मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः ३

विकिस्रोतः तः
← सर्गः २ मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः ४ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



... यत्वेन परबोधत्वायोगात् । तदेव "निर्वाणमात्रम्" एव । "चित्तमात्रं" पद्मजभावेन स्थितं शुद्धं चित्तम् । "आस्ते" । "तत्" चित्तमात्रम् । "वसुधादिताम्" परमार्थसन्तं पृथ्व्यादिभावम् । "न याति" । निर्वाणस्वरूपशुद्धबोधमयत्वात् । अत एव पद्मजस्य आधिभौतिकदेहाभाव इति भावः ॥ ३,३.१३ ॥

 

 

 

ननु प्रतिजीवं मनोभेदस्य स्थितत्वान्नानाविधानि मनांसि सन्ति । तत्कथं पद्मजरूपात्मनसः एव जगदुत्पत्तिः उक्तेत्य् । अत्राह

सर्वेषां भूतमनसां संसारव्यवहारिणाम् ।

प्रथमोऽसौ प्रतिच्छन्दश्चित्तदेहः स्वतोदयः ॥ ३,३.१४ ॥

संसारे व्यवहरन्तीति तादृशानां "सर्वेषां भूतमनसां" मध्ये । "असौ" पद्मजः । "प्रथमः प्रतिच्छन्दः" भाविमनःसृष्टिकारणं प्रथमं प्रतिभानं भवति । चिन्मात्रस्येति शेषः । "असौ" कथम्भूतः । "चित्तदेहः" शुद्धमनोरूपः । पुनः कथम्भूतः । "स्वतोदयः" । "स्वतया" स्वभावेन । न तु अन्यतया । "उदयः" नवीनः प्रादुर्भावः यस्य । सः । उदयानन्तरमपि पूर्वभावेनैव स्थित इत्यर्थः । अत एव अस्मादेवोत्पत्तिकथनमिति भावः ॥ ३,३.१४ ॥

 

 

प्रथमप्रतिच्छन्दत्वमस्य साधयति

अस्मात्पूर्वात्प्रतिच्छन्दादनन्यैतत्स्वरूपिणी ।

इयं प्रविसृता सृष्टिः स्पन्ददृष्टिरिवानिलात् ॥ ३,३.१५ ॥

"अस्मात्" पद्मजाख्यात् । "पूर्वात्" प्रथमात् । "प्रतिच्छन्दात्" । "इयम्" अनुभूयमाना । "सृष्टिः" । "प्रविसृता" प्रसारं गता । कथम्भूता । "अनन्या" एतस्मादव्यतिरिक्ता । अत एव "एतत्स्वरूपिणी" एतन्मयी । का "इव" । "स्पन्ददृष्टिरिव" । यथा स्पन्दरूपा दृष्टिः । स्पन्द इति यावत् । "अनिलात्" प्रविसृता भवति । तथेत्यर्थः । अतोऽस्यैव प्रथमप्रतिच्छन्दत्वं युक्तमिति भावः ॥ ३,३.१५ ॥

 

 

उपसंहारं करोति

प्रतिभानाकृतेरस्मात्प्रतिभामात्ररूपधृत् ।

विभात्येवमयं सर्गः सत्यानुभववत्स्थितः ॥ ३,३.१६ ॥

"एवं" सति । "प्रतिभानाकृतेः" प्रतिभानस्वरूपात् । "अस्मात्" पद्मजात् । "अयं सर्गः" इदं सृजिक्रियाविषयो दृश्यमण्डलम् । "प्रतिभामात्ररूपधृत्" एव प्रतिभानमात्ररूपधारी एव । न तु स्थूलभूतमयरूपधारी । "विभाति" स्फुरति । न हि द्रवगुणयुक्तात्जलात्द्रवगुणरहितः तरङ्गः उत्पद्यते । "अयं सर्गः" कथम्भूतः । "स्थितः" । कथम् । "सत्यानुभववत्" सत्यः अनुभवः यस्य । सः "सत्यानुभवः" । स इव तद्"वत्" । परमार्थतस्तु स्वप्नवत्प्रतिभानमात्रमेवेति "वत्"इग्रहणम् ॥ ३,३.१६ ॥

