मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः ४
← सर्गः ३ | मोक्षोपायटीका/उत्पत्तिप्रकरणम् भास्करकण्ठः |
सर्गः ५ → |
मोक्षोपायटीका/उत्पत्तिप्रकरणम् |
---|
ओं श्रीवाल्मीकिः भरद्वाजं प्रति कथयति
कथयत्येवमुद्दामवचनं मुनिनायके ।
श्रोतुमेकरसे जाते जने मौन इव स्थिते ॥ ३,४.१ ॥
शान्तेषु किङ्किणीजालस्वनेषु स्पन्दनं विना ।
पञ्जरान्तरहारीतशुकेष्वप्यस्तकेलिषु ॥ ३,४.२ ॥
सुविस्मृतविलासासु स्थितासु ललनास्वपि ।
चित्रभित्ताविव न्यस्ते समस्ते राजसद्मनि ॥ ३,४.३ ॥
मुहूर्तशेषमभवद्दिवसं मधुरातपम् ।
व्यवहारो रविकरैः सह तानवमाययौ ॥ ३,४.४ ॥
"मुनिनायके" श्रीवसिष्ठे । "एवम्" अनेन प्रकारेण । "उद्दामवचनम्" अर्थगूढं वचनम् । "कथयति" सति । अत एव "मौने इव स्थिते" मौनाख्यव्रतयुक्त इव स्थिते । "जने" सभाजने । "श्रोतुमेकरसे" केवलास्वादयुक्ते । "जाते" सति । तथा "स्पन्दनं विना" स्वाधारभूतस्त्र्यादिकृतं स्पन्दनं विना । स्वाधारभूतस्त्र्यादिकृतस्पन्दराहित्येनेत्यर्थः । "किङ्किणीजालस्वनेषु" सत्सु । तथा "पञ्जरान्तरेषु" स्थिताः ये "हारीतशुकाः" । तेषु "अपि अस्तकेलिषु" त्यक्तक्रीडेषु सत्सु । तथा "ललनासु सुविस्मृतविलासासु" अत्यन्तविस्मृतविलासासु । "स्थितासु" सतीषु । तथा "समस्ते राजसद्मनि" सकले राजगृहे । "चित्रभित्तौ न्यस्ते इव" चित्रलिखिते इव सति । "मधुरातपम्" मन्दातपम् । "दिवसं मुहूर्तशेषम्" घटिकाद्वयशेषम् । "अभवत्" । तथा "व्यवहारः" लोकव्यवहारः । "रविकरैः सह तानवमाययौ" ॥ ३,४.१४ ॥
अन्यत्किं तदाभूदित्यपेक्षायामाह
ववुरुत्फुल्लकमलप्रकरोन्मदमांसलाः ।
वायवो मधुरस्पन्दं श्रवणार्थमिवागताः ॥ ३,४.५ ॥
"वायवः मधुरस्पन्दम्" कोमलस्पन्दम् । "ववुः" वान्ति स्म । कथम्भूताः । "उत्फुल्लाः" ये "कमलप्रकराः" कमलसमूहाः । तेषु "उन्मदाः" सङ्कोचकारित्वातुद्गतरूपाः च ते "मांसलाश्" च । तादृशाः "वायवः" । कथम्भूता "इव" । "श्रवणार्थम्" मुनिवाक्श्रवणार्थम् । "आगता इव" । योऽपि श्रवणार्थमागच्छति सोऽपि मधुरस्पन्दमेव वाति ॥ ३,४.५ ॥
श्रुतं चिन्तयितुं भानुरिवाहोरचनाभ्रमम् ।
तत्याजैकान्तमगमच्छून्यमस्तगिरेस्तटम् ॥ ३,४.६ ॥
"भानुः" सूर्यः । "अहोरचनाभ्रमम्" दिननिर्माणार्थं भ्रमणम् । "तत्याज" त्यक्तवान् । तथा "शून्यं" । अत एव "एकान्तम्" विजनम् । "अस्तगिरेः तटमगमत्" गतवान् । किं कर्तुम् "इव" । "श्रुतम्" श्रवणविषयीकृतं मुनिवाक्कदम्बकम् । "चिन्तयितुमिव" मननविषयीकर्तुमिव । योऽपि हि श्रुतं किञ्चिदुपदेशादिकं चिन्तयितुमिच्छति सोऽपि क्रियारूपं भ्रमं त्यजति । एकान्तं च गच्छति ॥ ३,४.६ ॥
उत्तस्थुर्मिहिकारम्भश्यामता वनभूमिषु ।
विज्ञानश्रवणादन्तः शीतलाः शान्तता इव ॥ ३,४.७ ॥
"वनभूमिषु मिहिकारम्भश्यामताः" नीहारारम्भश्यामताः । "उत्तस्थुः" प्रादुर्भूताः । दिनावसाने हि मिहिकाः उत्तिष्ठन्ति । "मिहिकारम्भश्यामताः" का "इव" । "शान्तताः इव" क्षोभराहित्यानीव । यथा "शीतलाः" सन्तापनाशकत्वेन शीतलस्वभावाः । "शान्तताः" । "विज्ञानश्रवणात्" श्रीवसिष्ठोक्तविज्ञानश्रवणेन । "अन्तः" श्रोतृजनमनस्सु । "उत्तस्थुः" । तथेत्यर्थः ॥ ३,४.७ ॥
बभूवुरल्पसञ्चारा जना दशसु दिक्ष्वपि ।
सावधानतया श्रोतुमिव सन्त्यक्तचेष्टिताः ॥ ३,४.८ ॥
दिनावसाने स्वभावसिद्धं "जनानामल्पसञ्चारित्वम्" श्रवणार्थं कृतेन चेष्टितत्यागेनोत्प्रेक्षितम् ॥ ३,४.८ ॥
छाया दीर्घत्वमाजग्मुर्वासिष्ठं वर्णनक्रमम् ।
इव श्रोतुमशेषाणां वस्तूनां दीर्घकन्धराः ॥ ३,४.९ ॥
सायंसमये हि "छायाः दीर्घीभवन्ति" । योऽपि किञ्चिच्छ्रोतुमिच्छति सोऽपि "दीर्घकन्धरो" भवतीति स्वभावद्वयकथनम् ॥ ३,४.९ ॥
प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् ।
देव स्नानद्विजार्चासु कालो ह्यतिगतो भृशम् ॥ ३,४.१० ॥
"प्रह्वो भूत्वा" नम्नो भूत्वा । किम् "आहे"ति कर्मापेक्षायामुत्तरार्धं कर्मत्वेन कथयति "देवे"ति । "हि" निश्चये ॥ ३,४.१० ॥
श्रीवसिष्ठकृतं वाक्संहरणं कथयति
ततो वसिष्ठो भगवान् संहृत्य मधुरां गिरम् ।
अद्य तावन्महाराज श्रुतमेतावदस्तु वः ॥ ३,४.११ ॥
प्रातरन्यद्वदिष्याम इत्युक्त्वा मौनवानभूत् ।
इत्याकर्ण्यैवमस्तूक्त्वा भूपतिर्भूतिवृद्धये ॥ ३,४.१२ ॥
पुष्पार्घ्यपाद्यसम्मानदक्षिणादानपूजया ।
स देवर्षिमुनीन् विप्रान् पूजयामास सादरम् ॥ ३,४.१३ ॥
श्रोतॄन् श्रवणोत्सुकान् ज्ञात्वा आह "प्रातर्" इति । "आकर्ण्यैव" । न तु प्रतिवादं कृत्वा । "सः" दशरथः ॥ ३,४.१११३ ॥
