सामग्री पर जाएँ

मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः ५

विकिस्रोतः तः
← सर्गः ४ मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः ६ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



एवं मनोनिर्णयमवश्यकर्तव्यतया श्रुत्वा श्रीरामः पृच्छति

भगवन्मुनिशार्दूल किमिवेह मनो भ्रमे ।

विद्यते कथमुत्पन्नं मनो मायामयं कुतः ॥ ३,५.१ ॥

"भगवन्मुनिशार्दूल" हे भगवन्मुनिश्रेष्ठ । "इह भ्रमे" अस्मिन् जगद्रूपे भ्रमे । "मनः किमिव विद्यते" किंस्वरूपमिवास्ति । तथा "कथमुत्पन्नम्" केन प्रकारेण प्रादुर्भूतम् । "मनः मायामयं" मायास्वरूपं "कुतः" भवति ॥ ३,५.१ ॥

 

 

तत्राप्य्"आदौ उत्पत्तिम्" एव कथयेत्यभिप्रायेणाह

उत्पत्तिमादाविति मे समासेन वद प्रभो ।

प्रवक्ष्यसि ततः शिष्टं वक्तव्यं वदतां वर ॥ ३,५.२ ॥

हे "प्रभो" । त्वम् । "मे इति उत्पत्तिम्" मनोनिष्ठामुत्पत्तिम् । मत्पृष्टं "शिष्टं" स्यात् । तत्"प्रवक्ष्यसि" कथयिष्यसि । स्वयमेव शिष्टत्वादिति भावः ॥ ३,५.२ ॥

 

 

 

श्रीवसिष्ठ उत्तरं कथयति

महाप्रलयसम्पत्तावसत्तां समुपागते  ।

अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥ ३,५.३ ॥

"महाप्रलयस्य" तुर्याख्यस्यावस्थाविशेषस्य महाकल्पान्तसमयस्य वा । "सम्पत्तौ" पूर्णतायां सत्याम् । "सर्गादौ अशेषदृश्ये" सृष्टिसंहारतत्संस्काररूपे समस्ते दृश्ये । "असत्ताम्" अदर्शनम् । "समुपागते" सति । "शान्तमेव" शनैः शनैः सर्गादिनाशसाक्षिताख्यात्क्षोभादपि निष्क्रान्तं किमप्यनिर्वाच्यं तत्त्वमेव्"आवशिष्यते" शिष्टं भवति । अत्र सर्गः स्वविषयं पदार्थजातसाक्षि प्रति । संहारः स्वसाध्यं पदार्थाभावम् । संस्कारः पदार्थसंस्कारं पदार्थाभावम् । तयोः संस्कारः पदार्थसंस्कारं पदार्थाभावसंस्कारं चेति विभागो ज्ञातव्यः ॥ ३,५.३ ॥

 

 

 

शान्तावशिष्टमेव स्फुटं कथयति

आस्तेऽनस्तमितो भास्वानजो देवो निरामयः ।

सर्वदा सर्वकृत्सर्वः परमात्मा महेश्वरः ॥ ३,५.४ ॥

"परमात्मा" सर्वेषां परमार्थतः अहन्ताविषयतया भासमानं किमप्यान्तरं तत्त्वम् । "आस्ते" तिष्ठति । प्रथमं महाप्रलयसाक्षिभावेन तदनन्तरमपि यथा तथा कल्प्यमानानां स्वाभावानां साक्षिभावेन स्थितत्वात् । अत्र "सर्वदा" स्थितस्यात्मनः स्थितिवर्तमानताकथनं प्रमात्रपेक्षया प्रयुक्तत्वात्न दोषावहम् । कथम्भूतः असौ "परमात्मे"त्यपेक्षायां विशेषणानि कथयति "अनस्तमित" इति । "अनस्तमितः" यथा तथा कल्पितस्य स्वास्तस्यापि ग्राहकत्वेन स्थितत्वात्फलतः अस्तरहितः । "भास्वान्" साक्षितया सर्वप्रकाशकत्वात्सूर्यस्वरूपः । आश्चर्यं च भास्वतः अनस्तमितत्वम् । "अजः" जन्मरहितः । प्रादुर्भूतिः हि जन्म । सा च तस्य न युक्ता । आत्मत्वेन सदा प्रादुर्भूतत्वात् । न ह्यात्मनः अप्रादुर्भूतत्वं कदापि युक्तम् । स्वाप्रादुर्भूतेरपि ग्राहकतया स्थितत्वात् । "देवः" क्रीडाशीलः । अन्यथा एतादृशं जगत्कथं प्रादुर्भवेत् । अक्रीडाशीलो हि हस्तचालनमात्रादपि पराङ्मुखो भवति । "निरामयः" मायाख्यरोगात्निष्क्रान्तः । अन्यथा मायाख्यामयग्रस्तत्वात्मायाप्रेरकत्वमयुक्तं स्यात् । न हि आमयग्रस्तः आमयप्रेरको भवति । "सर्वदा सर्वकृत्" सर्वेषु देशेषु कालेषु च सर्वकारी । अन्यथा अनुभूयमानः सर्वदा सर्वोद्भवः अयुक्तः स्यात् । "सर्वः" सर्वस्वरूपः । अन्यथा पदार्थानां किंमयत्वं स्यात् । "महेश्वरः" परमनियन्ता । अन्यथा सर्वे स्वस्वभावे नियताः न स्युः ॥ ३,५.४ ॥