 

 

अत्र दृष्टान्तद्वयं कथयति

दृष्टान्तोऽत्र स्वप्नपुरं स्वप्नस्त्रीसुरतं तथा ।

असदप्यर्थसम्पत्त्या सत्यानुभवभास्वरम्  ॥ ३,३.१७ ॥

"अत्रा"स्मिन् स्थाने । सर्गस्य प्रतिभानमात्ररूपतायामिति यावत् । "स्वप्नपुरं" स्वप्नदृष्टं पुरम् । "तथा" तद्वत् । "स्वप्नस्त्रीसुरतं" स्वप्नदृष्टस्त्रीसुरतम् । "दृष्टान्तः" भवति । कथम्भूतम् । "असदपि" प्रतीतिमात्रसारत्वेनासत्स्वरूपमपि । "अर्थसम्पत्त्या" अर्थक्रियासम्पादनेन । "सत्यानुभवभास्वरम्" सत्यानुभवयुक्तवस्तुवत्भासनशीलम् ॥ ३,३.१७ ॥

 

 

 

पद्मजस्य देहाभावेऽपि देहभानं कथयति

अपृथ्व्यादिमयो भाति व्योमाकृतिरदेहकः ।

सदेह इव भूतेशः स्वात्मभूः पुरुषाकृतिः ॥ ३,३.१८ ॥

"अपृथ्व्यादिमयः" पृथ्व्यादिव्यतिरिक्तस्वरूपः । अत एव "व्योमाकृतिः" आकाशाकृतिः । अत एव च "अदेहः" आधिभौतिकदेहरहितः । "स्वात्मभूः" पद्मजः । "सदेह इव भाति" स्फुरति । सदेहकार्यनानाविधप्रपञ्चकर्तृत्वात् । "स्वात्मभूः" कथम्भूतः । "भूतेशः" सर्वभूतोत्पादकत्वेन सर्वभूतस्वामी । पुनः कथम्भूतः । "पुरुषाकृतिः" पुरुषवताकृतिः यस्य । सः तादृशः । अन्यथा शास्त्रेषु चतुर्मुखत्वकल्पनां न कुर्यादित्यर्थः ॥ ३,३.१८ ॥

 

 

अस्योदयशान्ती तदभावं च कथयति

स चित्सङ्कल्परूपत्वादुदेत्यप्यथ शाम्यति ।

स्वायत्तत्वात्स्वभावस्य नोदेति न च शाम्यति ॥ ३,३.१९ ॥

"चित्" परमार्थतः चित्स्वरूपः । "सः" पद्मजः । "सङ्कल्परूपत्वात्" चिन्मात्राश्रयस्वपरामर्शस्वरूपसङ्कल्परूपत्वेन्"ओदेति" प्रादुर्भवति । "अथ" उदयानन्तरम् । उप"शाम्यत्य्" "अपि" शान्तिं व्रजति च । सङ्कल्पस्योदयशान्तिनियताधारत्वात् । तथा "सः" पद्मजः । "स्वभावस्य" चिन्मात्राख्यस्य स्वरूपस्य । "स्वायत्तत्वात्" तदेवाहमिति परामर्शविषयत्वात् । "न उदेति न च शाम्यति" । न हि स्वभावापरपर्यायस्य सदाभातस्य चिन्मात्रस्योदयशान्ती युक्ते इति । तत्र स्वात्मत्वे निश्चितस्य तत्स्वरूपस्य च पद्मजस्यापि ते न युक्ते इति भावः ॥ ३,३.१९ ॥

 

 

 

