मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः १

विकिस्रोतः तः
मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः २ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



श्रीरामाय नमः । ओं

कृत्वा चित्तं स्वबोधस्मरणविनिहतं प्रौढमोहान्धकारं

स्मृत्वा ज्ञानप्रदां तां सुमहितविभवां श्रीगुरोः पादुकां च  ।

ध्यात्वा विघ्नान्तकं तं शिवसुतमनघं श्रीगणेशं सुरेशम्

उत्पत्त्याख्यावगाहिप्रकरणविवृतिस्तन्यते भास्करेण ॥

एवं मुमुक्षुव्यवहाराख्ये प्रकरणे वक्ष्यमाणोपदेशाधिकारित्वसम्पादननिमित्तं व्यवहारं प्रतिपाद्य तच्छ्रवणमात्रेण च श्रीरामं प्राप्ततदनुष्ठानफलं विभाव्य प्रपञ्चस्यानुत्पत्तिसतत्त्वोत्पत्तिज्ञानमुपादेयभूतमोक्षप्राप्तौ मूलकारणतया निश्चित्य तदुपपादकमुत्पत्तिप्रकरणमारभमाणः वक्ष्यमाणब्रह्मैकत्वाश्रयणेन गुरुशिष्यभावानुपपत्तिं पुरस्कृत्य स्वव्यतिरिक्तशिष्योपदेशभावेन परप्रयुक्तं चोद्यमभिशङ्कमानः तदुद्धारनिमित्तभूतं ब्रह्मैकत्वेऽपि स्वप्नदृष्टान्तेन पदार्थभेदग्राहकं ब्रह्मविदनुभवं प्रथमं कथयति ॥

 

 

 

वाग्भाभिर्ब्रह्मविद्ब्रह्म भाति स्वप्न इवात्मनि ।

यदिदंतत्स्वशब्दार्थैर्यो यद्वेत्ति स वेत्तु तत् ॥ ३,१.१ ॥

उत्तरवाक्यस्थं "वेत्ती"ति पदं पूर्ववाक्येऽपि योजनीयम् । तेनायमर्थः । "ब्रह्मवित्" ब्रह्मज्ञानी । "वेत्ति" अनुभवति । किमिति कर्मापेक्षायां पश्य मृगो धावतीतिवत्वाक्यं कर्मत्वेन कथयति "वाग्भाभिर्" इति । "ब्रह्म" नानापदार्थभावेन बृंहितं किमपि सूक्ष्मं वस्तु । "भाति" विलसति । स्फुरतीति यावत् । कैः भाति । "यदिदंतत्स्वशब्दार्थैः" । "यद्"आदिसर्वनामशब्दवाच्यभूतैः पदार्थैः । तद्रूपेणेति यावत् । इत्थम्भावे तृतीया । पदार्थानां च "यद्"आदिसर्वनामवाच्यत्वं वस्तूपलक्षणम् । यत्र सर्वनाम प्रयुज्यते द्रव्यमित्युच्यते । सोऽर्थः भेद्यत्वेन विवक्षित इत्यभियुक्तस्मरणात्ज्ञेयम् । कुत्राधारे भाति । "आत्मनि" स्वभित्तौ । तद्व्यतिरिक्तस्य द्वितीयस्याभावात् । इदं भानं च अर्थात्जाग्रत्कालीनं ज्ञेयम् । स्वप्नस्य दृष्टान्ततयोपादानात्सुषुप्तेः शून्यमात्रभानास्पदत्वाच्च । "यदिदंतत्स्वशब्दार्थैः" काभिः । "वाग्भाभिः" । वागत्र समानविषयत्वेन विकल्पः अभिप्रेतः । तेन विकल्पभानरूपैरित्यर्थः । भासमाना एते पदार्थाः हि स्वप्नपदार्थवत्विकल्परूपा एव । तत्सारतया स्थितस्य शुद्धचिन्मात्रस्यैव वस्तुतः अर्थत्वात् । कस्मिन्न् "इव" भाति । "स्वप्ने" "इव" । यथा "स्वप्ने" । "ब्रह्म" स्वप्नपदार्थतया बृंहितम् । आत्माख्ये वस्तुनि । "आत्मनि" स्वभित्तौ । "वाग्भाभिः" विकल्पभानभूतैः । "यदिदंतत्स्वशब्दार्थैः भाति" । तथा इत्यर्थः । स्वप्ने हि आत्मभावेन स्थितस्य ब्रह्मणः पदार्थभावेन भानं सर्वसाक्षिकमेव । नन्वन्ये बौद्धादयः सर्वथा पदार्थापह्नवं कुर्वन्ति । तत्कथं

त्वयैवमुक्तमित्याह "यो यद्" इति । यः यः कश्चित्ब्रह्मविदः बौद्धादिः यत्यत्पदार्थानां सर्वथा असत्त्वादि "वेत्ति" अनुभवति । "सः तत्वेत्तु" अनुभवतु । किमस्माकं तद्वेदनेन । ब्रह्मविद्वेदने एव तात्पर्यातिति भावः । अत्र च "यच्"छब्दः "इदम्"आदित्रयेण सह समानाधिकरण्यदर्शनात्सामान्यनिष्ठः । शिष्टाः "इदम्"आदयः त्रयः विशेषनिष्ठाः । तत्रापि "इदं"शब्दः प्रत्यक्षवेद्यनिष्ठः इति सर्वनामचतुष्केनैव सर्वपदार्थाक्षेपसिद्धावनुपयुक्तत्वादन्येषामकथनमिति ज्ञेयम् । अथ वा "ब्रह्मविद्" इत्यामन्त्रणपदं ब्रह्मज्ञानाधिकृते श्रीरामे विशिष्टाधिकारित्वसूचनाय प्रयुक्तम् । तथा च स्फुट एवार्थः । नापि दुर्योजकत्वाख्यदोषापत्तिः ॥ ३,१.१ ॥

 

 

 

प्रोक्तब्रह्मविदनुभवाश्रयणेन शङ्काविषयीकृतं परप्रयुक्तं चोद्यं परिहरति

न्यायेनानेन सर्वस्मिन् सर्गे ब्रह्माम्बरे सति ।

किमिदं कस्य वक्षीति चोद्यचञ्चुर्निराकृतः ॥ ३,१.२ ॥

"अनेन न्यायेन" अनया पदार्थानां ब्रह्ममयत्वेऽपि भेदसाधिकया ब्रह्मविदनुभवरूपया युक्त्या । न तु पदार्थानां सर्वथापह्नवकारिण्या बौद्धादियुक्त्या । "सर्गे" सृजिक्रियाकर्मणि भावजाते । "ब्रह्माम्बरे" ब्रह्माकाशरूपे । "सति" । त्वं किंरूपः । त्वम् "किमिदं" किंरूपम् "इदं" शास्त्रम् । "कस्य" किंरूपस्य शिष्यस्य । "वक्षि" कथयसि । सर्वस्य ब्रह्मैकरूपत्वात् । "इति" एवंरूपम् । यत्"चोद्यम्" आक्षेपः । तेन "चञ्चुः" प्रसिद्धः । एवंरूपचोद्यकारीति यावत् । "निराकृतः" प्रतिक्षिप्तः भवति । तेन वित्त इति चञ्चुप्प्रत्ययः । वित्तः प्रसिद्ध इत्यर्थः । ननु कथमेतेन चोद्यनिरासः । उच्यते । ब्रह्मविदा परमार्थेन ब्रह्मैकत्वेऽपि व्यवहारदशायां स्वप्नतुल्यस्य शिष्यस्य यादृशो यक्षः तादृशो बलिरिति न्यायाश्रयणेन तद्रूपोपदेशकरणं युक्तमेव स्वप्नतुल्यस्य जगतः अङ्गीकरणात् । सर्वथा पदार्थापह्नवकारिणां बौद्धादीनामेवेदं चोद्यं युक्तमिति ॥ ३,१.२ ॥