अथोत्तस्थौ सभा सर्वा सराजमुनिमण्डला ।
कुण्डलाकीर्णरश्म्योघपरिवेशावृतानना ॥ ३,४.१४ ॥
"सभा" जनसमूहः । सभां विशिनष्टि । "कुण्डले"ति । "कुण्डलानामाकीर्णः" समन्तात्विसारी यः "रश्म्योघः" किरणसमूहः । तस्य यः "परिवेशः" मण्डलम् । तेन्"आवृतानि" जनमुखानि । सभासमुखानि यस्याम् । सा ॥ ३,४.१४ ॥
परस्परांससङ्घट्टरणत्केयूरकङ्कणा ।
हारभाराहतस्वर्णपट्टाभोरस्तटान्तरा ॥ ३,४.१५ ॥
"परस्परमंससङ्घट्टाः" । तेन मिलन्तः । अत एव "रणन्तः" "केयूराः कङ्कणानि" च यस्याम् । सा । "हारभारैः आहतानि सुवर्णपट्टाभानि" "उरस्तटान्तराणि" उरस्तटमध्यानि यस्याम् । सा ॥ ३,४.१५ ॥
शेखरोत्सर्गविश्रान्तप्रबुद्धमधुपव्रजैः ।
सघुङ्घुमशिरोभागा पतद्भिरिव मूर्धजैः ॥ ३,४.१६ ॥
"शेखरेषु" सभासदपुष्पशेखरेषु । "उत्सर्गेण" गन्धोद्गिरणेन । "विश्रान्ताः" विश्रान्तियुक्ताः । तथा "प्रबुद्धाः" गन्धघ्राणने चतुराः । ये "मधुपाः" भ्रमराः । तेषां "व्रजैः" समूहैः । "सघुङ्घुमशिरोभागा" घुङ्घुमशब्दयुक्तजनशिरोदेशयुक्ता । "मधुपव्रजैः" कैर्"इव" । "पतद्भिः" पतनशीलैः । "मूर्धजैः" केशैर्"इव" कृष्णवर्णत्वात् ॥ ३,४.१६ ॥
काञ्चनाभरणोद्द्योतकनकीकृतदिङ्मुखाः ।
बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः ॥ ३,४.१७ ॥
जग्मुर्नभश्चरा व्योम भूचरा भूमिमण्डलम् ।
चक्रुर्दिनसमाचारं स्वं सर्वे स्वेषु सद्मसु ॥ ३,४.१८ ॥
"काञ्चनाभरणानां" यः "उद्द्योतः" प्रकाशः । तेन "कनकीकृतानि" कनकरूपाणि कृतानि । "दिङ्मुखानि" यैः । ते तादृशाः । तथा "बुद्धिस्थः" बुद्धौ स्फुरणशीलः । न तु विस्मारितः । यः "मुनिवागर्थः" । तेन "संशान्ताः" स्वविषयान् प्रति अनौन्मुख्यं गताः । "इन्द्रियवृत्तयः" इन्द्रियव्यापाराः ये । ते तादृशाः । "नभश्चराः" आकाशचारिणः । "व्योम जग्मुः" । "भूचराः भूमिमण्डलं जग्मुः" । ततः "सर्वे" समस्ताः नभश्चरादयः । "स्वेषु सद्मसु" निजेषु गृहेषु । "स्वं दिनसमाचारं चक्रुः" ॥ ३,४.१७१८ ॥
एतस्मिन्नन्तरे श्यामा यामिनी समदृश्यत ।
जनसङ्घातनिर्मुक्ते गृहे बालाङ्गना यथा ॥ ३,४.१९ ॥
"एतस्मिनन्तरे" अस्मिन् समये । "श्यामा" रात्रिः । "यामिनी" यामयुक्ता । "जनसङ्घातनिर्मुक्ते" जनसमूहत्यक्ते ॥ ३,४.१९ ॥
देशान्तरं भासयितुं ययौ दिवसनायकः ।
सर्वत्रालोककर्तृत्वमेव सात्पुरुषं व्रतम् ॥ ३,४.२० ॥
"आलोककर्तृत्वम्" आलोककर्तृभावः । "सात्पुरुषं" सत्पुरुषसम्बन्धिनम् ॥ ३,४.२० ॥
उदभूदभितः सन्ध्या तारानिकरधारिणी ।
उत्फुल्लकिंशुकवना वसन्तश्रीरिवोदिता ॥ ३,४.२१ ॥
"उदभूत्" प्रादुर्भूता ॥ ३,४.२१ ॥
चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे ।
निलिल्यिरे खगाश्चित्ते तदण्डवृत्तयो यथा ॥ ३,४.२२ ॥
"खगाः" पक्षिणः । "निलिल्यिरे" निलीनाः । कुत्र । "चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे" । "चूताश्" च "नीपाश्" च "कदम्बाग्राणि" च "ग्रामचैत्यानि" च "गृहोदराणि" च । तत्र । "खगाः" काः "यथा" । "ताः" "वृत्तयः" "यथा" । "यथा ताः वृत्तयः" श्रावकजनमनोव्यापाराः । "चित्ते निलिल्यिरे" । तथेत्यर्थः ॥ ३,४.२२ ॥
सन्ध्यारागाविर्भावं कथयति
भानोर्भासा भूषितैर्मेघलेशैः
किञ्चित्किञ्चित्कुङ्कुमच्छाययेव ।
पाश्चात्योऽद्रिः पीतवासास्तमोऽब्धेस्
ताराहारश्रीयुतः खं समेतः ॥ ३,४.२३ ॥
"कुङ्कुमच्छायया" "इव" कुङ्कुमरचनासदृशया । "भानोः भासा" सूर्यस्य भासा । "किञ्चित्किञ्चित्भूषितैः" । पीततां नीतैरिति यावत् ।" मेघलेशैः" मेघखण्डैः । उपलक्षितः "पाश्चात्यः" "अद्रिः" अस्तशैलः । "तमोऽब्धेः" तमःाख्यस्य समुद्रस्य । "पीतवासाः" श्रीनारायणः आसीत् । "पीतवासोयुक्तश्" चासीत् । भानोः भासा भूषितानां मेघलेशानामेव पीतवासोरूपत्वात् । अब्धेश्च पीतवाससा श्रीनारायणेन युक्तत्वं युक्तमेव । "पाश्चात्यः अद्रिः" कथम्भूतः । "ताराहारश्रीयुतः" । "तारा" एव "हारः" यस्य । सः "ताराहारः" । "श्रिया" शोभया । युतः । "श्रीयुतः" । ताराहारश्चासौ श्रीयुतश्च "ताराहारश्रीयुतः" । पुनः कथम्भूतः । "खम्" आकाशम् । "समेतः" गतः । आकाशव्यापीत्यर्थः । अन्यथा ताराहारत्वमसम्भवि स्यात् । श्रीनारायणस्य च ताराहारयुक्तत्वं लक्ष्मीयुक्तत्वं बल्याक्रमणेन खसमेतत्वं च स्थितमेव ॥ ३,४.२३ ॥
सन्ध्याशान्तिपूर्वं तमःसमुत्थानं कथयति
पूजामादाय सन्ध्यायां प्रयातायां यथागतम् ।
अन्धकाराः समुत्तस्थुर्वेतालवलया इव ॥ ३,४.२४ ॥