अथास्यैव जगत्कारणत्वं कथयति

ब्रह्मा सङ्कल्परहितः पृथ्व्यादिरहिताकृतिः ।

केवलश्चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः ॥ ३,३.२० ॥

"सङ्कल्परहितः" आतिवाहिकदेहरहितः । तथा "पृथ्व्यादिरहिताकृतिः" स्थूलदेहरहितः । अत एव "केवलः" अद्वितीयः । चिन्मात्ररूप इति यावत् । तथात्वेऽपि "चित्तमात्रात्मा" शुद्धसङ्कल्परूपशुद्धचित्तस्वरूपः । "ब्रह्मा" पद्मजः । "त्रिजगत्स्थितेः" त्रिजगत्सत्तायाः । "कारणम्" भवति ॥ ३,३.२० ॥

 

 

 

ननु अद्वितीयाच्चिन्मात्रात्कस्य प्रेरणया शुद्धमनोरूपः पद्मजः उत्तिष्ठतीत्य् । अत्राह

सङ्कल्प एष कचति यथा नाम स्वसम्भवः ।

व्योमात्मैष तथा भाति भवत्सङ्कल्पशैलवत् ॥ ३,३.२१ ॥

"नाम" निश्चये । "यथा एषः" सर्वैः अनुभूयमानः "सङ्कल्पः" । "स्वसम्भवः" स्वोत्थः । न तु परसम्भवः । "कचति" स्फुरति । "तथा एषः" शुद्धमनोरूपः पद्मजः "स्वसम्भवः" । "भाति" स्फुरति । कथम् । "भवत्सङ्कल्पशैलवत्" । सङ्कल्पे दृष्टः शैलः "सङ्कल्पशैलः" । भवतः सङ्कल्पशैलः "भवत्सङ्कल्पशैलः" । स इव "भवत्सङ्कल्पशैलवत्" । यथा भवतः सङ्कल्पशैलः स्वसम्भवः भाति । तथेत्यर्थः । सङ्कल्पस्य च स्वतः स्फुरणं सर्वेषु प्रसिद्धमेवेति । स एव सामान्यविशेषभावाभ्यां द्विरुपमानत्वेनोपात्तः ॥ ३,३.२१ ॥

 

 

अस्य पद्मजस्याधिभौतिकदेहराहित्यं त्रिभिः श्लोकैः सहेतुकं कथयति

आतिवाहिकतैकान्तविस्मृत्या दृढरूढया ।

आधिभौतिकता येन मुधा भाति पिशाचवत् ॥ ३,३.२२ ॥

इदम्प्रथमतोद्योगसम्प्रबुद्धमहाचितेः ।

नोदेति शुद्धसंवित्त्वादातिवाहिकविस्मृतिः ॥ ३,३.२३ ॥

 

 

 