 

 

 

एवं शङ्कितचोद्यनिरासं कृत्वा स्वोपदेशं प्रति श्रोतॄन् संमुखीकरोति

अहं तावद्यथाज्ञानं यथावस्तु यथाक्रमम् ।

यथास्वभावं वच्मीदं तत्सर्वं श्रूयतां बुधाः ॥ ३,१.३ ॥

"तावच्"छब्दः साकल्ये । "अहं" वसिष्ठाख्यः गुरुः । "इदं" मोक्षोपायाभिधं शास्त्रम् । "तावत्" साकल्येन । "वच्मि" कथयामि । कथं वच्मि । "यथाज्ञानम्" ज्ञानानुसारेण । तथा "यथावस्तु" वस्त्वनुसारेण । तद्वत्"यथाक्रमम्" क्रमानुसारेण । पुनः कथम् । "यथास्वभावं" स्वभावानुसारेण । ज्ञानादयः चत्वार एव हि शास्त्रप्रवृत्तिनिमित्तभूताः । "तत्" ततो हेतोः । हे "बुधाः" । युष्माभिः "सर्वं श्रूयताम्" श्रवणगोचरीक्रियताम् । "बुधा" इत्यामन्त्रणपदं बुधानामेवैतच्छास्त्रश्रवणे अधिकारित्वं सूचयति । "सर्वम्" इत्यनेन सकलमिदं श्रुत्वा परमप्रयोजनावाप्तिः भविष्यतीत्यर्धादुत्थाय न गन्तव्यमिति सूचितम् ॥ ३,१.३ ॥

 

 

 

एवं श्रवणयोग्यं बुधवर्गं संमुखीकृत्योत्पत्तिप्रकरणतात्पर्यार्थं श्लोकेन सङ्गृह्य कथयति

स्वप्नवत्पश्यति जगच्चिन्नभो देहविन्मयम् ।

स्वप्नसंसारदृष्टान्ता इहैवान्तः समन्विताः ॥ ३,१.४ ॥

चेतयति पाषाणप्रख्यं करणवर्गं स्वावेशेन चेतनक्रियाकर्तृत्वे प्रेरयतीति "चित्" सर्वान्तर्गतं किमपि शुद्धं तत्त्वम् । अथ वा चेततीति "चित्" चितिक्रियाकर्तृभूतं किमपि तत्त्वम् । सा एव "नभः" सर्वव्यापकत्वाताकाशम् । तत्"चिन्नभः" चिदाकाशः । "जगत्" गमनशीलं दृश्यप्रपञ्चम् । "स्वप्नवत्पश्यति" स्वप्नवत्स्वयं कल्पयित्वा अनुभवति । कीदृशं "जगत्" । "देहविन्मयं" । "देहवित्" देहोऽहमिति ज्ञानम् । अहङ्कार इति यावत् । तस्य विकारः "देहविन्मयं" अहङ्कारस्वरूपम् । न तु शुद्धमित्यर्थः । ननु स्वप्नः किमिह दृष्टान्तत्वेन दत्त इत्य् । अत्राह "स्वप्ने"ति । स्वप्ने दृष्टाः संसाराः "स्वप्नसंसाराः" । ते एव "दृष्टान्ताः" निर्णयस्थानानि । ते "स्वप्नसंसारदृष्टान्ताः इहैवा"स्मिन् जाग्रत्प्रपञ्चे एव्"आन्तः" । "सम्"यक् । न तु आमुख एव । "अन्विताः" सम्बद्धाः भवन्ति । कल्पनामात्रसिद्धत्वात् । अतः स्वप्नस्य दृष्टान्तत्वमुक्तमिति भावः ॥ ३,१.४ ॥

 

 

सङ्ग्रहेणोक्तमर्थं मूढबुद्धिषु प्रवेशनाय स्वतः सर्वज्ञं श्रीरामं मध्येकृत्य विस्तारयितुं प्रस्तौति

मुमुक्षुव्यवहारोक्तिमयात्प्रकरणात्परम् ।

अथोत्पत्तिप्रकरणं मयेदं परिकथ्यते ॥ ३,१.५ ॥

"मुमुक्षुव्यवहारस्योक्तिः" प्राचुर्येण प्रस्तुता यस्मिन् । तत्"मुमुक्षुव्यवहारोक्तिमयं" । तादृशात्"प्रकरणात्" । मुमुक्षुव्यवहाराख्यात्प्रकरणादिति यावत् । "परम्" अन्यत् । "परिकथ्यते" सम्यक्कथ्यते ॥ ३,१.५ ॥

 

 

 

प्रतिज्ञातप्रकरणारम्भं करोति

बन्धोऽयं दृश्यसद्भावो दृश्याभावे न बन्धनम् ।

न सम्भवति दृश्यं तु यथेदं तच्छृणु क्रमात् ॥ ३,१.६ ॥

"अयम्" अनुभूयमानः । "बन्धः" दृश्यासक्तत्वम् । "दृश्यसद्भावः" दृश्येन दृशिक्रियाविषयेण भावजातेन । "सद्भावः" स्वरूपलाभः । द्रष्टारं प्रति स्फुरणमिति यावत् । यस्य । सः तादृशः भवति । "दृश्याभावे" सति "बन्धनं" बन्धः । "न" भवति । न हि रज्ज्वभावे बन्धनं दृष्टम् । ननु सतो दृश्यस्य कथमभावः सेत्स्यतीत्य् । अत्राह "न सम्भवती"ति । "तु"शब्दः सम्भविनः शुद्धद्रष्टुः सकाशात्दृश्यस्य व्यतिरेकद्योतकः । "दृश्यं न सम्भवति" सम्भवनक्रियाकर्तृत्वं न भजति । स्वप्नन्यायेन प्रतीतिमात्रसिद्धत्वात् । ननु कथमेतदित्य् । अत्राह "यथेदम्" इति । "इदं" दृश्यासम्भवनम् । "यथा" भवति । "तत्क्रमात्शृणु" ॥ ३,१.६ ॥

 

 

ननु किमर्थमुत्पत्तिप्रकरणमेव प्रथमं कथयसीत्यपेक्षायामाह

उत्पद्यते यो जगति स एव किल वर्धते ।

स एव मोक्षमाप्नोति स्वर्गं वा नरकं च वा ॥ ३,१.७ ॥

धर्माधर्मोल्लङ्घनेन "मोक्षम्" । धर्मेण "स्वर्गम्" । अधर्मेण "नरकम्" इति विभागः ॥ ३,१.७ ॥

 

 

ननु ततः किमित्य् । अत्राह

अतस्तेष्ववबोधार्थं तत्तावत्कथयाम्यहम् ।

उत्पत्तिं संसृतावेति पूर्वमेव हि यो यथा ॥ ३,१.८ ॥

यतः उत्पत्त्यादीनामेकाधिकरणत्वमस्ति । "अतः तेषु" क्रमभाविषु उत्पत्त्यादिषु मध्ये । "अवबोधार्थं" त्वज्ज्ञानार्थम् । इहास्मिन् प्रकरणे । "अहं तावत्" प्रथमम् । "तत्कथयामि" । "तत्" किम् । "यः" पुरुषः । "यथा" येन प्रकारेण । "संसृतौ" संसरणस्वभावे संसारे । "पूर्वमेव" सर्गादौ एव । "उत्पत्तिमेति" ब्रह्मणः व्यतिरिक्तत्वेन सत्तां भजति । ततोऽनन्तरं स्थितिप्रकरणादौ वर्धनादिकमपि कथयामीति भावः । "हि"शब्दः निश्चये । अत एवास्य प्रकरणस्योत्पत्तिप्रकरणमिति नामापि भवतीति ज्ञेयम् ॥ ३,१.८ ॥