स्पष्टम् ॥ ३,४.२४ ॥
अवश्यायकणस्पन्दी हेलाविधुतपल्लवः ।
कोमलः कुमुदाशंसी ववावाशीतलोऽनिलः ॥ ३,४.२५ ॥
"कुमुदाशंसी" कुमुदगन्धेनेति भावः ॥ ३,४.२५ ॥
परमान्ध्यमुपाजग्मुर्दिशोऽपि स्फुटतारकाः ।
लम्बदीर्घतमःकेश्यो विधवा इव योषितः ॥ ३,४.२६ ॥
"लम्बानि दीर्घतमांस्य्" एव "केशाः" यासाम् । ताः ॥ ३,४.२६ ॥
आययौ भुवनं तेजःक्षीरपूरेण पूरयन् ।
रसायनमयाकारः शशिक्षीरार्णवो नभः ॥ ३,४.२७ ॥
"तेजः" एव "क्षीरपूरः" । तेन । "रसायनमयाकारः" अमृतमयाकारः ॥ ३,४.२७ ॥
जग्मुस्तिमिरसङ्घाताः पलाय्य क्वाप्यदृश्यताम् ।
श्रुतज्ञानगिरश्चित्तान्महीपानामिवाज्ञताः ॥ ३,४.२८ ॥
"श्रुताः ज्ञानगिरः" वसिष्ठोक्ताः ज्ञानवाचः येन । तत् । तादृशात् । "महीपानां" दशरथप्रभृतीनाम् । "अज्ञताः" मौर्ख्याणि ॥ ३,४.२८ ॥
ऋषयो भूमिपालाश्च मुनयो ब्राह्मणास्तथा ।
चेतसीव विचित्रार्थाः स्वास्पदेषु विशश्रमुः ॥ ३,४.२९ ॥
"विचित्रार्थाः" श्रीवसिष्ठगिरां सम्बन्धिनो नानाविधा अर्थाः । "स्वास्पदेषु" स्वगृहेषु । "विशश्रमुः" विश्रान्तिं चक्रुः ॥ ३,४.२९ ॥
यमकायोपमा श्यामा ययौ तिमिरमांसला ।
आययौ मिहिकाकारा तत्र तेषामुषा शनैः ॥ ३,४.३० ॥
"यमकायोपमा" यमशरीरसदृशी । "उषा" । "तेषाम्" ऋषीणां भूमिपालानां च ॥ ३,४.३० ॥
अलक्ष्यतामुपाजग्मुस्तारा नभसि भासुराः ।
प्रभातपवनेनेव हृताः कुङ्कुमवृष्टयः ॥ ३,४.३१ ॥
स्पष्टम् ॥ ३,४.३१ ॥
दृश्यतामाजगामार्कप्रभोन्मीलितलोचना ।
विवेकवृत्तिर्महतां मनसीव नवोद्गता ॥ ३,४.३२ ॥
"विवेकवृत्तिः" विवेकाख्यो मनोव्यापारः ॥ ३,४.३२ ॥
सभां पुनरुपाजग्मुर्नभश्चरमहीचराः ।
ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः ॥ ३,४.३३ ॥
"नभश्चरमहीचराः ह्यस्तनेन क्रमेण एव सभामाजग्मुर्" इति सम्बन्धः ॥ ३,४.३३ ॥
सा पूर्वसन्निवेशेन विवेश विपुला सभा ।
बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी ॥ ३,४.३४ ॥
"पूर्वसन्निवेशेन" पूर्वरचनया । "अस्पन्दिताकारत्वं" च "सभायाः" श्रीवसिष्ठोपदेशश्रवणकुतूहलेन ज्ञेयम् ॥ ३,४.३४ ॥
अथ प्रसङ्गमासाद्य रामो मधुरया गिरा ।
उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम् ॥ ३,४.३५ ॥
"प्रसङ्गमासाद्य" । अन्यथा धार्ष्ट्याख्यदोषप्रसङ्गः स्यादिति भावः ॥ ३,४.३५ ॥
किमुवाचेत्यपेक्षायामाह
भगवन्मनसो रूपं कीदृशं वद मे स्फुटम् ।
यस्मात्तेनेयमखिला तन्यते दोषमञ्जरी ॥ ३,४.३६ ॥
किं तव मनोरूपकथनेनेत्य् । अत्राह "यस्माद्" इति । "तेन" मनसा । "इयम्" सृष्टिरूपा ॥ ३,४.३६ ॥
श्रीवसिष्ठः उत्तरं कथयति
रामास्य मनसो रूपं न किञ्चिदपि दृश्यते ।
नाममात्रादृते व्योम्नो यथा शून्यजडाकृतेः ॥ ३,४.३७ ॥
हे "रामा"स्माभिः "अस्य मनसः नाममात्रादृते" नाममात्रव्यतिरेकेण । "किञ्चिदपि रूपं न दृश्यते" । नाममात्रमेव मनसः अस्ति न रूपमिति भावः । "अस्य मनसः" कथम्भूतस्य । "शून्या" विचारासहत्वेन न किञ्चिद्रूपा । "जडा" साक्षिग्रहणापेक्षसिद्धिकत्वेन जाड्यगुणयुक्ता । "आकृतिः" स्वरूपं यस्य । तत् । तादृशस्य कस्य "यथा" । "व्योम्नः यथा" । यथा व्योम शून्यजडाकृति भवति । तथेत्यर्थः ॥ ३,४.३७ ॥
एतदेव दृढीकरोति
न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
सर्वत्रैव स्थितं चैतद्विद्धि राम यथा नभः ॥ ३,४.३८ ॥
"मनः बाह्ये सद्रूपं न विद्यते" बाह्येन्द्रियैः अदृश्यमानत्वात् । "हृदयेऽपि" हृदयदेशेऽपि । "सद्रूपं न विद्यते" । न हि हृदयदेशे मनो नाम किञ्चिल्लभ्यते । हे "राम" । त्वम् । "एतत्" मनः । "सर्वत्रैव" बाह्ये हृदये च । "स्थितं विद्धि" जानीहि । सङ्कल्पाख्यस्य तत्कार्यस्य बाह्ये हृदये च स्फुरमाणत्वात् । सङ्कल्पोऽपि हि बाह्यं घटादिकं हृदयस्थं सुखादिकं च विषयीकरोति । "मनः" किं "यथा" । "नभो यथा" । यथा नभः "सर्वत्रैव स्थितं" भवति । तथेत्यर्थः ॥ ३,४.३८ ॥
ननु तथाप्यस्य स्वरूपं वक्तव्यम् । न हि सर्वथा असतः सर्वत्र स्थितत्वं युक्तमित्य् । अत्राह
इदमस्यासदुत्पन्नं मृगतृष्णाम्बुसन्निभम् ।
रूपं तु शृणु सङ्क्षेपाद्द्वितीयेन्दुभ्रमोपमम् ॥ ३,४.३९ ॥
त्वम् । "अस्य" मनसः । "असतुत्पन्नम्" मिथ्या प्रादुर्भूतम् । अत एव "मृगतृष्णाम्बुसन्निभम्" । तथा "द्वितीयेन्दुभ्रमोपमम्" । "इदम्" अनुभूयमानम् । "रूपं" स्वरूपम् । "सङ्क्षेपात्शृणु" ॥ ३,४.३९ ॥
मनःस्वरूपमेव कथयति
साधो यदेतदर्थस्य प्रतिभानं प्रथां गतम् ।
सतो वाप्यसतो वापि तन्मनो विद्धि नेतरत् ॥ ३,४.४० ॥