आधिभौतिकता तेन नास्योदेति पिशाचिका ।

असत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा ॥ ३,३.२४ ॥

"येन" यतः हेतोः । "दृढरूढया" प्रौढिं गतया । "आतिवाहिकतैकान्तविस्मृत्या" । "आतिवाहिकतायाः" आतिवाहिकभावस्य । सूक्ष्मताया इति यावत् । या "एकान्तविस्मृतिः" अत्यन्तविस्मरणम् । तया । "आधिभौतिकता" आधिभौतिकभावः । स्थूलता इति यावत् । "पिशाचवत्मुधा" असत्यम् । "भाति" स्फुरति । अशुद्धस्य मनसः इति शेषः । "तेन" ततः कारणात् । "अस्य" शुद्धमनोरूपस्य पद्मजस्य । "पिशाचिका" मिथ्याभूतपिशाचरूपा । "आधिभौतिकता" आधिभौतिकभावः । स्थूलभाव इति यावत् । "न" "भाति" न स्फुरति । "आधिभौतिकता" कथम्भूता । "जाड्यस्य" जडतायाः । "भ्रमं" वैपुल्यम् । "प्र"कर्षेण द"दा"तीति तादृशी । आधिभौतिकतासादनेन हि मनसः जाड्यमधिकीभवति । "आधिभौतिकता" पुनः कथम्भूता । "असत्या" असत्यं भातेत्यर्थः । का "इव" । "मृगतृष्णा इव" । यथा मृगतृष्णा असत्या भवति । तथेत्यर्थः । ननु आधिभौतिकता आतिवाहिकताविस्मृतिकारणिका भवतु । कथं सा तेन शुद्धमनोरूपे पद्मजे न भवतीत्य् । अत्र श्लोकत्रयमध्यगं द्वितीयं श्लोकं समर्थकत्वेन कथयति "इदम्" इति । "इदम्प्रथमतया" तत्पूर्वम् । यः "उद्योगः" स्वपरामर्शं प्रति आभिमुख्यम् । तेन "सम्प्रबुद्धा" स्वपरामर्शयुक्ता । या "महाचितिः" चिन्मात्रम् । तस्य । तत्स्वरूपस्येति यावत् । "अस्य" शुद्धमनोरूपस्य पद्मजस्य । "शुद्धसंवित्त्वात्" भेदमलारूषितसंविद्युक्तत्वेन । "आतिवाहिकविस्मृतिः" भावप्रधाननिर्देशाश्रयणेन आतिवाहिकताविस्मरणम् । "नोदेति" न स्फुरति । अत एवास्यातिवाहिकताविस्मृतिकारणिका आधिभौतिकता न भवतीति भावः । दृष्टं हि स्वमेव भेदरूषितसंविदः अशुद्धस्य मनस एव स्थूलपुरादिभावेन

भानमिति नात्रायस्तम् ॥ ३,३.२२२४ ॥

 

 

 

पद्मजस्य मनोमात्ररूपत्वेन तत्कार्यस्य जगतोऽपि मनोमात्ररूपत्वं योग्यतया अतिदिशति

मनोमात्रं यदा ब्रह्मा न पृथ्व्यादिमयात्मकः ।

मनोमात्रमतो विश्वं यद्यतस्तत्तदेव हि ॥ ३,३.२५ ॥

"यदे"ति यत इत्यस्यार्थे । "यदा" यतः । "ब्रह्मा" पद्मजः । मनोमात्रं" शुद्धमनोमात्रं" भवति । "अतः विश्वं मनोमात्रं" भवति । "यतः" । "यत्" वस्तु । "यतः" यस्मात्वस्तुनः । भवति । सत्ताकर्तृतां भजति । "तत्" वस्तु । "तदेव" भवति । मृदः सत्ताकर्तृत्वं भजतः घटस्य मृत्त्वदर्शनात् । "अतो" जगतः मनोवतनुत्पत्तिसतत्त्वा एवोत्पत्तिरिति भावः ॥ ३,३.२५ ॥

 

 

 

ननु पद्मजस्य स्वकारणभूतचिन्मात्रव्यतिरिक्तसहकारिकारणाभावेन चिन्मात्रस्थूलतामात्ररूपं मनोमात्ररूपत्वमस्तु । तज्जस्य जगतः अदृष्टादिसहकारिकारणसद्भावात्कथं मनोमात्ररूपत्वं युज्यते इत्य् । अत्राह

अजस्य सहकारीणि कारणानि न सन्ति यत् ।

तज्जस्यापि न सन्त्येव तानि तस्मात्तु कानिचित् ॥ ३,३.२६ ॥

"अजस्य" पद्मजस्य । "यत्" यतः कारणात् । "सहकारीणि कारणानि न सन्ति" । "तु" निश्चये । "तस्मात्" ततः कारणात् । "तज्जस्य" तस्मादुत्पन्नस्य जगतः । "कानिचित्" "तानि" कानिचित्सहकारीणि । "न सन्त्येव" । मनःकार्याणामदृष्टादीनां मनः प्रति सहकारित्वायोगात् । न हि यो यस्मातुत्पद्यते स एव तत्सहकारी भवितुमर्हति । स्वोत्पत्तिसमये स्वयमसत्त्वात् । अन्यान् प्रत्येव सहकारिकारणत्वाभ्युपगमे स्वोत्पत्तौ सहकारिकारणान्तरापेक्षायाः स्थितत्वात् । अन्यथा स्वस्यापि परान् प्रति सहकारिकारणत्वायोगात् ॥ ३,३.२६ ॥