 

 

 

तत्र तावत्सङ्क्षेपकथनं प्रतिजानीते

इदं प्रकरणार्थं त्वं सङ्क्षेपाच्छृणु राघव ।

ततः प्रकथयिष्यामि विस्तरं ते यथेप्सितम् ॥ ३,१.९ ॥

हे "राघव" । "त्वमिदम्" जगदुत्पत्तिरूपम् । "प्रकरणार्थं" उत्पत्तिप्रकरणाभिधेयम् । "सङ्क्षेपात्" सङ्क्षेपेण "शृणु" । "ततः" सङ्क्षेपानन्तरम् । "यथेप्सितं" ईप्सितानुसारि "विस्तरं" "कथयिष्यामि" । सङ्क्षेपकथनेन विना त्वत्सन्देहानुत्थानात्विस्तरेण कथनं न सम्भवति । सन्देहविषयत्वात्विस्तरस्येति भावः ॥ ३,१.९ ॥

 

 

 

प्रतिज्ञातां सङ्क्षेपतः जगदुत्पत्तिं कथयिष्यन् प्रपञ्चाक्रान्तबुद्धेः शिष्यस्य विधिमुखेन मूलकारणस्वरूपकथनमयुक्तं ज्ञात्वा स्थूणानिखननन्यायमाश्रित्य जगन्नाशमुखेन मूलकारणस्वरूपं कथयितुं प्रस्तौति

यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् । ।

तत्सुषुप्त इव स्वप्नः कल्पान्ते प्रविनश्यति ॥ ३,१.१० ॥

अस्माभिः "यत्" । "इदम्" पुरोवर्ति । "स्थावरजङ्गमं" स्थावरजङ्गमस्वरूप । "जगत्" नश्वरं भावजातम् । "दृश्यते" अनुभूयते । "तत्कल्पान्ते" आन्तरार्थविवक्षायां सर्वदृश्यक्षयरूपायां तुर्यावस्थायां विशेषतः तदतीतावस्थायां च । बाह्यार्थविवक्षायां तु कालान्तरभाविनि प्रलयकाले । "प्रविनश्यति" प्रकर्षेण संस्काराख्यात्मूलादाधाराद्नश्यति । मूलकारणभावेनावस्थानातदर्शनं याति । क "इव" । "स्वप्न इव" । यथा "सुषुप्ते स्वप्नः" नश्यति । तथेत्यर्थः । ननु सुषुप्तौ जगतो बीजभावेनावस्थानातन्यथा पुनर्भवायोगात्कथमयमुपमानोपमेयभावः सिद्ध्यतीति चेन् । न । स्तैमित्याख्यस्य सामान्यधर्मस्योभयत्राप्यवस्थानात्सामान्यधर्ममात्राश्रयणेनैव हि उपमानोपमेयभावः उत्तिष्ठति । इति न कोऽपि विरोधः ॥ ३,१.१० ॥

 

 

 

यत्स्वरूपप्रकटनार्थमयं यत्नः कृतः तन्मूलकारणं शेषत्वेन कथयति

ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।

अनाख्यमनभिव्यक्तं यत्किञ्चिदवशिष्यते ॥ ३,१.११ ॥

"ततः" प्रपञ्चनाशानन्तरम् । "यत्किञ्चित्" केनापि नाम्ना वक्तुमशाक्यं किमपि सूक्ष्मं वस्तु । "शिष्यते" शेषतया तिष्ठति । तस्यापि नाशे नाशोपलब्धुरभावेन सम्पन्नोऽपि प्रपञ्चनाशः । असत्कल्प एव स्यादिति भावः । ननु नामतः तद्वस्तु कथं नोक्तमित्य् । अत्र विशेषणद्वारेण हेतुमाह्"आनाख्यम्" इति । "अनाख्यम्" आख्याकर्तृत्वेन स्थितत्वाताख्याकर्मतां नेतुमशक्यम् । ननु कथं तदनाख्यमस्तीत्य् । अत्रापि विशेषणद्वारेण हेतुमाह्"आनभिव्यक्तम्" इति । "अनभिव्यक्तम्" अतिसूक्ष्मत्वात् । बाह्यान्तरत्वेन स्थितैरिन्द्रियैरप्रत्यक्षीकृतमित्यर्थः । बाह्यान्तरेन्द्रियाप्रत्यक्षस्य चानाख्यत्वं स्फुटमेव । वागिन्द्रियस्यापि अगम्यत्वात् । नन्वनभिव्यक्तत्वमपि कथं तस्यास्तीत्य् । अत्रापि विशेषणद्वारेण हेतुमाह "न तेजो न तम" इति । चेत्यकलितं चिन्मात्रं "तेजः" । तच्चेत्यं "तमः" । अथ वा सूर्यादिकं "तेजः" । अन्धकारः "तमः" तद्व्यतिरिक्तस्वरूपमित्यर्थः । तथा च तस्यानभिव्यक्तत्वमेव । तेजस्तमसोरेव अभिव्यक्तिविषयत्वात् । तथापि शून्यतापत्तिमाशङ्क्य विशेषणमाह "ततम्" इति । सर्वत्र प्रोतस्वरूपमित्यर्थः । शून्यत्वे कथं ततत्वं स्यादिति भावः । केन स्वरूपेण तस्य प्रोतत्वमस्तीत्य् । अत्राह "स्तिमितगम्भीरम्" इति । स्तिमितं च तत्गम्भीरं चेति "स्तिमितगम्भीरम्" । चिन्मात्ररूपत्वेन चेत्यभावरूपस्य प्रसरणस्याभावात्निःस्पन्दम् । निरालम्बनत्वेन स्वभिन्नस्यावगाढुः अभावात्दुरवगाहं चेत्यर्थः । अतश्च निरालम्बशुद्धचिन्मात्ररूपतया प्रोतमस्तीति भावः । यद्यपि नासर्गं तिष्ठति । "परम्" इति वक्ष्यमाणनीत्या तस्य

तत्त्वस्य प्रपञ्चोद्भावनं प्रति सर्वदैव स्पन्दो वर्तत एवेति । शुद्धतया स्थितस्य तस्योपलब्धिः कदापि न सम्भवत्येव । तथापि "देशाद्देशान्तरं दूरम्" इत्यादिवक्ष्यमाणनीत्या मध्यवृत्तिषु सदा तदुपलब्धिः सम्भवत्येवेति न विमुखेन भवितव्यम् । विदेहमुक्तानां तु सर्वदा तन्मयत्वमपि सम्भवति । यतः अस्य चिन्मात्रतत्त्वस्येदृश एव महिमा भवति । यत्सर्वदा विश्वमयं तदुत्तीर्णं च भवतीति न किञ्चिद्विरुद्धम् ॥ ३,१.११ ॥

 

 

 

ननु यदि तत्तत्त्वमनाख्यमस्ति तत्कथं बुधैः तस्य तत्त्वस्य "ऋतमात्मे"त्यादिकाः सञ्ज्ञाः कृताः इत्य् । अत्राह

ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः ।

कल्पिता व्यवहारार्थं यस्य सञ्ज्ञा महात्मनः ॥ ३,१.१२ ॥

"बुधैः" तत्साक्षात्कारवद्भिः । "कल्पिताः" कल्पनया भाविताः । "व्यवहारार्थं" शिष्योपदेशाख्यव्यवहारसम्पादनार्थम् । न तु किञ्चित्प्रवृत्तिनिमित्तमुपादाय "ऋता"दिकाः "सञ्ज्ञाः" तत्र प्रवर्तन्ते इति भावः ॥ ३,१.१२ ॥

 

 

ननु ततीदृशं भवतु । किं तत इत्य् । अत्राह

स तथाभूत एवात्मा स्वयमन्य इवोल्लसन् ।

जीवतामुपयातीव भाविनामकदर्थनाम् ॥ ३,१.१३ ॥

"तथाभूत एव" परमार्थतः प्रोक्तात्स्वरूपादप्रच्युत एव । "सः आत्मा" प्रोक्तविशेषणयुक्तं सर्वदा भातत्वेन सातत्यगमनक्रियाकर्तृभूतं चिन्मात्राख्यं तत्त्वम् । "जीवताम्" सातत्यगमनविरुद्धस्वभावप्राणधारणक्रियाकर्तृभूतं जीवभावम् । "उपयातीव" गच्छतीव । "सः" आत्मा किं कुर्वन् । "अन्य इवोल्लसन्" । "स्वयं" स्वविषयतासादनेन स्वव्यतिरिक्तम् । चेत्यरूप इव "उल्लसन्" । स्वपरामर्शनमात्रेणैव हि चिन्मात्रस्य चेत्यरूपो जीवादिभावः भवति । "तथाभूत" इति पदम् "इव"शब्दद्वयस्य योग्यतां कथयति । न हि तथाभूतस्य परमार्थतः अतथाभावो युक्तः । न हि सदा जलभावातप्रच्युतस्य जलस्य तरङ्गतासादनेऽपि परमार्थतः अजलभावो युक्तः । "जीवतां" कथम्भूताम् । "भाविनामकदर्थनाम्" । "भाविनीं" अग्रे । भवनशीला "नामकदर्थना" जीवेति नामरूपा । "कदर्थना" मालिन्यं यस्याः । ताम् । जीवेति नामयोग्यामित्यर्थः । भावित्वं च नाम्नः वैखरीप्रादुर्भावे ज्ञेयम् ॥ ३,१.१३ ॥

 

 

 

अधुना तस्यैव जीवत्वानन्तरभाविनीं मनस्तां कथयति

ततः स जीवशब्दार्थकलनाकुलतां गतः ।

मनो भवति मौनात्म मननान्मन्थरीभवन्  ॥ ३,१.१४ ॥

"ततः" जीवभावानन्तरम् । "सः" आत्मा । "मनः भवति" । कीदृशं "मनः" । "मौनात्म" । सहजस्वरूपविमर्शासामर्थ्यं "मौनं" । तद्रूपं कुतः भवतीत्य् । अत्र हेतुगर्भं विशेषणमाह । "मन्थरीभवन्न्" इति । यतः "मन्थरीभवन्" अलसीभवन् भवति इत्यर्थः । कुतः "मन्थरीभवन्" इत्यपेक्षायामाह । "मननाद्" इति । "मननाज्" जीवत्वमननाख्यात्धर्मात् । मननपरत्वेनैव हि आत्मा स्वपरामर्शं प्रति "मन्थरीभवति" । ततः मनोरूपं भवति । कथम्भूतः "सः" । "जीवशब्दार्थकलनाकुलताम्" । जीवस्य वाचकः शब्दः "जीवशब्दः" । तस्य यः "अर्थः" अणुरूपः जीवः । तस्य यः "कलना "स्वरूपतया परामर्शः । तया या "आकुलता" । "तां गतः" । अयं भावः । सर्वथा चेत्यव्यतिरिक्तस्वरूपं चिन्मात्रं प्रथमं चित्त्वेनाहमिति स्वपरामर्शं करोति । तत्र ग्राहकतया स्थितस्य भागस्य चिदिति नाम । ग्राह्यतया स्थितस्य तु जीवत्वम् । ततः तस्य जीवस्य स्वस्मिनणुत्वपरामर्शो भवति । तदेव च तस्य मनस्त्वमिति ॥ ३,१.१४ ॥

 

 

 

फलितं कथयति

मनः सम्पद्यते तेन महतः परमात्मनः ।

सुस्थिरादस्थिराकारस्तरङ्ग इव वारिधेः ॥ ३,१.१५ ॥

"तेन" ततः हेतोः । "मनः" अणुरूपं चित्तम् । "महतः" व्यापकात् । "परमात्मनः सम्पद्यते" प्रादुर्भवति । क "इव" । "तरङ्ग इव" । यथा "सुस्थिरात्" "वारिधेः" समुद्रात् । "अस्थिराकारः तरङ्गः सम्पद्यते" । तथेत्यर्थः । अत्र च सुस्थिरत्वं तरङ्गापेक्षया ज्ञेयम् ॥ ३,१.१५ ॥

 

 

 

मनसः उत्पत्तिमुक्त्वा तत्कार्यभूतस्य जगतः उत्पत्तिं कथयति

तत्स्वयं स्वैरमेवाशु सङ्कल्पयति नित्यशः ।

तेनेयमिन्द्रजालश्रीर्विततेव वितन्यते ॥ ३,१.१६ ॥

"तत्" परमात्मोक्तं मनः । "स्वयम्" । न तु अन्यत्किञ्चित्मध्येकृत्य । "स्वैरम्" स्वेच्छया । न तु परप्रेरणया । "सङ्कल्पयति" सङ्कल्पं करोति । अतः "तेन" मनसा । "इयम्" अनुभूयमाना । "इन्द्रजालश्रीः" मिथ्याभातत्त्वेन इन्द्रजालवत्भासमानत्वातिन्द्रियजालसम्पद्रूपा सृष्टिः । "वितन्यते" विस्तार्यते । कथम्भूत्"एव" । "विततेव" विस्तीर्णा इव । परमार्थतः अणुस्वरूपे मनसि स्थितत्वात्वैतत्यरहितेत्"ईव"शब्दोपादानम् ॥ ३,१.१६ ॥

 

 

 

परमात्मोत्थान्मनसः सृष्ट्युत्थानकथनफलमाह

यथा कटकशब्दार्थः पृथक्त्वार्होऽस्ति कानके ।

न नाम कटके तद्वज्जगच्छब्दार्थता परे ॥ ३,१.१७ ॥

"यथा कटकशब्दार्थः" कटकशब्दाभिधेयभूतः सन्निवेशविशेषः । "पृथक्त्वार्हः" । अर्थात्कानकात्पृथक्त्वयोग्यः "न" भवति । क्व स्थितस्य कटकशब्दस्यार्थः । "कानके" "कटके" कनकनिर्मिते कटके इत्यर्थः । "तद्वत्परे जगच्छब्दार्थता" भवति । "तद्वद्" इत्यनेन दृष्टान्तगतं सर्वमाक्षिप्यते । तेनायमर्थः । "तद्वत्" तथा । "परे" । अर्थात्प्रोक्तनीत्या जगत्तया स्थिते उत्तीर्णे चिन्मात्रे । स्थितस्य जगच्छब्दस्यार्थः परात्"पृथक्त्वार्हः न" भवति ॥ ३,१.१७ ॥

 

 

 

