" स्थानम् । तत्रैवैते तिष्ठन्ति । तत एव च निर्यान्तीत्यर्थः । इति शिवम् ॥ ३,११.३५ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे एकादशः सर्गः ॥ ३,११ ॥