 

 

 

ननु ततोऽपि किमित्य् । अत्राह

कारणात्कार्यवैचित्र्यं तेनात्रास्ति न किञ्चन ।

यादृशं कारणं शुद्धं कार्यं तादृगिह स्थितम् ॥ ३,३.२७ ॥

"तेन" । यतः जगतः सहकारिकारणानि न सन्ति । तस्मात् । "अत्र" पद्मजजगद्विषये । "कारणात्" "कार्यवैचित्र्यं" कार्यभेदः । "किञ्चन" लेशेनापि । "नास्ति" । दण्डादिसहकारिकारणसान्निध्ये एव मृदो घटाख्यकार्यवैचित्र्यस्य दृष्टत्वात् । अतः "इह" "कारणं यादृशं शुद्धं" भवति । "कार्यं तादृक्स्थितं" भवति । भिन्नतापादकानां सहकारिकारणानामभावात् । अतः चिन्मात्रमेव जगदिति भावः ॥ ३,३.२७ ॥

 

 

 

फलितं सिद्धान्तं कथयति

कार्यकारणताद्यत्र न किञ्चिदुपपद्यते ।

यादृगेव परं ब्रह्म तादृगेव जगत्त्रयम् ॥ ३,३.२८ ॥

यतः "अत्र" चिन्मात्रपद्मजयोः पद्मजजगतोश्च । "कार्यकारणतादि" कार्यकारणभावादि । "किञ्चित्" लेशेनापि । "नोपपद्यते" । अतः "परं ब्रह्म" शुद्धचिन्मात्रम् । "यादृशं" भवति । "जगत्त्रयम्" पद्मजादिरूपं जगत्त्रयम् । "तादृशं" भवति । कार्यकारणभावादेरेव भेदापादकत्वात् ॥ ३,३.२८ ॥

 

 

ननु चिन्मात्रादुत्पन्नस्य शुद्धमनोरूपस्य पद्मजस्य चिन्मात्ररूपत्वं भवतु । शुद्धमनोरूपात्पद्मजादुत्पन्नस्य त्रैलोक्यस्य तु कथं तद्युक्तमित्य् । अत्राह

मनस्तामिव यातेन ब्रह्मणा तन्यते जगत् ।

अनन्यदात्मनः शुद्धाद्द्रवत्वमिव वारिणा ॥ ३,३.२९ ॥

"मनस्ताम्" पद्मजेत्यपरनामधेययुक्तशुद्धमनोभावम् । "यातेनेव" गतेनेव । "ब्रह्मणा" पदार्थरूपतया बृंहितेन शुद्धचिन्मात्रेण । "शुद्धातात्मनः" स्वस्मात् । "अनन्यत्" अभिन्नम् । इदं "जगत्तन्यते" विस्तार्यते । स्वात्मनि प्रकटीक्रियत इति यावत् । केन्"एव" । "वारिणेव" यथा "वारिणा" । "आत्मनः अनन्यत्द्रवत्वम्" आद्यस्पन्दनासमवायिकारणभूतः द्रवत्वाख्यः गुणः । विस्तार्यते । तथेत्यर्थः । मनस्तायामपि परमार्थतः चिन्मात्रत्वानपायाद्"इव"शब्दोपादानम् । अतः जगतोऽपि चिन्मात्रादुत्पन्नत्वेन चिन्मात्रत्वमेव युक्तमिति भावः ॥ ३,३.२९ ॥

 

 