मूढबुद्धिषु सङ्क्रमणार्थं पुनरप्येतदेव कथयति

ब्रह्मण्येवास्त्यनन्यात्म यथास्थितमिदं जगत् ।

न जगच्छब्दकार्थोऽस्ति हेम्नीव कटकादिता ॥ ३,१.१८ ॥

"यथास्थितम्" अनेन प्रकारेणैव स्थितम् । न त्वन्यं प्रकारमासाद्येति यावत् । "इदं जगत्ब्रह्मणि" बृंहिते चिन्मात्रे । "अनन्यात्म" अनन्यस्वरूपं "अस्ति" । तत्र "जगच्छब्दकार्थः" । "जगच्छब्दकस्य" जगदिति शब्दस्य । "अर्थः" ब्रह्मव्यतिरिक्तपदार्थरचनारूपमभिधेयम् । "न" भवति । तत्तयाभिमतस्य जगतः ब्रह्मत्वसाधनात् । "जगच्छब्दकार्थः" का "इव" । "कटकादिता इव" । यथा "कटकादिता" कटकादिभावः । "हेम्नि नास्ति" । तथेत्यर्थः ॥ ३,१.१८ ॥

 

 

 

असत्त्वसाधिकामत एवोक्तार्थदार्ढ्यकारिणीं मनसः सकाशात्जगदुत्पत्तिमनुवदति

असतैवासती तापनद्येव लहरी चला ।

मनसैवेन्द्रजालश्रीर्जागती प्रवितन्यते ॥ ३,१.१९ ॥

"मनसा एव" । न त्वन्येन केनचित् । "जागती" जगत्सम्बन्धिनी । जगत्स्वरूपेति यावत् । "इन्द्रजालश्रीः" इन्द्रजालसम्पत् । "प्रवितन्यते" । कथम्भूतेन्"ऐव" । "असता" "एव" असत्स्वरूपेणैव । न हि ब्रह्मव्यतिरेकेण मनसः पृथक्सत्ता अस्ति । कथम्भूत्"एन्द्रजालश्रीः" । "असती" स्वकारणभूतमनोवतसत्स्वरूपा । मनसा कय्"एव" । तापे भासमाना नदी "तापनदी" । तया "इव" । यथा असत्या तापनद्या "असती चला लहरी प्रवितन्यते" । तथेत्यर्थः । ननु कथं पूर्वश्लोके कनककटकस्य दृष्टान्तत्वमिह तापनदीलहर्याः इति चेत् । सत्यम् । पूर्वश्लोके जगतः परमार्थतः ब्रह्मरूपत्वकथनार्थं कनककटकस्य दृष्टान्तत्वम् । अस्मिन् श्लोके तु तस्यैवानुपपत्तिनिवारणाय ब्रह्मव्यतिरेकेणासत्त्वकथनार्थं तापनदीलहर्याः दृष्टान्तत्वमित्येकफलसाधकत्वान्न दृष्टान्तद्वयस्य वैषम्यम् । जगतः मनोनिर्माणत्वाभावे हि परमार्थसत्त्वं प्राप्नोति । तथा च भिन्नसत्ताभाजः तस्य ब्रह्मत्वकथनमयुक्तं स्यात् । न हि घटे पटोऽयमिति वक्तुं युक्तम् । इत्यनुपपत्तिनिवारणायास्य श्लोकस्योपन्यासः । इति तदन्तर्गतस्य दृष्टान्तस्यापि तदर्थमेव सः युक्तः ॥ ३,१.१९ ॥

 

 

 

जागतीमिन्द्रजालश्रियं विशिनष्टि

अविद्या संसृतिर्बन्धो माया मोहो महत्तमः ।

कल्पितानीति नामानि यस्याः सकलवेदिभिः ॥ ३,१.२० ॥

"सकलवेदिभिः" सर्वज्ञैः ॥ ३,१.२० ॥

 

 

अधुना प्रोक्तायाः इन्द्रजालश्रियाः सकाशात्मोक्षकाङ्क्षिणं शिष्यं ज्ञात्वा मोक्षस्वरूपनिरूपणं विना शिष्यस्य मोक्षावाप्तिमजानन्मोक्षस्वरूपनिरूपणमपि तद्विरुद्धबन्धस्वरूपज्ञानं विनाशक्यं मन्यमानः तत्स्वरूपनिरूपणं प्रतिजानीते । "बन्धस्ये"ति ।

बन्धस्य तावद्रूपं त्वं कथ्यमानमिदं शृणु ।

ततः स्वरूपं मोक्षस्य ज्ञास्यसीन्दुसमानन ॥ ३,१.२१ ॥

"बन्धस्य" इन्द्रजालश्रीस्वरूपदृश्यासक्तत्वस्य । अनुपादेयबन्धस्वरूपनिरूपणप्रतिज्ञया व्याकुलीभूतं शिष्यं समाश्वासयति "तत" इति । "ततः" बन्धस्वरूपकथनानन्तरम् । "मोक्षस्य" दृश्यनैरपेक्षस्य । हेयनिरूपणानन्तरमुपादेयनिरूपणस्य युक्तत्वादिति भावः ॥ ३,१.२१ ॥

 

 

 

बन्धस्वरूपं कथयति

द्रष्टुर्दृश्यत्वसत्ताङ्ग बन्ध इत्यभिधीयते ।

द्रष्टा दृश्यवशाद्बद्धो दृश्याभावाद्विमुच्यते ॥ ३,१.२२ ॥

हे "अङ्ग" । पण्डितैः "दृश्यसत्ता" दृश्यसद्भावः । "द्रष्टुः" दृशिक्रियाकर्तुः । "बन्धः अभिधीयते" । भावप्रत्ययः पादपूरणार्थः । एतदेवान्वयव्यतिरेकाभ्यामाश्वासयोग्यं करोति "द्रष्टे"ति । "दृश्यवशात्" दृश्यवशेन । दृश्यसत्तावशेनेति यावत् । "दृश्याभावात्" दृश्यासत्तया । विषयस्य भावे विषयिणोऽपि भावात् । तदभावे तस्याप्यभावातिति हेतुद्वयं वाक्यद्वये स्वयं योज्यम् ॥ ३,१.२२ ॥

 

 

तत्र दृश्यस्वरूपं कथयति

जगत्त्वमहमित्यादि सर्गात्मा दृश्यमुच्यते ।

यावदेतत्सम्भवति तावन्मोक्षो न विद्यते ॥ ३,१.२३ ॥

"जगत्" बन्धहेतुः दृश्यप्रपञ्चः । "त्वम्" ततो मोक्षाकाङ्क्षी शिष्यः । "अहम्" इत्युपदेष्टा । "आदि"शब्देन मोक्षस्य ग्रहणम् । तस्यापि दृश्यत्वानपायात् । पण्डितैः "जगत्त्वमहमित्यादि दृश्यम्" दृशिक्रियाकर्म्"ओच्यते" । कुत इत्याकाङ्क्षायां विशेषणद्वारेण हेतुं कथयति । "सर्गात्मे"ति । सृज्यमानस्वरूप इत्यर्थः । सृज्यमानस्य च दृश्यत्वं स्फुटमेव दर्शनपूर्वकत्वात् । सर्जनस्य च दर्शनपूर्वकत्वं "तदैक्षते"त्यादिश्रुतिसामर्थ्यात्ज्ञेयम् । अस्य बन्धहेतुत्वमनुवदति । "यावद्" इति । "यावतेतत्" इदं जगदादिदृश्यम् । "सम्भवति" सत्तायुक्तं भवति । "तावत्मोक्षः न विद्यते" । बन्धनिमित्तस्य स्थितत्वात् । सत्तामात्रेणैव च दृश्यस्य बन्धनिमित्तत्वस्वभावत्वात् ॥ ३,१.२३ ॥

 