 

 

 

पुनरपि तमेव विशिनष्टि

यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते  ।

यस्य चात्मादिकाः सञ्ज्ञाः कल्पिता न स्वभावजाः ॥ ३,५.५ ॥

"वाचः" समस्ताः लौकिकाः वैदिकाश्च वाचः । "यतः" यस्मात्परमात्मनः । "निवर्तन्ते" । वाखि सङ्केतं पुरस्कृत्य वस्तुनि प्रवर्तते । सङ्केतश्च परमात्मनि कर्तुमशक्यः । बाह्यान्तःकरणागोचरत्वात् । इन्द्रियगोचरे एव वस्तुनि हस्तग्राहिकया सङ्केतकरणं दृश्यते । तर्हि असौ नास्तीत्य् । अत्राह "यो मुक्तैर्" इति । "मुक्तैः" एव दृश्यानासक्तचित्तैः एव । न तु लौकिकैः । "यः अवगम्यते" आत्मतया ज्ञायते । मुक्ताः हि शुद्धं किमपि तत्त्वमात्मतया जानन्ति । अन्यथा मुक्तत्वायोगात् । तथा चासत्ता अस्य न युक्तेति भावः । ननु वाचां ततः निवर्तनकथनमयुक्तमात्मादिशब्दानां तद्वाचकत्वातित्य् । अत्राह "यस्य चे"ति । तत्त्वज्ञैरिति शेषः । "कल्पिताः" प्रवृत्तिनिमित्तमनपेक्ष्यैव तैलपायिकादिसञ्ज्ञावत्कल्पनया स्थापिताः ॥ ३,५.५ ॥

ननु यदि सः एक एवास्ति तत्कथं साङ्ख्यादिभिः पुरुषादयः कथिता इत्य् । अत्राह

यः पुमान् साङ्ख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् ।

विज्ञानमात्रं विज्ञानविदामेकान्तनिर्मलम् ॥ ३,५.६ ॥

"साङ्ख्यदृष्टीनां" साङ्ख्यदर्शनरतानाम् । साङ्ख्याः हि प्रकृतिव्यतिरिक्तं जीवापरपर्यायं पुरुषमेव शेषत्वेन कथयन्ति । स च विचार्यमाणः उक्तपरमात्मरूपत्वे एव विश्राम्यतीति युक्तमुक्तं "यः पुमान् साङ्ख्यदृष्टीनाम्" इति । एवं सर्वत्र योज्यम् । तथा च नामभेदस्यैव स्थितत्वान्नोक्तदोषप्रसङ्ग इति भावः । ननु श्रीवसिष्ठेन किं दर्शनमाश्रित्येदं शास्त्रमुक्तमिति चेत् । सत्यम् । सर्वेषां दर्शनानां सारमाश्रित्य एतेनेदं शास्त्रं कृतम् । अन्यथा सर्वमताङ्गीकारः अयुक्तः स्यात् । बाहुल्येन वेदान्तशास्त्रचर्चा अत्र दृश्यते । तदपेक्षया स्तोकेन महारहस्यभूतस्य शिवशास्त्रस्यापि इत्यलमप्रकृतचिन्तनेन । "ब्रह्म" अज्ञानाश्रयविषयीभूतं शान्तं चित्तत्त्वम् । "विज्ञानमात्रम्" घटपटादिविषयं निराकारं ज्ञानम् ॥ ३,५.६ ॥