ननु तर्हि कथमयं भेदो भासते इत्य् । अत्राह

मनसा तन्यते सर्वमसदेवेदमाततम् ।

यथा सङ्कल्पनगरं यथा गन्धर्वपत्तनम् ॥ ३,३.३० ॥

"मनसा" पद्मजेति प्रसिद्धेन शुद्धमनसा । "आततं" समन्तात्स्फुरत् । "इदम्" तनुः भासमानम् । "इदं" समस्तं जगत् । "तन्यते" परं ब्रह्मणः भिन्नया सत्तया प्रकटीक्रियते । "इदं सर्वं" कथम्भूतम् । "असदेव" असत्स्वरूपमेव । न तु सत्स्वरूपम् । किं "यथा" । "सङ्कल्पनगरं यथा" । यथा सङ्कल्पनगरमसदेव भवति । तथेत्यर्थः । पुनः किं "यथा" । "गन्धर्वपत्तनं यथा" । यथा गन्धर्वपत्तनम् । यथा गन्धर्वपत्तनं सदेव भवति । तथेत्यर्थः । गन्धर्वाः हि स्वावासार्थं कल्पनया शून्ये नगरं रचयन्ति । तदेव गन्धर्वनगरमुच्यते । चिन्मात्रादुत्थितेन "मनसा" एव "इदं" भिन्नतया विस्तार्यते । अन्यथा मनसः किमर्थमुत्थानं स्यादिति भावः ॥ ३,३.३० ॥

 

 

 

अत्यन्तनिश्चयत्वेन पुनरपि आधिभौतिकतायाः असत्यत्वं कथयति

आधिभौतिकता नास्ति रज्ज्वामिव भुजङ्गता ।

ब्रह्मादयः प्रबुद्धास्तु कथं तिष्ठन्तु तत्र ते ॥ ३,३.३१ ॥

"ब्रह्मादय" इत्य् । "आदि"शब्देन शुद्धबुद्धिरूपस्य विष्णोः शुद्धाहङ्काररूपस्य रुद्रस्य च ग्रहणम् । "प्रबुद्धाः" अत्यन्तशुद्धत्वेन प्रकृष्टेन बोधेन युक्ताः ॥ ३,३.३१ ॥

 

 

दण्डापूपिकान्यायेनाधिभौतिकतायाः असत्यतां पुनरपि कथयति

आतिवाहिक एवास्ति न प्रबुद्धमतेः किल ।

आधिभौतिकदेहस्य चर्चैवात्र कुतः कथम् ॥ ३,३.३२ ॥

"किले"ति निश्चये । "प्रबुद्धमतेः" सम्यक्निश्चितमतेः पुरुषस्य । "आतिवाहिक एव" अतिवहनशीलः सूक्ष्मः देह एव । "नास्ति" । स्वस्मिन् चिन्मात्ररूपताज्ञानात् । "अत्रा"स्मिन् प्रबुद्धमतौ । "आधिभौतिकदेहस्य" "चर्चा एव" कथा एव । "कुतः" स्यात् । "कथं" स्यात् ॥ ३,३.३२ ॥

 

 

आधिभौतिकदेहरहितात्पद्मजादुत्पन्नस्य जगतः असत्यत्वं कथयति

मनोनाम्नो मनुष्यस्य विविधाकारधारिणः ।

मनोराज्यं जगदिति सत्यरूपमिव स्थितम् ॥ ३,३.३३ ॥

"विविधानाकारान्" "धार्"अयतीति तादृशस्य "मनोनाम्नः" मन इति नामधेययुक्तस्य । "मनुष्यस्य" आधिभौतिकदेहरहितस्य पद्मजाख्यस्य मनुष्यस्य । "मनोराज्यम्" मनःकल्पना । "जगद्" "इति स्थितम्" जगद्रूपेण स्थितम् । भवति । "जगत्" कथम्भूतम् "इव" । "सत्यरूपमिव" । परमार्थतस्तु कल्पनामात्ररूपत्वान्न सत्यरूपमित्"ईव"शब्दोपादानम् । स्वप्नस्य चात्र दृष्टान्तत्वं स्फुटमेवेति नात्रायस्तम् । "मनोनाम्नः मनुष्यस्य मनोराज्यम्" इति राहोः शिर इतिवज्ज्ञेयम् ॥ ३,३.३३ ॥