 

 

नेदमिति वचनकथनमात्रेणैव शान्तदृश्यत्वाभिमानयुक्तं शिष्यं प्रति आह

नेदं नेदमिति व्यर्थैः प्रलापैर्नोपशाम्यति ।

सङ्कल्पजनकैर्दृश्यव्याधिः प्रत्युत वर्धते ॥ ३,१.२४ ॥

"इदम्" अनुभूयमानम् । "इदं" दृश्यम् । "न" भवति । "इदं" दृश्यं "न" भवति "इति" एवंरूपेण स्थितैः "व्यर्थैः" दृश्यशान्त्याख्यफलरहितैः । तथा "सङ्कल्पजनकैः" निषेधाख्यसङ्कल्पोत्पादकैः । "प्रलापैः" उन्मत्तप्रलापैः । "दृश्यव्याधिः" दृश्याख्यो रोगः । "नोपशाम्यति" निषेधरूपतया स्थितत्वात् । "प्रत्युत वर्धते" वृद्धिं याति । निषेधाख्यसङ्कल्पवर्धकत्वात् । ननु कथं निषेधस्य दृश्यत्वम् । सत्यम् । द्रष्टृविषयत्वात्निषेधोऽपि हि द्रष्टुः स्वतः भिन्नतया भाति ॥ ३,१.२४ ॥

 

 

 

ननु "नेदम्" इति वचनमात्रेण दृश्यशान्तिः मा भवतु । तर्कादिभिः तच्छान्तिं साधयामः इत्य् । अत्राह

न च तर्कभरक्षोदैर्न तीर्थनियमादिभिः ।

सतो दृश्यस्य जगतो यस्मादेते विचारकाः ॥ ३,१.२५ ॥

"तर्कभराणां" भेदप्रधानत्वेन दृश्यसत्यत्वापादकानां तर्कसमूहानाम् । ये "क्षोदाः" विचारणानि । तैः "दृश्यव्याधिः नोपशाम्यति" । तथा "तीर्थनियमादिभिः दृश्यव्याधिः नोपशाम्यति" । यतः "एते" "तर्कभरा"दयः "दृश्यस्य" "जगतः" "सतः विचारकाः" सत्यत्वविचारका भवन्ति । तत्र तर्काणां साक्षादेव पदार्थसाधकत्वम् । तीर्थादीनां तु स्वर्गादिफलनिष्ठत्वात् । न ह्यसत्यनिष्ठत्वं युक्तम् ॥ ३,१.२५ ॥

 

 

 

ननु तर्काः सदपि जगत्पर्यन्ते भागतः अनित्यत्वेन कथयन्तीति तेषामपि भागतः दृश्यशान्त्युपपादकत्वमस्त्येवेत्य् । अत्राह

जगद्दृश्यं तु यद्यस्ति न शाम्यत्येव तत्क्वचित् ।

नासतो विद्यते भावो नाभावो विद्यते सतः  ॥ ३,१.२६ ॥

"दृश्यम्" दृशिक्रियाविषयीभूतम् । "जगत्" नश्वरस्वभावं भावजातम् । "यद्यस्ति" यदि परमार्थसत्भवति । "तत्" तदा । "क्वचित्" कुत्रापि देशे काले वा । "न शाम्यति" शान्तिं न व्रजति । यतः "असतः" अस्तिक्रियाकर्तृत्वमभजतः । "भावः" सत्ता । "न" भवति । तथा "सतः" अस्तिक्रियाकर्तृत्वं भजतः । "अभावः" असत्ता । "ना"स्ति । स्वरूपहानिप्रसङ्गादिति भावः ॥ ३,१.२६ ॥

 

 

 

दृश्यपरमार्थसत्त्वे दोषमाह

अचेत्यचित्स्वरूपात्मा यत्र यत्रैष तिष्ठति ।

द्रष्टा तत्रास्य दृश्यश्रीः समुदेत्यप्यणूदरे ॥ ३,१.२७ ॥

चिता स्वयमाविर्भाव्यस्वविषयीकृतं भावजातं "चेत्यं" । अविद्यमानं चेत्यं यस्याम् । सा "अचेत्या" । प्रोक्तस्वरूपचेत्यव्यतिरिक्तेति यावत् । तादृशी या "चित्" । तत्"स्वरूपः" तन्मयः । "आत्मा" स्वरूपं यस्य । सः "अचेत्यचित्स्वरूपात्मा" । "यत्र यत्र" यस्मिन् यस्मिन् देशे । यस्यां यस्यामवस्थायामिति यावत् । "तिष्ठति" । "अणूदरेऽपि" परमसूक्ष्मोदरेऽपि । "तत्र" तस्मिन् देशे । "अस्य" द्रष्टुः । "दृश्यश्रीः समुदेति" प्रादुर्भवति । ननु तादृशे सूक्ष्मतरे देशेऽर्मे कथमेतादृशस्य प्रपञ्चस्यावस्थानं सम्भवति । सत्यम् । स्थूलदृश्यसंस्कारोत्पादितया स्मृत्या तत्र तस्य प्रादुर्भावः सिध्यत्येव []त्वात् ॥ ३,१.२७ ॥

 

 

 

अथ तपोध्यानादिभिः सत्यदृश्यशान्त्यभिमानग्रस्तान् प्रति कथयति

द्रष्टुरस्ति जगद्दृश्यं तत्प्रमृष्टमिदं मया ।

त्यक्तं तपोध्यानजपैरिति काञ्चिकतृप्तिवत् ॥ ३,१.२८ ॥

"द्रष्टुः" दृशिक्रियाकर्तुः । "जगत्दृश्यम्" स्वभिन्नतया दृशिक्रियाविषयो भवति । "तत्" जगद्रूपं दृश्यम् । "मया तपोध्यानजपैः त्यक्तम्" शान्तिं नीतम् । "इति" एतत् । "काञ्चिकतृप्तिवत्" काञ्चिकद्रव्येण मम तृप्तिर्जातेति वचनवत्भवति । यथा तृप्त्यर्थं भक्षितेन काञ्चिकद्रव्येण प्रत्युत क्षुतेव जायते । तथा स्वभिन्नदेवताराधनार्थमनुष्ठितैः तपःप्रभृतिभिः अपि दृश्यवृद्धिरेव जायते इति भावः ॥ ३,१.२८ ॥

 

 

 

ननु दृश्यं सत्यं भवतु । मोक्षावस्थायां दृश्यान्निर्गतस्यात एव विशेषगुणासंवेदनपात्रतां गतस्यातिसूक्ष्मस्य जीवस्येदं दृश्यं किं करोति । न हि सुप्तस्य बाह्यजगत्कृतं व्याकुलत्वं दृश्यते इत्य् । अत्राह

यदि नाम जगद्दृश्यमस्ति तत्प्रतिबिम्बति ।

परमाणूदरेऽप्यस्मिंश्चिदादर्शे न संशयः ॥ ३,१.२९ ॥

"जगत्" नश्वरं दृश्यजातम् । "यदि नामास्ति" यदि नाम परमार्थसत्भवति । "तदा" "परमाणूदरे" "ऽपि" अतिसूक्ष्ममध्येऽपि । "अस्मिन्" आत्मत्वेन स्थिते । "चिदादर्शे" चिन्मकुरे । "प्रतिबिम्बति" प्रतिबिम्बत्वेन सङ्क्रामति ॥ ३,१.२९ ॥

 

 

 