हे "साधो" । "सतः" "असतः वा अर्थस्य" पदार्थस्य । "यतेतत्प्रतिभानम्" स्फुरणम् । पदार्थतया अनुसन्धानमिति यावत् । "प्रथां" दार्ढ्यम् । "गतं" भवति । त्वं "तत्मनः विद्धि" । "इतरत्" तार्किकादिभिः विकल्पितं परमाण्वादिरूपम् । "मनः" "न" भवति । "सतः असतो वे"ति वादिभेदमाश्रित्योक्तम् ॥ ३,४.४० ॥
पुनः पुनः एतदेव कथयति
यदर्थप्रतिभानं तन्मन इत्यभिधीयते ।
अन्यन्न किञ्चिदप्यस्ति मनो नाम कदाचन ॥ ३,४.४१ ॥
"अर्थप्रतिभानम्" अर्थेष्वर्थतास्फुरणम् ॥ ३,४.४१ ॥
सङ्कल्पनं मनो विद्धि सङ्कल्पात्तन्न भिद्यते ।
यथा द्रवत्वात्सलिलं तथा स्पन्दो यथानिलात् ॥ ३,४.४२ ॥
स्पष्टम् ॥ ३,४.४२ ॥
यत्र सङ्कल्पनं तत्र तन्मनोऽङ्ग तथा स्थितम् ।
सङ्कल्पमनसी भिन्ने न कदाचन केचन ॥ ३,४.४३ ॥
"यत्र" यस्यामवस्थायाम् । "सङ्कल्पनं" भवति । हे "अङ्ग" । "तत्र" तस्यामवस्थायाम् । "तत्" प्रसिद्धम् । "मनः" "तथा" तेन सङ्कल्पनाख्येन रूपेण । "स्थितं" भवति । "केचन" अनिर्वाच्ये । "सङ्कल्पमनसी" । "कदाचन" जातु । "भिन्ने न" भवतः । एकस्वरूपत्वात् ॥ ३,४.४३ ॥
सत्यमस्त्यथवासत्यं यदर्थप्रतिभासनम् ।
तावन्मात्रं मनो विद्धि तद्ब्रह्मैष पितामहः ॥ ३,४.४४ ॥
"सत्यमथवा असत्यं यतर्थप्रतिभासनम्" अर्थस्फुरणम् । "अस्ति" । त्वम् । "तावन्मात्रं तत्" अर्थप्रतिभासनम् । "मनः" चित्तम् । "विद्धि" जानीहि । "तत्" अर्थप्रतिभासनरूपं मनः । "एषः" शास्त्रेषु कथितः । "पितामहः" पितामहेत्यपरपर्यायः "ब्रह्मा" भवति । सर्वसृष्टिकारणत्वात् । सृष्टिकारणस्यैव शास्त्रेष्वपि ब्रह्मत्वकथनात् ॥ ३,४.४४ ॥
स्वप्नादौ सर्वैरनुभूयमानातिवाहिकदेहरूपत्वं मनसः कथयति
आतिवाहिकदेहात्मा मन इत्यभिधीयते ।
आधिभौतिकबुद्धिस्तु सदा धीस्तु चिरस्थितिः ॥ ३,४.४५ ॥
पण्डितैः "आतिवाहिकस्य" क्षणान्तरे वर्षप्राप्यदेशप्राप्त्या स्फुटमतिवहनशीलस्य । "देहस्या"र्थात्स्वप्नसङ्कल्पादौ प्रतिभासमानस्य देहस्य्"आत्मा" स्वरूपम् । "मन इत्यभिधीयते" । न तु तार्किकाभिमतः परमाणुः । न हि तस्य प्रोक्तस्वरूपमतिवहनं युज्यते । तदारब्धे स्थूलदेहे तददर्शनात् । एतत्प्रसङ्गेन बुद्धिदार्ढ्यस्याधिभौतिकदेहत्वं साधयति "आधिभौतिके"ति । "तु" व्यतिरेके । पण्डितैः "आधिभौतिकबुद्धिः" आधिभौतिकदेहाकारा बुद्धिः । आधिभौतिकदेहस्वरूपमिति यावत् । "चिरस्थितिः धीः" इति दार्ढ्यं गता आतिवाहिकदेहविषया बुद्धिरिति । "सदाभिधीयते" । मनःस्वरूपातिवाहिकदेहविषया बुद्धिरेव हि दार्ढ्यं गताधिभौतिकभावेन स्फुरति । न तु मांसमयः आधिभौतिको नाम कश्चित्पृथगस्ति यथा तथा सतोऽपि तस्य बुद्धिविषयत्वं विना असत्कल्पत्वात् । बुद्धिविषयत्वे तु बुद्धिरूपत्वानपायात् । विषयो हि स एवोच्यते यः विषय्यग्रस्थ इव भासते । अन्यथा पीतद्रव्यस्यापि नीलज्ञानविषयत्वापातात् । द्वितीयः "तु"शब्दः पादपूरणार्थः ॥ ३,४.४५ ॥
दृश्यत्वसाधनार्थं मनसः दृश्यपर्यायत्वं कथयति
अविद्या संसृतिश्चित्तं मनो बन्धो मलं तमः ।
इति पर्यायनामानि दृश्यस्य विदुरुत्तमाः ॥ ३,४.४६ ॥
अतः मनः दृश्यमेवान्यथा दृश्यपर्यायत्वमस्य न स्यादिति ॥ ३,४.४६ ॥
ननु पदार्थग्राहकतया भासमानस्य मनसः कथं दृश्यपर्यायत्वं युक्तमित्य् । अत्राह
न हि दृश्यादृते किञ्चिन्मनसो रूपमस्ति हि ।
दृश्यं चोत्पन्नमेवैतन्नेति वक्ष्याम्यहं पुनः ॥ ३,४.४७ ॥
"हि" यस्मात्कारणात् । "दृश्यादृते किञ्चित्" दृश्यव्यतिरिक्तं किञ्चित् । "मनसः रूपं" । "हि" निश्चयेन । "नास्ति" । अतः मनसः दृश्यपर्यायत्वं युक्तमिति भावः । ननु ततोऽपि किमित्य् । अत्राह "दृश्यं चे"ति । "एतत्दृश्यं च उत्पन्नं न" भवति । पूर्वमुक्तत्वात् । अतः मनः अपि अनुत्पन्नमेव भवतीति भावः । ननु दृश्यानुत्पन्नत्वे मम पूर्वं निश्चयो न जात इत्यत्राह्"एती"ति । "अहम्" "इति" एतत्दृश्यानुत्पन्नत्वम् । "पुनः वक्ष्यामि" । दुर्बोधत्वादिति भावः ॥ ३,४.४७ ॥
दृश्यानुत्पन्नत्वमेव कथयति
यथा कमलबीजेऽन्तः स्थिता कमलमञ्जरी ।
महाचित्परमाण्वन्तस्तथा दृश्यं जगत्स्थितम् ॥ ३,४.४८ ॥
"यथा कमलमञ्जरी कमलबीजे" पद्माक्षे । "अन्तः स्थिता" भवति । अन्यथा अग्रे निर्गमासम्भवप्रसङ्गात् । "तथा दृश्यं जगत्" दृशिक्रियाविषयीभूतं जगत् । "महाचित्परमाण्वन्तः" । "महाचित्" अपरिच्छिन्ना चित् । सा एवातिसूक्ष्मत्वात्"परमाणुः" । तस्य्"आन्तः" मध्ये । "स्थितं" भवति । अन्यथा कुतः अस्याः निर्गमः स्यातिति भावः । अतो दृश्यस्य महाचितः पृथक्त्वाभावेनानुत्पन्नत्वमेवेति परमो भावः ॥ ३,४.४८ ॥
