सामग्री पर जाएँ

मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः ७

विकिस्रोतः तः
← सर्गः ६ मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः ८ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



दूरदेशगमनमुपायजालप्रयोगं च विनात्मावाप्तिममन्यमानः श्रीरामः पुनरपि पूर्वोक्तमेव प्रश्नं करोति

य एष देवः कथितो यस्मिञ्ज्ञाते विमुच्यते ।

वद क्वासौ स्थितो देवः कथमेनमहं लभे  ॥ ३,७.१ ॥

त्वया "यः एषः देवः कथितः" । तथा "यस्मिन्" देवे । "ज्ञाते" सति । पुरुषेण "विमुच्यते" मुक्तिः प्राप्यते । त्वम् "वद" । "असौ" "देवः" "क्व स्थितः" भवति । "अहमेनम्" अमुं देवम् । "कथम्" कैः उपायैः । "लभे" प्राप्नोमि ॥ ३,७.१ ॥

 

 

 

श्रीवसिष्ठः उत्तरं कथयति

य एष देवः कथितो नैष दूरेऽवतिष्ठते ।

शरीरे संस्थितो नित्यं चिन्मात्रमिति विश्रुतः ॥ ३,७.२ ॥

मया "यः एषः देवः कथितः" । "एषः दूरे" दूरदेशे । "नावतिष्ठते" । यतः "चिन्मात्रमिति विश्रुतः" प्रसिद्धः । एषः "नित्यं शरीरे स्थितः" भवति । अन्यथा पाषाणतुल्यस्य शरीरस्यापि मृतशरीरवत्चेष्टाश्रयत्वं न स्यात् । न च शरीरस्थस्य दूरस्थत्वं वक्तुं युक्तम् । स्वहस्तयोरपि दूरस्थत्वासंयोगातिति भावः ॥ ३,७.२ ॥

 

 

 

ननु तर्हि देहपरिमाणः एवासौ स्यात् । तथा च देहवदनित्यत्वमप्यस्य स्यादित्य् । अत्राह

एष सर्वमिदं विश्वं न विश्वं त्वेष सर्वगः ।

विद्यते ह्येष एवैको न तु विश्वाभिधास्ति दृक् ॥ ३,७.३ ॥

"एषः" आत्मा । "सर्वमिदं विश्वम्" सर्वमिदं जगत् । भवति । "सर्वं" सारत्वेन स्थितत्वात् । "तु" पक्षान्तरे । "सर्वगः" स च सारत्वेन सर्वपदार्थगः । "एषः विश्वं न" भवति । "हि" यस्मात् । "एष एक एव विद्यते" । "विश्वाभिधा दृक्" विश्वनामा दृष्टिः । विश्वमिति यावत् । "न अस्ति" । भासमानस्यापि विश्वस्य तद्दृष्ट्या एतद्रूपत्वानपायात् । न हि तरङ्गाक्रान्ते जले तरङ्गाभिधा दृक्भवति । भासमानेष्वपि तरङ्गेषु विवेकिजनदृष्ट्या जलत्वानपायात् ॥ ३,७.३ ॥

 

 

 

ननु शशिभृदादयोऽपि महादेवतास्वरूपाः सन्त्य् । तत्कथं त्वया "विद्यते ह्य्" "एष एवैक" इत्युक्तमित्य् । अत्राह

चिन्मात्रमेष शशिभृच्चिन्मात्रं गरुडध्वजः  ।

चिन्मात्रमेव तपनश्चिन्मात्रं कमलोद्भवः ॥ ३,७.४ ॥

"एषः" सृष्टिसंहारकत्वेन प्रसिद्धः । "शशिभृत्" श्रीमहादेवः । "चिन्मात्रं" भवति । ननु कथमेतदिति चेत् । सत्यम् । "शशिभृत्" सचेतनोऽस्ति चेतनारहितो वा । अचेतनत्वे पाषाणरूपस्य तस्य जगद्गतस्यावरतुल्ययोगक्षेमत्वमेव । सचेतनत्वे तु स्फुटं चिन्मात्रमेव तद्भावेन स्फुरति । ननु तर्हि शशिभृत्कीटयोः समत्वमेव स्यादिति चेत् । केनोक्तं नास्तीति । ननु कार्यविलक्षणतादर्शनाद्भेदः कल्प्यते । अयुक्तमेव कल्प्यते । न हि अग्निकणमहाग्निचययोः कार्यवैलक्षण्येन भेदः कल्पयितुं युक्तः । ननु अग्निकणमहाग्निचययोः कार्यवैलक्षण्यं नास्ति दाहाख्यस्यैकस्य कार्यस्य दर्शनातिति चेत् । शशिभृत्कीटयोरपि । किंरूपं कार्यवैलक्षण्यमस्ति ज्ञानक्रियायाः करणक्रियायाश्चैकत्वात् । यस्तु बह्वल्पताकृतो भेदः अस्ति । सः दृष्टान्तेऽप्यस्तीति न कोऽपि विरोधः । एवमन्यत्रापि योज्यम् । "गरुडध्वजः" स्थित्यधिकारी । "तपनः" ब्रह्माण्डगतवस्तुपाककारी सूर्यः । "कमलोद्भवः" सर्गाधिकारी श्रीब्रह्मा । आभ्यन्तरार्थविवक्षायां "शशिभृत्" अहङ्कारः । "गरुडध्वजः" बुद्धिः । "तपनः" प्राणः । "कमलोद्भवः" मनः । इति योज्यम् ॥ ३,७.४ ॥