कथमेतदित्य् । अत्राह

यत्र तत्र स्थितं राम यथादर्शे प्रबिम्बति ।

अद्रिद्यूर्वीनदीशादि चिदादर्शे तथैव हि ॥ ३,१.३० ॥

हे "राम" । "हि" यस्मात्कारणात् । "यथा" "यत्र तत्र" "स्थितं" वस्तु । "आदर्शे प्रबिम्बति" प्रतिबिम्बति । "तथैव" तद्वतेव । "अद्रिद्यूर्वीनदीशादि" अद्रयश्च द्यौश्च ऊर्वी च "नदीशाः" समुद्राश्च । ते "अद्रिद्यूर्वीनदीशाः" । ते "आदिः" यस्य जगतः । तत्"अद्रिद्यूर्वीनदीशादि" । तादृशं जगत् । "चिदादर्शे" चिन्मकुरे । प्रतिबिम्बति । स्वभावस्य त्यक्तुमशक्यत्वात् । अयं भावः । स्फुरत्ता एव हि सत्ता भवति । सा चेद्दृश्ये परमार्थतः अस्ति तदा स्फुरत्तामात्रमयी चिन्मात्रत्वात् । सा स्वस्फुरत्तात्वतः कदापि न व्यतिरिक्ता भवेतिति कदापि चिदादर्शः दृश्यप्रतिबिम्बरहितो न भवेतिति ॥ ३,१.३० ॥

 

 

 

तथा च मोक्षाभावप्रसङ्ग इत्यभिप्रायेणाह

ततस्तत्र पुनर्दुःखं जरा मरणजन्मनी ।

भावाभावग्रहोत्सर्गाः स्थूलसूक्ष्मचलाचलाः ॥ ३,१.३१ ॥

"ततः" यदि चिदादर्शः दृश्यसद्भावेन पुनः पुनः प्रतिबिम्बयुक्तो भवेत् । तदा "तत्र" तस्मिन् चिन्मात्रे । "पुनः दुःखं" भवेत् । तथा "जरा" भवेत् । तद्वत्"मरणजन्मनी" भवेताम् । तथा "भावाभावग्रहोत्सर्गाः" प्रादुर्भावनाशादानत्यागाः भवेयुः । संसारस्यैतत्स्वरूपत्वात् । दुःखादयः कथम्भूताः । "स्थूलसूक्ष्मचलाचलाः" । तत्र जाग्रत्कालीनानां स्थूलत्वमचलत्वं च । स्वप्नकालीनानां सूक्ष्मत्वं चलत्वं चेति विभागः । सुषुप्तौ दुःखादिभानाभावात् । तथा च स्थूलसूक्ष्मदुःखादिरूपसंसारग्रस्तत्वेन जीवस्य कदापि मुक्तिः न स्यादिति भावः ॥ ३,१.३१ ॥

 

 

ननु भवतु दृश्यं परमार्थसत् । तथापि समाधिपराणामनर्थमुत्पादयितुं कास्य शक्तिरित्य् । अत्राह

इदं प्रमार्जितं दृश्यं मया नात्राहमास्थितः ।

एतदेवाक्षयं बीजं समाधौ संसृतिस्मृतेः ॥ ३,१.३२ ॥

"मया इदं दृश्यं प्रमार्जितम्" समाध्युपायेन नाशितम् । यतः "अहमत्र आस्थितः" आस्थायुक्तः "ना"स्मि । "एतदेव" पूर्वार्धोक्तं वस्तु एव । "समाधौ" दृश्योपरमस्वरूपे समाधाने । "संसृतिस्मृतेः" दृश्यस्मृतेः । "अक्षयं बीजं" स्यात् । संसृतिविषयस्य दृश्यस्य संसृतिशब्दवाच्यत्वं लक्षणया ज्ञेयम् । अयं भावः । समाधिपरिणतस्य दृश्यप्रमार्जनं तदनास्था च सिद्धत्वेन स्फुरति न वा । न चेत्तदा सम्पन्नमप्येतद्द्वयमसदेव । स्फुरत्तायाः एव परमार्थतः सत्तास्वरूपत्वात् । स्फुरति चेत्तदास्थिता एव संसृतिस्मृतिः । तद्बीजस्य स्फुरणस्य स्थितत्वात् । ननु त्वदभिमते दृश्यात्यन्ताभावेऽपि अयं दोषः प्रसजति । स्फुरति चेत्दृश्यात्यन्ताभावः तत्स्थितमेव दृश्यम् । स्फुरणाख्यस्य बीजस्य स्थितत्वात् । न चेत्तदसन्नेव दृश्यात्यन्ताभावः । इति चेन् । न । न हि दृश्यात्यन्ताभाववादिनः सर्वोपरमस्वरूपः समाधिः दृश्यात्यन्ताभावतया अभिप्रेतः येन प्रोक्तदोषप्रसङ्गः स्यात् । किं तु दृश्यात्यन्ताभावनिश्चयमात्रमेव तस्योपयोगि । न हि रज्जुसर्पनिवारणार्थं मन्त्रपठनं युक्तम् । अपि तु नायं सर्प इति सर्पात्यन्ताभावनिश्चयमात्रस्यैव तत्रोपयोगः । अत्यन्ताभावनिश्चयश्च गुरुशास्त्रसङ्गोद्भूतेनाधिष्ठानभूतचिन्मात्रविज्ञानेनैव सिध्यति । न पाषाणभावापादकैः समाधिभिरित्यलं प्रपञ्चेन ॥ ३,१.३२ ॥

 

 

 

न केवलं जगत्सत्यत्ववाच्यभ्युपगतदृश्योपरमस्वरूपस्य समाधेः दृश्यबीजधारत्वमात्रमेवास्त्य् । अपि तु कार्यकरणे असामर्थ्यमप्यस्तीत्यभिप्रायेणाह

सति त्वस्मिञ्जगद्दृश्ये निर्विकल्पसमाधिना ।

न चाक्षयसुषुप्तत्वं तुर्यं वाप्युपपद्यते ॥ ३,१.३३ ॥

"तु" पक्षान्तरे । "अस्मिन् जगद्दृश्ये" जगत्स्वरूपे दृश्ये "सति" । "सति" परमार्थसति सति । "निर्विकल्पसमाधिना" सर्वोपरमस्वरूपेण समाधानेन । "अक्षयसुषुप्तत्वं तुर्यं वापि नोपपद्यते" न सिध्यति । "अक्षयसुषुप्तत्वं" विदेहमुक्तगोचरा तुर्यातीतावस्था । "तुर्यं" जीवन्मुक्तगोचरा तुर्यावस्था ॥ ३,१.३३ ॥

 

 

 

अनुपपत्तिमेव साधयति

व्युत्थाने हि समाधीनां सुषुप्तान्त इवाखिलम् ।

जगद्दुःखमिदं भाति यथास्थितमखण्डितम् ॥ ३,१.३४ ॥

"हि" यस्मात्कारणात् । "समाधीनां व्युत्थाने" अवश्यभाविनि समाधिभ्यः व्युत्थाने । समाधेः व्युत्थानावस्थायामिति यावत् । "यथास्थितम्" पूर्ववत्स्थितम् । अत एव "अखण्डितम्" केनाप्यंशेन न न्यूनम् । "अखिलं" समस्तम् । "इदं जगद्दुःखं भाति" स्फुरति । कस्मिन्न् "इव" । "सुषुप्तान्त इव" । अयं भावः । यथा रात्रौ सुषुप्तिं गतस्यात एव विस्मृतसमस्तजगत्प्रपञ्चस्य ततः प्रभाते प्रबुद्धस्य पुरुषस्य पुनः अपि पूर्ववत्जगत्प्रपञ्चः स्फुरति । तथा येन तेनोपायेन सर्वोपरमस्वरूपसमाधिं गतस्य पुरुषस्यावश्यम्भाविनि व्युत्थानसमये पुनरपि पूर्ववत्जगत्प्रपञ्चः अवश्यं स्फुरत्येव । अन्यथा अस्मदभिमतात्यन्ताभावप्रसङ्गात् । तथा च मातुलानीभक्षणवत्क्षणमात्रं जगदुपरमसाधकेन समाधिना सर्वदा जगदभावस्वरूपस्य तुर्यस्य तदतीतस्य च सिद्धिर्न युक्तेति ॥ ३,१.३४ ॥