एतदेव पुनः पुनः कथयति
प्रकाशस्य यथालोको यथा वातस्य चोपनम् ।
यथा द्रवत्वं पयसो दृश्यत्वं द्रष्टुरीदृशम् ॥ ३,४.४९ ॥
"आलोकः" अर्थप्राकट्यहेतुः गुणविशेषः । "चोपनं" स्पन्दः । द्रष्टृव्यतिरिक्तदृश्यस्य सत्ता नास्तीति भावः ॥ ३,४.४९ ॥
अङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् ।
भित्तिर्यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः ॥ ३,४.५० ॥
स्पष्टम् ॥ ३,४.५० ॥
अनेन न्यायेन द्रष्टुः दृश्यमयत्वं यत्सिद्धं तदपि मलत्वेनोन्मृज्यतया प्रतिजानीते
एवं द्रष्टरि दृश्यत्वमनन्यदिव यत्स्थितम् ।
तदप्युन्मार्जयाम्याशु त्वच्चित्तादर्शतो मलम् ॥ ३,४.५१ ॥
"एवं" सति । "द्रष्टरि" दृशिक्रियाकर्तरि । "अनन्यत्" उक्तन्यायेनाभिन्नम् । "यत्दृश्यत्वम्" दृशिक्रियाविषयत्वम् । "स्थितमिव" भवति । अहम् । "मलम्" मलभावेन स्थितम् । "ततपि" द्रष्टुरभिन्नं दृश्यत्वमपि । "त्वच्चित्तादर्शतः" त्वच्चित्तदर्पणात् । "उन्मार्जयामि" । येन सर्वथा त्वन्मनसि दृश्यस्पर्शो न स्याद् । असत्त्वेनापि भासमानं दृश्यं लेशतो दुःखदमेव भवतीति भावः । ननु द्रष्टुरभिन्नस्य दृश्यत्वस्य कथं मलत्वम् । व्यतिरिक्तस्यैव मलत्वादिति चेत् । सत्यम् । द्रष्टा स्वाभिन्नत्वेनापि निश्चितं दृश्यत्वं स्वभिन्नत्वमपि आपादयति । स्वभिन्नत्वाख्यं प्रतियोगिनं विना स्वाभिन्नत्वस्यासिद्धेरिति स्वभिन्नत्वापादकस्य दृश्यस्य मलत्वं स्फुटमेवेति न कोऽपि विरोधः ॥ ३,४.५१ ॥
ननु किमर्थं द्रष्टुरनन्यत्वेन स्थितस्य मलरूपस्य अपि दृश्यत्वस्योन्मार्जनं करोषीत्य् । अत्राह
यद्द्रष्टुरस्याद्रष्टृत्वं दृश्याभावे भवेद्बलात् ।
तद्विद्धि केवलीभावमत एवासतः सतः ॥ ३,४.५२ ॥
"अस्य" आत्मत्वेन स्थितस्य । "द्रष्टुः" दृशिक्रियाकर्तुः । "दृश्याभावे" सति । "बलात्" बलेन । स्वप्रयत्नं विनेति यावत् । "यतद्रष्टृत्वं" "भवेत्" । न हि दृश्यं विना द्रष्टुः द्रष्टृत्वं नाम किञ्चिदस्ति । शक्तिभावेन स्थितस्यापि तस्य स्वरूपत्वानपायात् । त्वम् । "तत्" अद्रष्टृत्वम् । "केवलीभावम्" मुक्तिम् । "विद्धि" जानीहि । द्रष्टुः दृश्यानौन्मुख्यमात्रस्यैव मुक्तित्वात् । "द्रष्टुः" कथम्भूतस्य । "अत एवासतः" "सतः" । द्रष्टृत्वापेक्षया "असतः" । केवलीभावापेक्षया "सतः" । न ह्यसतः केवलीभावः युक्तः । तथा चानिर्वाच्यस्येत्यर्थः । अतः केवलीभावसिद्धये सर्वथा दृश्योन्मार्जनमेव कार्यमिति भावः ॥ ३,४.५२ ॥
ननु दृश्याभावप्रभावात्सिद्धेऽपि अद्रष्टृत्वे केवलीभावो न सिध्यति । दृश्यविषयस्य रागादेः सुषुप्तिवत्वासनाभावेन स्थितत्वादित्य् । अत्राह
तत्तामुपगते भावे रागद्वेषादिवासना ।
शाम्यत्यस्पन्दिते वाते स्पन्दसङ्क्षुब्धता यथा ॥ ३,४.५३ ॥
"भावे" अन्तरे तत्त्वे । "तत्ताम्" दृश्याभावकृतामद्रष्टृताम् । "उपगते" सति । "रागद्वेषादिवासना" पूर्वं भातदृश्यविषयरागद्वेषादिसंस्कारः । "शाम्यति" शान्तिं व्रजति । आश्रयविषययोः अभावात् । सुषुप्तौ तु आश्रयविषययोः वासनाभावेन स्थितत्वात्तदनुगतयोः रागद्वेषादिकयोरपि वासनाभावेनावस्थानमस्ति । न हि सुषुप्तौ द्रष्टृदृश्ययोः समूलं नाशः अस्ति । ततः उत्थितस्य पुनः तदास्थाभावप्रसङ्गात् । न हि समूलं नष्टे आस्था युक्ता । दृश्याभावे निश्चितानां तु भासमानेऽपि दृश्ये कदाचिदास्था न विद्यते । अत्र स्वमन एव साक्षिकमित्यलं प्रपञ्चेन । "रागद्वेषादिवासना" का "यथा" । "स्पन्दसङ्क्षुब्धता यथा" । यथा "वाते अस्पन्दिते" सति । वातकृता "स्पन्दसङ्क्षुब्धता" स्पन्दरूपा सङ्क्षुब्धता । नश्यति । तथेत्यर्थः । अतः दृश्याभावकृतस्याद्रष्टृत्वस्य केवलीभावत्वं युक्तमेवेति भावः ॥ ३,४.५३ ॥
एतदेव अतिदुर्बोधत्वात्पुनः पुनः कथयति
असम्भवति सर्वस्मिन् दिग्भूम्याकाशरूपिणि ।
प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ॥ ३,४.५४ ॥
त्रिजगत्त्वमहं चेति दृश्येऽसत्तामुपागते ।
द्रष्टुः स्यात्केवलीभावस्तादृशो विमलात्मनः ॥ ३,४.५५ ॥