 

 

 

यः शून्यवादिनां शून्यं भासको योऽर्कतेजसाम् ।

वक्ता स्मर्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव यः ॥ ३,५.७ ॥

"शून्यम्" सुषुप्तौ अनुभूयमानं न किञ्चित्त्वम् । उपलक्षणं चैतत् । तेन सर्वेषां दर्शनानां यत्वस्तु विश्रान्तिस्थानं भवति तदसावेवेति ज्ञेयम् । पुनः कथम्भूतोऽसौ भवतीत्य् । अत्राह "भासक" इति । "यः अर्कतेजसाम्" अर्कादिस्वरूपाणां तेजसाम् । "भासकः" नेत्राख्याधिष्ठानविशेषाधिश्रयणेन प्रकाशकः भवति । तथा "यः सदा एव" नित्यमेव । "ऋतम्" सत्यतया । परमार्थतः इति यावत् । "वक्ता स्मर्ता भोक्ता द्रष्टा कर्ता" भवति । समस्तवक्त्राद्यात्मत्वेन स्थितत्वात् । "ऋतम्" इति क्रियाविशेषणम् ॥ ३,५.७ ॥

 

 

 

सदप्यसद्यो जगति यो देहस्थोऽपि दूरगः ।

चित्प्रकाशो ह्ययं यस्मादालोक इव भास्वतः ॥ ३,५.८ ॥

"यः" आत्मा । "सदपि" एतावतः जगद्भ्रमस्याधिष्ठानतया स्थितत्वात्सत्स्वरूपमपि । "असत्" भवति । बाह्यान्तःकरणागोचरत्वात् । "यः" आत्मा । "देहस्थः अपि" पाषाणरूपस्य देहस्यान्यथा चेष्टाश्रयत्वायोगात्तत्रस्थोऽपि । "दूरगः" भवति । अन्यथाकाशस्थितानां सूर्यादीनां ग्रहणं न स्यात् । "हि" निश्चये । "अयं चित्प्रकाशः" पदार्थचेतनरूपः प्रकाशः । "यस्मात्" भवति । क "इव" । "आलोक इव" । यथा "आलोकः" पदार्थदर्शनम् । "भास्वतः" सूर्याद् । भवति । तथेत्यर्थः ॥ ३,५.८ ॥

 

 

 

यस्माद्विष्ण्वादयो देवाः सूर्यादिव मरीचयः ।

यस्माज्जगन्त्यनन्तानि बुद्बुदा जलधेरिव ॥ ३,५.९ ॥

"देवाश्" चाध्यात्मिकाः आधिदैविकाश्चेति द्विविधाः ज्ञेयाः । तत्र आधिदैविकाः प्रसिद्धाः । आध्यात्मिका यथा । मनः ब्रह्मा । बुद्धिः "विष्णुः" । अहङ्कारः रुद्रः । इन्द्रिय्"आदयः" "देवा" इति । "जगन्त्य्" अपि एवं द्विविधानि ज्ञेयानि । तान्यपि आधिदैविकानि प्रसिद्धानि । आध्यात्मिकानि तु मानसिकाः सङ्कल्पाः ज्ञेयाः ॥ ३,५.९ ॥

 

 

 

यं यान्ति दृश्यवृन्दानि पयांसीव महार्णवम् ।

य आत्मानं पदार्थं च प्रकाशयति दीपवत् ॥ ३,५.१० ॥

"दृश्यवृन्दानि यम्" द्रष्टृरूपं यम् । "यान्ति" यस्मिन् लयीभवन्तीत्यर्थः । "यः" शुद्धचित्स्वरूपः यः ।" आत्मानम्" चिन्मात्रस्वरूपं स्वात्मानम् । तथा "पदार्थं" जातौ एकवचनम् । पदार्थांश्च "दीपवत्प्रकाशयति" प्रकटीकरोति ॥ ३,५.१० ॥

 

 

 