 

 

 

एतेनायातां समाधेः निष्फलतां कथयति

प्राप्तं भवति हे राम तत्किं नाम समाधिभिः ।

भूयोऽनर्थनिपातेऽपि क्षणसाम्ये हि किं सुखम् ॥ ३,१.३५ ॥

"किं नाम प्राप्तं भवति" । किञ्चिदपि प्राप्तं न भवतीत्यर्थः । कथमेतदित्यत्राह "भूय" इति । "हि" यस्मात् । "भूयोऽनर्थपाते" । "भूयः अनर्थनिपातः" भेदरूपानर्थनिपातः । यस्मिन् । तादृशे "क्षणसाम्येऽपि" क्षणं स्फुरणशीलायां समतायामपि । "किं सुखं" भवति । यतः क्षणभातं साम्यं सुखदं न भवति । ततः तत्प्राप्त्यापि किञ्चित्प्राप्तं न भवतीति भावः । "अपि"शब्दः साम्यस्य असन्दिग्धं सुखास्पदत्वं द्योतयति ॥ ३,१.३५ ॥

 

 

ननु समाधौ सततं लीनस्य व्युत्थानाभावेन कथं भूयः जरादुःखप्रादुर्भावः स्यादित्य् । अत्राह

यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् ।

तदक्षयसुषुप्ताभं तन्मन्ये नामलं पदम्  ॥ ३,१.३६ ॥

पुरुषः "निर्विकल्पे समाधाने" निर्विकल्पसमाधौ । "स्थितिं" सततं लीनताम् । "यदि वा व्रजेत्" यदि वा गच्छेत् । अहं "मन्ये" । "तत्" तदापि । "तत्" निर्विकल्पसमाधानम् । "अमलं पदम्" जाड्यमलरहितं शुद्धचिन्मात्राख्यं महास्थानम् । "न" भवति । दृश्यदर्शनासामर्थ्यरूपस्य जाड्याख्यस्य मलस्य सुप्तिवत्स्थितत्वात् । "तत्" कथम्भूतम् । "अक्षयसुषुप्ताभम्" तुर्यातीतावस्थावत्भासमानम् । न तु तत्स्वरूपम् । कालान्तरेऽवश्यम्भाविनः व्युत्थानस्य स्थितत्वात् । न च तुर्यातीतावस्थायाः व्युत्थानं कदापि सम्भवति । चिन्मात्रे अत्यन्तलयीभावात् ॥ ३,१.३६ ॥

 

 

 

दृश्यसत्यत्ववादिनः निर्विकल्पसमाधिरेव न सम्भवति । स्थितिव्रजनस्य तु का कथेत्यभिप्रायेणाह

प्राप्यते सति दृश्येऽस्मिन्न च तन्नाम केनचित् ।

यत्र तत्र किलायाति चित्तभ्रान्त्या जगद्भ्रमः ॥ ३,१.३७ ॥

"नाम" निश्चये । "अस्मिन्" अनुभूयमाने जगति "सति" । "सति" परमार्थे सति । "केनचित्" केनापि पुरुषेण । "तत्" निर्विकल्पसमाधानम् । "न प्राप्यते" । यतः "यत्र तत्र" स्थितस्यापि समाधिदेशे तदितरदेशे वा स्थितस्य पुरुषस्य । "चित्तभ्रान्त्या" । चित्ते स्थिता "भ्रान्तिः" जगत्सत्यत्वभ्रमः "चित्तभ्रान्तिः" । तया "जगद्भ्रमः" । "किल" निश्चये । "आयाति" । अयं भावः । यथा दृश्यसत्यतायां निश्चितः पुरुषः रात्रौ सुप्तोऽपि दृश्यं पश्यत्येव । तथा समाधिं गतोऽपि पश्येदेव समानन्यायत्वात् । तथा च दृश्यसत्यत्ववादिनः निर्विकल्पसमाधिरेव न सम्भवति । तत्र स्थितिव्रजनस्य तु का कथेति ॥ ३,१.३७ ॥

 

 

ननु दृश्यसत्यत्वे निश्चितस्यापि यथा तथा प्रयुक्तेन धारणोपायेन न किञ्चिद्भानरूपो निर्विकल्पसमाधिः सिध्यत्येवेत्य् । अत्राह

द्रष्टाथ यदि पाषाणरूपतां भावयन् बलात् ।

किलास्ते तत्तदन्तेऽपि भूयोऽस्योदेति दृश्यता ॥ ३,१.३८ ॥

"द्रष्टा" प्रमाता । "यदि बलात्" केनापि हठप्रयोगेन । "पाषाणरूपतां भावयनास्ते" तिष्ठति । "तदपि" तदापि । "अस्य" स्वस्मिन् पाषाणभावं भावयतः द्रष्टुः । "तदन्ते" अवश्यभाविनि पाषाणभावान्ते । "दृष्यता" पटादिविषयः दृश्यभावः । "उदेति" स्फुरति । न हि जीवतः सर्वदा पाषाणभावभावनं शक्यम् । तथा च दृश्यत्वे निश्चितस्य स्थिरः निर्विकल्पसमाधिः न सिध्यत्येवेति भावः ॥ ३,१.३८ ॥

 

 

 

पाषाणरूपतागमनस्यासम्भवं कथयति

न च पाषाणतातुल्या निर्विकल्पसमाधयः ।

केषाञ्चित्स्थितिमायान्ति सर्वैरित्यनुभूयते ॥ ३,१.३९ ॥

पाषाणतायाः तुल्याः "पाषाणतातुल्याः" । विकल्परहिता इत्यर्थः । पाषाणताभावनमेव तस्य द्रष्टुः पाषाणभावं नाशयति । न हि पाषाणः स्वं पाषाणत्वं भावयितुं शक्नोतीति भावः ॥ ३,१.३९ ॥

 

 

 

यथातथासिद्धस्यापि पाषाणभावस्य न परमपदत्वं युक्तं जडत्वानपायाद् । इति कथयति

न च पाषाणतातुल्या रूढिं याताः समाधयः ।

भवन्त्यग्र्यं पदं शान्तं चिद्रूपमजमव्ययम् ॥ ३,१.४० ॥

"रूढिं" परिणामम् । अयं भावः । दृश्यदर्शनासामर्थ्येन जडत्वानपायात्पाषाणभावस्य चिन्मात्रत्वमयुक्तम् । चिन्मात्रं हि सर्वदा चेत्यचेतनसमर्थमेव भवति । स्वातन्त्र्येण तु यदि कदाचित्तच्चेतनं न करोति तेन नास्य जाड्यापातः । न हि शक्तः पुरुषः स्वातन्त्र्येण कार्यमकुर्वनशक्त इति वक्तुं युज्यते इति ॥ ३,१.४० ॥

 

 

पूर्वोक्तमुपसंहरति

तस्माद्यदीदं सद्दृश्यं तन्न शाम्येत्कदाचन ।

शाम्येत्तपोजपध्यानैर्दृढमित्यज्ञकल्पना ॥ ३,१.४१ ॥