"दिग्भूम्याकाशरूपिणि" दिग्भूम्याकाशस्वरूपे । "प्रकाश्ये" प्रकाशनीये वस्तुजाते । "असम्भवति" सति । सम्भवक्रियाकर्तृत्वमभजति सति । "प्रकाशस्य" सूर्यप्रकाशस्य । "यादृशममलं" शुद्धम् । इन्द्रियातीतमिति यावत् । "रूपं भवेत्" । न हि सूर्यमण्डलात्निष्क्रान्तः भित्तौ अपतितः प्रकाशः नेत्रगम्यः भवति । "त्रिजगत्त्वमहं चेति दृश्ये असत्ताम्" अभावम् । "उपागते" सति । "द्रष्टुः" दृश्यप्रकाशकतया स्थितस्य द्रष्टुः । "तादृशः केवलीभावः" अमलरूपत्वम् । "स्यात्" भवेत् । "द्रष्टुः" कथम्भूतस्य । "अमलात्मनः" चेत्यमलरूषितचिन्मात्रस्वरूपस्यान्यथा केवलीभावापरपर्यायः निर्मलीभावः अयुक्तः स्यात् ॥ ३,४.५४५५ ॥
अनन्ताखिलशैलादिप्रतिबिम्बे हि यादृशी ।
स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी ॥ ३,४.५६ ॥
अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे ।
स्यात्तादृशी केवलता स्थिते द्रष्टर्यवीक्षके ॥ ३,४.५७ ॥
दार्ष्टान्तिकगतं "प्रशान्ते" इति पदं दृष्टान्तेऽपि योजनीयम् । तेनायमर्थः । "हि" निश्चये । "अनन्ताः" ये "अखिलाः शैलादयः" । तद्रूपे "प्रतिबिम्बे प्रशान्ते" सति । दार्ष्टान्तिकतया गृहीते "दर्पणे" प्रतिबिम्बभावमभजति सति इति यावत् । "दर्पणे केवलात्मस्वरूपिणी" केवलदर्पणाख्यस्वरूपमयी । "यादृशी दर्पणता स्यात्" । "अहं त्वं जगदित्यादौ दृश्यसम्भ्रमे" दृश्याकारे सम्भ्रमे । दृश्ये इति यावत् । "प्रशान्ते" सति । ततः "अवीक्षके" दृशिक्रियामकुर्वति । "स्थिते द्रष्टरि" । "तादृशी केवलता स्यात्" । यथा प्रतिबिम्बाभावे शुद्धं दर्पणमात्रमेव तिष्ठति तथा दृश्याभावे शुद्धः द्रष्टा एव तिष्ठतीति भावः ॥ ३,४.५६५७ ॥
दृश्याभावासम्भवं मन्यमानः श्रीरामः पृच्छति
सच्चेन्न शाम्यतीदं वा नाभावो विद्यते सतः ।
असत्तां च न विद्मोऽस्मिन् दृश्ये दोषप्रदायिनि ॥ ३,४.५८ ॥
"वा"शब्दः यतःशब्दार्थे । "इदं" दृश्यम् । "सत्" सत्ताभाक्"चेत्" । "चेत्" यदि भवति । तदा "न शाम्यति" । यतः "सतः" सत्ताभजतः । "अभावः न विद्यते" । स्वरूपहानिप्रसङ्गात् । अन्यथा वह्नेरपि दाहकत्वहानिः स्यात् । ननु तर्हि असदेव भवत्वित्य् । अत्राह "असत्तां चे"ति । "दोषप्रदायिनि" रागादिस्वरूपदोषप्रदायिनि । असतः दोषप्रदायित्वं न युक्तं वन्ध्यासुतस्यापि तत्त्वापत्तेरिति भावः ॥ ३,४.५८ ॥
फलितमाह
तस्मात्कथमियं शाम्येद्ब्रह्मन् दृश्यविषूचिका ।
नानोद्भवभ्रमकरी दुःखसन्ततिदायिनी ॥ ३,४.५९ ॥
"नानोद्भवः" चित्रोत्पत्तिः । यः "भ्रमः" मिथ्याज्ञानम् । तं "करोती"ति तादृशी ॥ ३,४.५९ ॥
"उन्मार्जयामी"ति प्रतिज्ञां सफलीकर्तुं श्रीवसिष्ठः उत्तरं कथयति
अस्य दृश्यपिशाचस्य शान्त्यै मन्त्रमिमं शृणु ।
रामात्यन्तमयं येन मृतिमेष्यति नङ्क्ष्यति ॥ ३,४.६० ॥
हे "राम" । त्वम् । "अस्य" पुरःस्फुरतः । "दृश्यपिशाचस्य शान्त्यै" । "इमम्" वक्ष्यमाणवाक्यकदम्बकस्वरूपम् । "मन्त्रं" "शृणु" । "येन" मन्त्रेण । "अयं" दृश्यपिशाचः । "अत्यन्तं मृतिम्" त्रैकालिकमभावम् । "एति" गच्छति । ततः वि"नङ्क्ष्यति" अदर्शनं याति । युक्तं च पिशाचस्य मन्त्रेण मरणमदर्शनं च ॥ ३,४.६० ॥
मन्त्रमेव कथयति
यदस्ति तस्य नाशोऽस्ति न कदाचन राघव ।
यस्मात्तन्नष्टमप्यन्तर्बीजभूतं भवेद्धृदि ॥ ३,४.६१ ॥
हे "राघव" । "यत्" वस्तु । सत्तां भजति । "तस्य नाशः कदाचन" जातु । "न" सम्भवति । "यस्मात्तत्" वस्तु । "नष्टमपि" केनचित्पराभिमतेन समवायिकारणनाशादिना नष्टमपि । "हृदि अन्तः" मानसान्तः । "बीजभूतम्" । बीजभावेन स्थितं वा सत्तारूपेण स्थितमिति यावत् । "भवति" । दृश्यते हि नष्टमपि वस्तु हृदि पुनः पुनः आवर्तमानम् ॥ ३,४.६१ ॥
ननु ततः को दोषः इत्य् । अत्राह
स्मृतिबीजा चिदाकाशे पुनरुद्भूय दृश्यधीः ।
लोकशाइलाम्बराकारं दोषं वितनुतेऽतनुम् ॥ ३,४.६२ ॥
"स्मृतिबीजा" स्मृतिकारणिका । "दृश्यधीः" दृश्याकारा धीः । दृश्यमिति यावत् । "चिदाकाशे उद्भूय" प्रादुर्भूय । "अतनुम्" महान्तम् । "लोकशैलाम्बराकारं दोषम्" "पुनः वितनुते" सूक्ष्मप्रपञ्चभावेन विशेषेण विस्तारयति । स्वप्ने दृष्टत्वात् ॥ ३,४.६२ ॥
ननु ततोऽपि किमित्य् । अत्राह
इत्थं निर्मोक्षदोषः स्यान्न च तस्यांशसम्भवः ।
यस्माद्देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम् ॥ ३,४.६३ ॥
"इत्थं" सति । "निर्मोक्षदोषः" मोक्षाभावप्रसङ्गरूपः दोषः । "स्यात्" । स्थूलसूक्ष्मभावेन द्विविधस्य दृश्याभावस्यैव मोक्षत्वात् । ननु भवतु सः दोषः । किमस्माकं करिष्यतीत्य् । अत्राह "न चे"ति । "तस्य" निर्मोक्षदोषस्य । "अंशेना"पि "सम्भवः न च" भवति । "यस्मात्देवर्षिमुनयः मुक्तिभाजनं दृश्यन्ते" ॥ ३,४.६३ ॥
पुनरप्येतदेव कथयति
यदि स्याज्जगदादीदं तत्स्यान्मोक्षो न कस्यचित् ।