आकाशे यः शरीरे च दृशत्स्वप्सु लतासु च ।

पांसुष्वद्रिषु वातेषु पातालेषु च संस्थितः ॥ ३,५.११ ॥

"यः" आत्मा । "आकाशे शरीरे च" । तथा "दृशत्सु" शिलासु । "अप्सु लतासु च पांसुषु" रजस्सु । "अद्रिषु" पर्वतेषु । "वातेषु पातालेषु च संस्थितः" भवति । उपलक्षणं चैतत् । तेन सर्वत्र स्थावरे स्थित इति ज्ञेयम् । स्थावरेषु स्थितत्वमात्मनः कथमस्तीति चेत् । सत्यम् । सर्वे स्थावराः तावत्विचार्यमाणाः अनिर्वाच्यतायामेव विश्राम्यन्ति । अनिर्वाच्यता एव च आत्मनः स्वरूपमिति न कश्चिद्विरोधः । अथ वा स्थावराः तावतात्मयुक्ताः निरात्मकाः वा । निरात्मकत्वे किंरूपत्वं तेषां स्यात् । सात्मकत्वे तु स्फुटमेव तेष्वात्मनः अवस्थानमिति योज्यम् ॥ ३,५.११ ॥

 

 

यः प्लावयति संरब्धं पुर्यष्टकमितस्ततः ।

येन मूकीकृता मूढाः शिलाध्यानमिवास्थिताः ॥ ३,५.१२ ॥

"यः" आत्मा । "पुर्यष्टकम्" अन्तःकरणत्रयं तन्मात्रपञ्चकमितिस्वरूपं पुर्यष्टकम् । अर्थाच्चेतनवर्गम् । "इतः ततः प्लावयति" यत्र तत्र गमयति । चेष्टां कारयतीति यावत् । "मूढाः" जडाः । "येन" सारतया स्थितेन आत्मना । "मूकीकृताः" विमर्शासमर्थाः कृताः सन्तः । "शिलाध्यानम्" शिलावत्ध्यानम् । "आस्थिताः इव" भवन्ति । अत्यन्तजडा इव भवन्तीति यावत् । मूढानामपि परमार्थतः शुद्धचिन्मात्ररूपत्वात्"इव"शब्दप्रयोगः ॥ ३,५.१२ ॥

 

 

 

व्योम येन कृतं शून्यं शैला येन घनीकृताः ।

आपो द्रुताः कृता येन दीप्तो यस्य वशाद्रविः ॥ ३,५.१३ ॥

"येन" सर्वशक्तित्वात्निस्तत्त्वरूपतामाश्रितेन येनात्मना । "व्योम" व्याप्यतया स्थितमाकाशम् । "शून्यम्" निस्तत्त्वस्वरूपम् । "कृतम्" । तथा "येन" मृच्छिलाभावं श्रितेन येनात्मना । "शैलाः" स्वव्याप्याः पर्वताः । "घनीकृताः" निबिडाः सम्पादिताः । तथा "येन" द्रवत्वभावं गतेन येनात्मना । "आपः" स्वव्याप्यानि जलानि । "द्रुताः" द्रवत्वाख्यगुणयुक्ताः । "कृताः" । तथा "रविः" व्याप्यभावेन स्थितः सूर्यः । "यस्य वशात्" दीपनशीलतेजोभावं गतस्य यस्यात्मनः वशेन । "दीप्तो" भवति । उपलक्षणं चैतत् ॥ ३,५.१३ ॥

 

 

 

प्रसरन्ति यतश्चित्राः संसारासारवृष्टयः ।

अक्षयामृतसम्पूर्णादम्भोदादिव वृष्टयः ॥ ३,५.१४ ॥

"अक्षयम्" नाशरहितम् । यत्"अमृतम्" आनन्दरसः । तेन "सम्पूर्णात्" निर्भरात् । "यतः" यस्मातात्मनः । "संसारासारवृष्टयः" संसाररूपाः धारासारवृष्टयः । "प्रसरन्ति" सञ्चरं यान्ति । का "इव" । "वृष्टयः इव" । यथा "अक्षयामृतसम्पूर्णात्" अविनाशिजलपूर्णात् । "अम्भोदात्" मेघात् । "वृष्टयः प्रसरन्ति" । तथेत्यर्थः ॥ ३,५.१४ ॥

 

 

आविर्भावतिरोभावमय्यस्त्रिभुवनोर्मयः ।

स्फुरन्त्यविरतं यस्मिन् घृणाविव मरीचयः ॥ ३,५.१५ ॥

"आविर्भावतिरोभावमय्यः" आविर्भावतिरोभावयुक्ताः । "त्रिभुवनोर्मयः" । "यस्मिन्" अर्थात्समुद्ररूपे । "यस्मिनविरतं स्फुरन्ति" । का "इव" । "मरीचयः इव" । यथा "घृणौ" सूर्ये । "मरीचयः स्फुरन्ति" । तथेत्यर्थः ॥ ३,५.१५ ॥