 

 

ननु शास्त्रेषु चतुर्मुखस्य कस्यापि देवविशेषस्यैव पद्मजत्वमुक्तमस्ति । तत्कथं त्वया शुद्धस्य मनस एव तदुक्तमित्य् । अत्राह

मन एव विरिञ्चं त्वं विद्धि सङ्कल्पनात्मकम् ।

स्ववपुः स्फारतां नीत्वा मनसेदं वितन्यते ॥ ३,३.३४ ॥

"त्वम्" । "सङ्कल्पनात्मकम्" चिन्मात्रोक्तस्वपरामर्शस्वरूपम् । "मनः" शुद्धं मनः । "विरिञ्चं" पद्मजम् । "विद्धि" जानीहि । यतः "स्ववपुः" स्वस्वरूपम् । "स्फारतां" विस्तीर्णताम् । "नीत्वा" । "मनसा इदं" जगत् । "वितन्यते" विस्तार्यते । उत्पाद्यते इति यावत् । विरिञ्चस्य हि विरिञ्चत्वमेतदेव । यज्जगदुत्पाद्यते तच्च मनसा एव स्वप्नन्यायेन स्फुटमुत्पाद्यते । इति तस्यैव विरिञ्चत्वं युक्तम् । चतुर्मुखदेवविशेषकल्पना तु स्थूलदृष्टीन् प्रत्येवेति भावः ॥ ३,३.३४ ॥

 

 

विरिञ्चमनसोः अत्यन्तमभिन्नत्वं कथयति

विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः ।

पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम् ॥ ३,३.३५ ॥

"विरिञ्चः" पद्मजः । "मनसः" शुद्धस्य मनसः । "रूपं" स्वरूपम् । भवति । "मनः" शुद्धं मनः । "विरिञ्चस्य" पद्मजस्य । "वपुः" स्वरूपम् । भवति । उत्पादनाख्यैककार्यकारित्वात् । "अत्रा"नयोः विरिञ्चमनसोः । "पृथ्व्यादि न विद्यते" । शुद्धचिन्मात्रोत्थितत्वेन शुद्धचिन्मात्रत्वानपायात् । "तेन" ततः कारणात् । "पृथ्व्यादि" भूम्यादि । "कल्पितम्" कल्पनायां भावितं भवति । स्वप्नवदिति शेषः ॥ ३,३.३५ ॥

 

 

 

ननु विरिञ्चरूपं मनः उपादानकारणं विना कथं जगदुत्पादयति । न हि कुशलस्यापि कुलालस्य मृदाख्यमुपादानकारणं विना घटोद्भावने शक्तिरस्तीत्य् । अत्राह