बाह्यस्थमस्तु हृत्स्थं वा दृश्यं नाशाय केवलम् ॥ ३,४.६४ ॥
"यदि इदं जगदादि स्यात्" सत्तां भजेत् । तदा "कस्यचित्" कस्यापि प्रमातुः । "मोक्षः" दृश्यान्मुक्तिः । "न स्यात्" । यथा तथा सम्भावितेऽपि दृश्यनाशे स्मृतिप्रभावात्सूक्ष्मतया पुनः दृश्यस्फुरणात् । यतः "दृश्यं बाह्यस्थम्" स्थूलरूपम् "अस्तु" । "हृत्स्थम्" सूक्ष्मरूपं "वा अस्तु" । "नाशाय" बन्धाख्यनाशोत्पादार्थं भवति । क्षोभकत्वाविशेषादिति भावः । "आदि"शब्देन सुषुप्तिस्तैमित्यादेः ग्रहणम् । तस्यापि दृश्यत्वाद् ॥ ३,४.६४ ॥
ननु तर्हि किं कार्यमित्य् । अत्राह
तस्मादिमां प्रतिज्ञां त्वं शृणु रामातिभीषणाम् ।
यामुत्तरेण ग्रन्थेन नूनं त्वमवबुध्यसे ॥ ३,४.६५ ॥
"अतिभीषणत्वं" च "प्रतिज्ञायाः" असम्भवप्रवृत्तत्वेन ज्ञेयम् ॥ ३,४.६५ ॥
श्रीरामावबोधनिमित्तम् "उत्तरग्रन्थम्" एव कथयति
अयमाकाशभूतादिरूपोऽहं चेति लक्षितः ।
जगच्छब्दस्य रामार्थो ननु नास्त्येव कश्चन ॥ ३,४.६६ ॥
हे "राम" । "ननु" निश्चये । "आकाशभूतादिरूपः" । तथा "अहं चेति लक्षितः" निश्चितः । "अयं जगच्छब्दस्यार्थः" अभिधेयम् । परमार्थतः "नास्त्येव" सत्तां न भजति एव । न तु सत्ताभाग्भूत्वा नश्यति । तथा च सति न निर्मोक्षदोषप्रसङ्गः । न हि असतः बन्धकत्वं दृष्टमिति भावः । "आकाशस्य भूतत्वे"ऽपि प्राधान्येन पृथङ्निर्देशः । "आदि"शब्देन भूतकार्याणां ग्रहणम् ॥ ३,४.६६ ॥
ननु पुरःस्फुरतः अहमादिकस्य जगतः कथं सर्वथा सत्त्वं युक्तमित्य् । अत्राह
यदिदं दृश्यते किञ्चिद्दृश्यजालं पुरोगतम् ।
एवं ब्रह्मैव तत्सर्वमजरामरमव्ययम् ॥ ३,४.६७ ॥
अस्माभिः "यदिदं पुरोगतं दृश्यजालं" नीलसुखादिरूपः दृश्यसमूहः । "दृश्यते" अनुभूयते । "तत्सर्वमजरामरम्" देहरहितत्वात्तन्मात्रगतजरादिरहितम् । तथा "अव्ययम्" नाशरहितम् । "ब्रह्मैव" जगत्तया बृंहितं शुद्धचित्तत्त्वमेव । "एवम्" जगद्भावेन भवति । दृश्यते हि जलस्य तरङ्गभावेन भवनम् । तथा च सति भासमानस्यापि जगतः असत्त्वं युक्तमेव । न हि जले भासमानस्यापि तरङ्गस्य सत्त्वं दृष्टमिति भावः ॥ ३,४.६७ ॥
दृश्यस्य ब्रह्ममात्रत्वमेव दृढीकरोति
पूर्णे पूर्णं प्रसरति परे शान्तं परं स्थितम् ।
व्योमन्येवोदितं व्योम ब्रह्म ब्रह्मणि तिष्ठति ॥ ३,४.६८ ॥
"पूर्णे" निरपेक्षे । "प्रसरति" सञ्चारं करोति । स्वरूपस्थे "परे" उत्तीर्णे । "ब्रह्मणि" बृंहिते वस्तुनि । अत्र सप्तम्यन्तैः शुद्धचित्तत्त्वस्य कथनम् । प्रथमान्तैः तद्रूपस्य जगतः ज्ञेयम् । ननु कथं पूर्णत्वादिगुणयुक्ते शुद्धचित्तत्त्वेऽवस्थानं युक्तम् । न्यूनस्याधिके अवस्थानदर्शनात् । सत्यम् । अवस्थानमत्राधेयभावेन नास्ति येनोक्तदोषप्रसङ्गः स्यात् । किं तु तन्मात्रताभावेनेति नात्र दोषप्रसङ्गः । इत्यलं प्रपञ्चैः ॥ ३,४.६८ ॥
न दृश्यमस्ति नो दृक्च न द्रष्टा न च दर्शनम् ।
न शून्यं न जडं नो चिच्छान्तमेवेदमाततम् ॥ ३,४.६९ ॥
"दृश्यम्" दृशिक्रियाकर्म । "नास्ति" सत्तां न भजति । "दृक्" दृशिक्रिया । "नो" अस्ति । "द्रष्टा" दृशिक्रियाकर्ता । "च ना"स्ति । "दर्शनम्" दृशिक्रियासाध्यं फलम् । "च ना"स्ति । सर्वेषामेषां प्रतीतिमात्रसारत्वात् । ननु तर्हि एतदभाव एवास्तीत्य् । अत्राह "न शून्यम्" इति । "शून्यम्" दृश्याद्यभावः । च "ना"स्ति । न हि सर्वथा असतः भानं युक्तम् । शशिशृङ्गादेरपि भानापत्तेः । ननु तर्हि जाड्यमेव स्यात् । जाड्ये हि सर्वेषामसत्ता एव भवतीत्य् । अत्राह "न जडम्" इति । भावप्रधाननिर्देशः "जडम्" जडत्वम् । "ना"स्ति । तत्त्वे हि दृश्यादिभानमयुक्तं स्यात् । ननु तर्हि शिष्टा चिदेव स्यादित्य् । अत्राह "नो चिद्" इति । "चित्" चिन्मात्रम् । "नो" अस्ति । चेत्यापेक्षत्वेन तस्याः स्थितत्वात् । चेत्यस्य चोक्तन्यायेनासम्भवात् । ननु तर्हि किमस्ति । न हि सर्वथा असत्ता बुद्ध्यै आरोहतीत्य् । अत्राह "शान्तम्" इति । "आततं" समन्तात्स्फुरत्स्वरूपम् । "इदम्" सर्वं दृश्यादिकम् । "शान्तम्" । भवति । चेत्यक्षोभरहितं चिन्मात्रं भवति ॥ ३,४.६९ ॥
अत्र निश्चयमनाप्नुवन् श्रीरामः मुनेः असम्भवार्थाभिधायित्वमासञ्जयति
वन्ध्यापुत्रेण पिष्टोऽद्रिः शशशृङ्गं प्रमायते ।
प्रसार्य भुजसङ्घातं शिला नृत्यति ताण्डवम् ॥ ३,४.७० ॥
स्रवन्ति सिकतास्तैलं पठन्त्युपलपुत्रिकाः ।
गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो ॥ ३,४.७१ ॥