 

 

 

नाशरूपोऽविनाशात्मा योऽन्तःस्थः सर्ववस्तुषु ।

गुप्तो यो व्यतिरिक्तोऽपि सर्वभावेषु संस्थितः ॥ ३,५.१६ ॥

"अविनाशात्मा" यथा तथा सम्भावितस्य स्वनाशस्यापि साक्षितया स्थितत्वात्विनाशरहितः । "यः" आत्मा । "नाशरूपः" भवति । नाशभावेनापि स्थितत्वात् । अन्यथा आत्मरहितस्य नाशस्य केन रूपेण भानं स्यात् । तथा "व्यतिरिक्तः अपि" शुद्धचिन्मात्ररूपत्वेन समस्तपदार्थोत्तीर्णस्वरूपः अपि । "यः" आत्मा । "सर्वभावेषु संस्थितः" भवति । सारतया स्थितत्वात् । विरुद्धं च अविनाशिनः विनाशरूपत्वं सर्वभावव्यतिरिक्तस्य "सर्वभावेषु" संस्थितत्वम् । "यः" आत्मा कथम्भूतः । "सर्ववस्तुषु अन्तःस्थः" । "अन्तः" नियामकत्वेन स्थितः । अत एव "गुप्तः" बहिः अदृश्यः ॥ ३,५.१६ ॥

 

 

प्रकृतिव्रततिर्व्योम्नि जाता ब्रह्माण्डसत्फला ।

चित्तमूलेन्द्रियदला येन नृत्यति वायुना ॥ ३,५.१७ ॥

"प्रकृतिः" जगन्मूलकारणभूतं किमपि तत्त्वम् । सा एव "व्रततिः" लता । "येन वायुना" येनात्मरूपेण वातेन । "नृत्यति" कार्यभावेन परिणामे कर्तृत्वं भजति । अन्यथा कार्यवर्गगतजडत्वान्यथानुपपत्त्या जडरूपायाः तस्याः कार्यभावेन परिणामं प्रति कर्तृत्वायोगात् । "प्रकृतिव्रततिः" कथम्भूता । "व्योम्नि" न किञ्चिद्रूपतया आकाशस्वरूपे चिन्मात्रे । "जाता" प्रादुर्भूता । तथा "ब्रह्माण्डम्" एव "सत्फलं" यस्याः । सा । तादृशी । तथा "चित्तम्" एव "मूलं" यस्याः । सा । तादृशी । तथा "इन्द्रियाण्य्" एव "दलाणि" यस्याः । सा । तादृशी । चित्तमूलत्वेन प्रकृतेः प्रतीतिमात्रसिद्धत्वमात्रमुक्तमिति ब्रह्माण्डमूलकारणभूतायाः प्रकृतेः कथं तदन्तर्गतपुरुषचिन्मात्रमूलत्वमुक्तमिति न पर्यनुयोज्यम् ॥ ३,५.१७ ॥

 

 

 

यश्चिन्मणिः प्रकचति प्रतिदेहसमुद्गकम् ।

यस्मिन्निन्दौ स्फुरन्त्येता जगज्जालमरीचयः ॥ ३,५.१८ ॥

"चिन्मणिः" चिदेव मणिः । प्रकाशकत्वात्रत्नम् । तत्स्वरूपः "यः" आत्मा । "प्रतिदेहसमुद्गकम्" सर्वेषु देहसमुद्गेषु । "प्रकचति" जीवभावेन स्फुरति । अन्यथा देहान्तर्गतानां जीवानां किंरूपत्वं स्यात् । युक्तं च समुद्गके रत्नप्रकचनम् । "एताः" पुरः दृश्यमानाः । "जगज्जालमरीचयः" । "यस्मिनिन्दौ स्फुरन्ति" । अन्यथा किमाधारमासां भानं स्यात् । न हि निराधारस्य जगज्जालस्य स्फुरणं बुद्धिमारोहति । मरीचित्वं च जगज्जालस्य चित्प्रकाशविषयत्वेन चित्प्रकाशतानपायाज्ज्ञेयम् । अचिद्रूपो हि चिद्विषयतायोग्यो न भवति । विरुद्धत्वेन तत्सान्निध्ये तस्य सन्निधानासम्भवात् ॥ ३,५.१८ ॥