पद्माक्षे पद्मिनीवान्तर्मनोहृद्यस्ति दृश्यता ।

मनोदृश्यदृशौ भिन्ने न कदाचन किञ्चन ॥ ३,३.३६ ॥

स्वार्थे भावप्रत्ययः आर्षः । तेनायमर्थः । "दृश्यता" दृश्यम् । "मनोहृदि" मनसोऽन्तः । "अस्ति" तिष्ठति । सर्वशक्तियुक्ताच्चिन्मात्रात्तथैवोत्थानात् । अन्यथा दृश्यभावेन स्फुरणायोगात् । का "इव" । "पद्मिनीव" । यथा "पद्मिनी" कमलिनी । "पद्माक्षे" पद्मबीजे । "अन्तः अस्ति" । तथेत्यर्थः । पद्मिन्याश्च पद्माक्षान्तर्गतत्वं ततः निर्गमेनानुमेयम् । न हि यत्यदन्तर्न भवति तत्ततः निर्याति । निर्जलात्घटादिव जलम् । अतः "मनोदृश्यदृशौ" मनोदृक्दृश्यदृक्च । "कदाचन" जातु । "किञ्चन" लेशेनापि । "भिन्ने न" भवतः । उपादानोपादेयभावेन स्थितत्वात् । अतः स्वतो भिन्नस्योपादानकारणस्यात्रापेक्षा नास्तीति भावः ॥ ३,३.३६ ॥

 

 

 

एतदेव दृष्टान्तान्तरेण दृढयति

तथा चात्र भवत्स्वप्नसङ्कल्पश्चित्तराज्यधीः ।

स्वानुभूत्यैव दृष्टान्तस्तस्माद्धृद्यस्ति दृश्यभूः ॥ ३,३.३७ ॥

स्पष्टम् ॥ ३,३.३७ ॥

 

 

 

तस्माच्चित्तविकल्पस्थः पिशाचो बालकं यथा ।

विनिहन्त्येवमेषान्तर्द्रष्टारं दृश्यरूपिका ॥ ३,३.३८ ॥

"द्रष्टारम्" मनोरूपं द्रष्टारम् ॥ ३,३.३८ ॥

 

 

यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।

करोति भासुरं देहं तनोत्येवं हि दृश्यधीः ॥ ३,३.३९ ॥

इदं श्लोकत्रयं च प्रथमसर्गान्त्यभागे गतमिति न पुनरायस्तम् ॥ ३,३.३९ ॥

 

 

 

सर्गान्तश्लोकेन सिद्धान्तं कथयति

सच्चेन्न शाम्यति कदाचन दृश्यदुःखं

दृश्ये त्वशाम्यति न बोद्धरि केवलत्वम् ।

दृश्ये त्वसम्भवति बोद्धरि बोद्धृभावः

शाम्येत्स्थितेऽपि हि तदस्य विमोक्षमाहुः ॥ ३,३.४० ॥

इदमनुभूयमानम् "दृश्यदुःखम्" दृश्याकारं दुःखम् । "सत्" परमार्थसत् । "चेत्" भवति । तदा "कदा"चित्न शाम्यति । नाभावो विद्यते सत इति न्यायादित्यर्थः । "दृश्ये अशाम्यति" सति । "बोद्धरि" द्रष्टरि । "केवलत्वं" केवलीभावः । अबोद्धृरूपतेति यावत् । "न" भवति । स्वव्यतिरिक्तस्य दृश्यस्थबोध्यतया स्थितत्वात् । मोक्षाभावप्रकारमुक्त्वा मोक्षं कथयति । "दृश्य" इति । "तु" पक्षान्तरे । "दृश्ये असम्भवति" सति । उक्तन्यायेन अनुत्पत्तिसतत्त्वोत्पत्तियुक्ते सति । "बोद्धरि" द्रष्टरि । "बोद्धृभावः शाम्येत्" शान्तिं व्रजेत् । न हि दृश्यरहितस्य द्रष्टुः द्रष्टृत्वं नाम किञ्चिदस्ति । "दृश्ये" कथम्भूते "ऽपि" । "स्थितेऽपि" । भासमानत्वात्स्थितिं भजत्यपि । ननु तेन बोद्धृभावशमनेन किं सेत्स्यतीत्य् । अत्राह । "हि तदस्ये"ति । "हि" निश्चये । पण्डिताः "तत्" बोद्धृभावशमनम् । "अस्य" बोद्धुः । "विमोक्षं" विशिष्टां मुक्तिम् । "आहुः" कथयन्ति । दृश्यानौन्मुख्यस्यैव मोक्षत्वाद् । इति शिवम् ॥ ३,३.४० ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे तृतीयः सर्गः ॥ ३,३ ॥