"तवे"ति शेषः । हे "प्रभो" । "इदम्" तव "वचः" । "इति" भवति । एवंरूपं भवति इति । किम् "इति" । "वन्ध्यापुत्रेणे"त्यादि । जनैः "शशशृङ्गं प्रमायते" प्रमातुमारभ्यते इत्यर्थः । "प्रमायते" इति प्रयोगः आर्षः । सर्वथा असम्बद्धार्थाभिधाय्येव तव वचनमिति भावः । असम्भवार्थप्रतिपादकत्वारोपप्रकाशिताविनयनिरासनार्थं "प्रभो" इत्यामन्त्रणम् ॥ ३,४.७०७१ ॥
जरामरणदुःखादिशैलाकाशमयं जगत् ।
नास्तीति किमिदं नाम भवतापि ममोच्यते ॥ ३,४.७२ ॥
न हि प्रत्यक्षमनुभूयमानस्य जरादिरूपस्य भावजातस्यापह्नवः युक्त इति भावः । "अपि"शब्दः श्रीवसिष्ठस्यासम्भववादित्वायोग्यत्वसूचनार्थः । "ममे"त्यनेन स्वस्य सच्छिष्यत्वं द्योतयति ॥ ३,४.७२ ॥
"यथे"त्येतत्सत्यमेवास्ति तर्हि युक्तं "कथये"त्य् । अनेनाभिप्रायेणाह
यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते ।
तथा कथय मे ब्रह्मन् येनैतन्निश्चितं भवेत् ॥ ३,४.७३ ॥
"एतत्" स्थित्याद्यभावः ॥ ३,४.७३ ॥
श्रीवसिष्ठ उत्तरं कथयति
नासमन्वितवागस्मि शृणु राघव कथ्यते ।
यथेदमसदाभाति वन्ध्यापुत्र इवारवी ॥ ३,४.७४ ॥
"अहम्" वसिष्ठाख्यः अहम् । "असमन्विता" असम्बद्धा । "वाग्" यस्य । सः । तादृशः "नास्मि" । हे "राघव" । त्वं "शृणु" । "इदं" जगत् । "यथा" येन प्रकारेण । "असत्भाति" । त्वां प्रति स्फुरति । मया तथा "कथ्यते" । "इदं" क "इव" । "आरवी वन्ध्यापुत्र इव" । आरवकारी वन्ध्यापुत्र इव । यथा सः असत्भाति । तथेत्यर्थः ॥ ३,४.७४ ॥
तदेव कथयति
इदमादावनुत्पन्नं सर्गादौ तेन नास्त्यलम् ।
इदं हि मनसा भाति स्वप्नादौ पत्तनं यथा ॥ ३,४.७५ ॥
"इदम्" दृश्यं जगत् । "आदौ" आदिभूते । "सर्गादौ" चिन्मात्रस्य चेत्योन्मुखतारूपे सर्गारम्भे । अनुद्भूतमासीत् । परमार्थतः चिन्मात्रभावादच्युतेः । ततः भिन्नया सत्तयाश्रितं न आसीत् । न हि बहिरपि मृदः उत्पद्यमानस्य घटस्य मृदः भिन्ना सत्ता दृश्यते । "तेन" ततः कारणात् । "इदम्" जगत् । "अलम्" अतिशयेन । "नास्ति" सत्तां न भजति । "स्वप्नपत्तनवत्" चिन्मात्रसाक्षितामात्रेण लब्धसत्ताकत्वात् । ननु तर्हि कथमिदं भासते इत्य् । अत्राह "इदम्" इति । "हि" निश्चये । "इदं" दृश्यं जगत् । "मनसा" विकल्पेन । "भाति" दृश्यतया स्फुरति । किमिव । "पत्तनम्" इव । "यथा" "स्वप्नादौ पत्तनं मनसा भाति" । तथेत्यर्थः ॥ ३,४.७५ ॥
ननु सत्स्वरूपेण मनसा भातस्य दृश्यस्य सत्त्वं युक्तमेवेत्य् । अत्राह
मन एव च सर्गादावनुत्पन्नमसद्वपुः ।
तथैतच्छृणु वक्ष्यामि यथैतदनुभूयते ॥ ३,४.७६ ॥
"सर्गादौ" प्रोक्तस्वरूपे सर्गारम्भे । "मनः एव अनुत्पन्नम्" । अत एव्"आसद्वपुः" असत्स्वरूपं भवति । त्वं "शृणु" । "यथा" त्वया "एततनुभूयते" । अहम् "तथा एतत्वक्ष्यामि" ॥ ३,४.७६ ॥
ननु प्रकृतं दृश्यासत्त्वकथनं विहाय मनोऽसत्त्वकथनमयुक्तमित्य् । अत्राह
मनो दृश्यमयं दोषं तनोतीमं क्षयात्मकम् ।
असदेवासदाकारं स्वप्नः स्वप्नान्तरं यथा ॥ ३,४.७७ ॥
"मनः इमम्" पुरः भासमानम् । "क्षयात्मकम्" नश्वरस्वभावम् । "दृश्यमयं दोषम्" दृश्यस्वरूपं दोषम् । "तनोति" विस्तारयति । "मनः" कथम्भूतम् । "असदेव" स्फुरणमात्ररूपत्वातसत्स्वरूपमेव । "दृश्यमयं दोषं" कथम्भूतम् । "असदाकारम्" असत्स्वरूपम् । असता विस्तार्यमाणत्वात् । न ह्यसता विस्तारितं सत्भवितुं योग्यम् । वन्ध्यापुत्रविस्तारितस्य वाग्जालस्यापि सत्तापत्तेः । "मनः" कः "यथा" । "स्वप्नो" "यथा" । यथा असत्स्वरूपः "स्वप्नः" "असदाकारं स्वप्नान्तरं तनोति" । तथेत्यर्थः । दृश्यते हि स्वप्ने स्वप्नान्तरमिति नात्र विवादः ॥ ३,४.७७ ॥
स्वाश्रयभूतं देहं प्रत्यपि अस्यैव कारणत्वं कथयति
तत्स्वयं स्वैरमेवाशु सङ्कल्पयति देहकम् ।
तेनेयमिन्द्रजालश्रीर्विततेन वितन्यते ॥ ३,४.७८ ॥
"तत्" मनः । इदं "देहकम्" आत्मतया भासमानं स्थूलदेहम् । "आशु" शीघ्रम् । "स्वयम्" अन्यसाहाय्यानपेक्षम् । "स्वैरम्" स्वेच्छया । "सङ्कल्पयति" सङ्कल्पमात्रेण सम्पादयति । पुनरपि प्रकृतमेव कथयति "तेनेयम्" इति । "तेन" मनसा । "इयम्" दृश्यत्वेन भासमाना ॥ ३,४.७८ ॥
उक्तमर्थं सर्गान्तश्लोकेन सङ्गृह्य कथयति
स्फुरति गच्छति वल्गति याचते भवति मज्जति संहरति स्वयम् ।
अपरतामुपयात्यपि केवलं चलति चञ्चलशक्तितया मनः ॥ ३,४.७९ ॥
उपलक्षणं चैतत् । तेन या काचित्क्रिया इह भवति सा मनःकृता एव भवतीति सङ्क्षिप्तार्थ इति शिवम् ॥ ३,४.७९ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे चतुर्थः सर्गः ॥ </poem>