 

 

 

प्रशान्तचिद्घने यस्मिन् स्फुरन्त्यमृतवर्षिणि ।

धाराजलानि भूतानि दृष्टयस्तडितः स्फुटाः ॥ ३,५.१९ ॥

"अमृतवर्षिणि" आनन्दवर्षिणि । "प्रशान्तचिद्घने यस्मिन्" निरपेक्षशुद्धचिदाख्यमेघस्वरूपे यस्मिनात्मनि । "भूतानि" समस्ताः पदार्थाः । "धाराजलानि" । "दृष्टयः" तद्विषयाणि ज्ञानानि । "स्फुटाः" प्रकटाः । "तडितः" "स्फुरन्ति" । युक्तं च जलवर्षिणि मेघे धाराजलानां तडितां च स्फुरणम् । आनन्दवर्षित्वं चात्मनः परप्रेमास्पदत्वेन ज्ञेयम् । न हि आनन्दावर्षी परप्रेमास्पदो भवति । आनन्दवर्षिणि पुत्रादौ एव प्रेमास्पदत्वदर्शनात् । आत्मनः परप्रेमास्पदत्वं च सर्वेषु स्वसाक्षिकमेवेति नायस्तम् ॥ ३,५.१९ ॥

 

 

 

चमत्कुर्वन्ति वस्तूनि यदालोकनया मिथः ।

असज्जातमसद्येन येन सत्सत्त्वमागतम् ॥ ३,५.२० ॥

"वस्तूनि" भोक्तृभोग्यरूपाणि भावजातानि । "मिथः" अन्योऽन्यस्मिन् । "यदालोकनया" यद्दर्शनेन । यद्दर्शनभावेनेति यावत् । "चमत्कुर्वन्ति" आनन्दमनुभवन्ति । यद्दर्शनमेव तेषां चमत्कारकारणमस्तीति यावत् । मिथ्या इति सामान्याक्षेपेणोक्तम् । अयं भावः । भोक्तारः तावतिष्टानिष्टान् भोग्याननुभूय भोग्यान्तरनिरपेक्षा जायन्ते । अन्यथा तत्कालं विषयीकृतस्य भोग्यस्य भोगः समाप्तिं न व्रजेत् । तत्कालं भोग्यान्तरनिरपेक्षत्वं च तत्र तेषां चमत्कारानुभवनं विना न सिध्यति । एकस्मिन् विषये अनुभूयमानेन चमत्कारेणैव हि पुरुषः अन्येषु विषयेषु निरपेक्षो भवति । स च चमत्कारः विचार्यमाणः नैरपेक्ष्यकारणत्वातात्मस्वरूप एव भवति । परमविश्रान्तिपदस्वरूपस्य आत्मन एव नैरपेक्ष्यकारणत्वातिति युक्तमेव भोक्तुः भोग्येषु यद्दर्शनरूपं चमत्कारकारणमिति । अनुभवमात्रगम्येऽस्मिन् वस्तुनि प्रतिभावद्भिः स्वयमपि यतनीयमित्यलं प्रपञ्चेन । तथा "येन" साक्षितया स्थितेन येनात्मना । "असत्" "असत्" "जातम्" । तथा "येन" तादृशेन येनात्मना । "सत्सत्त्वमागतम्" । साक्षिणं विना सदसद्गतयोः सत्त्वासत्त्वयोः असङ्कल्पत्वात् ॥ ३,५.२० ॥

 

 

 

चलतीदमनिच्छस्य कायायो यस्य सन्निधौ ।

जडं परमरत्नस्य शान्तमात्मनि तिष्ठतः ॥ ३,५.२१ ॥

"अनिच्छस्य" इच्छाधारमते रहितत्वातिच्छारहितस्य । अत एव्"आत्मनि" शान्ते । "तिष्ठतश्" चलनेच्छाख्यक्षोभरहितं तिष्ठतः । "यस्य परमरत्नस्य सन्निधौ जडं" ग्राह्यैकरूपत्वेन अचेतनम् । "इदं कायायः" शरीराख्यम् "अयः" । "चलति" चेष्टां करोति । कायचेष्टाकारणत्वेनाभिमतस्य प्राणस्यापि आत्मशक्तियुक्तत्वेन परमार्थतः कायचलनकारणत्वायोगात् । बाह्यरत्नगतजडत्वराहित्यद्योतनार्थं "परम"पदोपादानम् । युक्तं च "अयसः" अयस्कान्ताख्यरत्नसन्निधाने चलनम् ॥ ३,५.२१ ॥

 

 

 

नियतिर्देशकालौ च चलनं स्पन्दनं क्रियाः ।

इति येन गतं सत्तां सर्वसत्त्वाभिगामिना ॥ ३,५.२२ ॥

"नियतिः" पदार्थेषु नियमादायकः शक्तिविशेषः । "देशः" पदार्थाधारभूतः वस्तुविशेषः । "कालः" सूर्यचाराद्यनुमेयः कलनामात्रस्वरूपः पदार्थपरिवर्तिकारकः कोऽपि वस्तुविशेषः । "चलनम्" सामान्यचलनम् । "स्पन्दनं" क्रियाविषया चेष्टा । "क्रिया" पाकादिरूपं कर्म । उपलक्षणं चैतत् । "इति" एतत् । "सर्वसत्त्वाभिगामिना" समस्तसत्ताविषयपदार्थव्यापकेन । "येना"त्मना । "सत्तां गतम्" । व्यापकेनैव हि व्याप्यं सत्तां लभते ॥ ३,५.२२ ॥

 

 

 

शुद्धसंविन्मयत्वाद्यः खं भवेद्व्योमवित्तया ।

पदार्थवित्तयार्थत्वमवतिष्ठत्यनिष्ठितः ॥ ३,५.२३ ॥

"शुद्धसंविन्मयत्वात्" । "शुद्धा" केनापि रूपेण निष्ठां न गता । या "संवित्" संवेदनम् । तत्स्वरूपत्वात् । "अनिष्ठितः" केनापि रूपेण निष्ठां न गतः । "यः" । "व्योमवित्तया" व्योमाहमिति संविद्युक्तत्वेन । "खं" व्योम । भवति । पदार्थाभावरूपं भवतीत्यर्थः । "पदार्थवित्तया" पदार्थोऽहमिति संविद्युक्तत्वेन । "अर्थत्वम्" पदार्थभावम् । "अवतिष्ठति" आश्रयति । उपसर्गसामर्थ्यात्"तिष्ठतेर्" आश्रयणमर्थः । घटत्वे निष्ठितः घटः पटतां न यातीति "अनिष्ठित" इत्युक्तम् ॥ ३,५.२३ ॥

 

 

सर्गान्तश्लोकेनात्ममाहात्म्यवर्णनं समापयति

कुर्वन्नपीव जगतां महतामनन्त

स्पन्दं न किञ्चन करोति कदाचनापि ।

स्वात्मन्यनस्तमयसंविदि निर्विकारे

त्यक्तोदयस्थितिमतिः स्थित एक एव ॥ ३,५.२४ ॥

 

 

"य" इति शेषः । यः आत्मा "महतां जगतामनन्तस्पन्दं कुर्वनपि इव" जगत्प्रादुर्भावान्यथानुपपत्त्या महाजगद्विषयम् "अनन्तं स्पन्दं" "कुर्वन्नपीव" । "कदाचन किञ्चन न करोति" अतिशुद्धेन कर्तृत्वाभिमानाभावात् । अन्यथा "इव"शब्दप्रयोगायोगात् । यः कथम्भूतः । "अनस्तमयसंविदि" । "अनस्तमया" यथा तथा कल्पितस्य स्वास्तमयस्यापि साक्षित्वेनावस्थानात्परमार्थतः अस्तमयरहिता । या "संवित्" । तत्स्वरूपे । तथा "निर्विकारे" रागद्वेषादिरूपेभ्यः विकारेभ्यः निष्क्रान्ते । "स्वात्मनि" स्वस्वरूपे । "स्थितः" । पुनः कथम्भूतः । "त्यक्ता उदयस्थित्योः" जगद्विषयोः उदयस्थित्योः । "मतिः" येन । सः । तादृशः । जगतः उदये स्थितौ अर्थात्संहारे च निरपेक्ष इत्यर्थः । इति शिवम् ॥ ३,५.२४ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे पञ्चमः सर्गः ॥ ३,५ ॥