 

 

 

श्रीरामः पृच्छति

बाला अपि वदन्त्येतद्यदि चेतनमात्रकम् ।

जगदित्येव केवात्र नाम स्यादुपदेशता ॥ ३,७.५ ॥

"यदि जगत्चेतनमात्रकम्" भवति । "इत्येव" भवति । एतदेव सत्यं भवतीति यावत् । तदा "बाला अपि एतत्वदन्ति" । सर्वे एव हि चेतनापरपर्यायजीवमयं "जगत्" कथयन्ति । अतः "अत्र उपदेशता नाम का स्यात्" । अज्ञातज्ञापनस्यैवोपदेशत्वात् । अत्र "बाला" इत्यनेन विज्ञानवादिनां बौद्धानां ग्रहणम् । ते एव हि विज्ञानापरपर्यायस्य चेतनस्यात्मत्वं कथयन्ति ॥ ३,७.५ ॥

 

 

श्रीवसिष्ठः उत्तरं कथयति

चिन्मात्रं चेतनं विश्वमिति यज्ज्ञातवानसि ।

न किञ्चिदेतद्विज्ञातं भवता भवतारणम् ॥ ३,७.६ ॥

"चेतनं चिन्मात्रं" चेतनाख्यं चिन्मात्रम् । "विश्वं" भवति । "इति" एवम् । "असि" त्वम् । "यत्ज्ञातवान्" । "भवता एतत्किञ्चित्" लेशेनापि । "भवतारणम्" संसारात्तारकम् । "न विज्ञातम्" । चिन्मात्रपदार्थानभिज्ञत्वात् । चिन्मात्रपदार्थज्ञानमात्रेणैव हि च संसारः नश्यति ॥ ३,७.६ ॥

 

 

कथमेतदित्य् । अत्राह

चेतनं नाम संसारो जीव एष पशुः स्मृतः ।

एतस्मादेव निर्यान्ति जरामरणवीचयः ॥ ३,७.७ ॥

"नाम" निश्चये । "चेतनं संसारः" भवति । चिन्मात्रस्थस्य चेत्यौन्मुख्यस्यैव चेतनत्वात्चेत्यौन्मुख्यस्यैव च संसारत्वात् । "संसारो" हि संसरणमुच्यते । संसरणं च स्वस्थानातुत्थानम् । चिन्मात्रस्य च चेत्यौन्मुख्यसमये शुद्धचिन्मात्रतारूपात्स्वस्थानातुत्थानं भवत्येवान्यथा चेत्यौन्मुख्यत्वं नाम किं स्यात् । पण्डितैः "एषः" चेतनरूपः संसारः । "पशुः" स्वरूपज्ञानरहितत्वेन पशुतुल्यः । "जीवः स्मृतः" । जीवनक्रियाकर्ता हि "जीवः" उच्यते । "चेतनं" च जीवनमेव । अतः तद्वति तदुपचारात्चेतनस्यैव जीवत्वं भवति । तद्वति तदुपचाराश्रयणं त्वत्र परमार्थतः शुद्धचिन्मात्ररूपस्य जीवस्य जीवत्वे जीवनक्रियाव्यतिरिक्तसाधनान्तरबुद्धिनिरासार्थं कृतम् । ननु ततोऽपि किमित्य् । अत्राह्"ऐतस्मादेवे"ति । "जरामरणवीचयः" शरीरादिगताः जरामरणतरङ्गाः । "एतस्मादेव" अस्माच्चेतनातेव । "निर्यान्ति" निर्गच्छन्ति । प्रादुर्भवन्तीति यावत् । स्वप्नद्रष्टरि न स्वप्नशरीरगताः जरामरणवीचय इति भावः ॥ ३,७.७ ॥

 

 

 

पुनरप्येतदेव कथयति

पशुरज्ञो ह्यमूर्तोऽपि दुःखस्यैवैष भाजनम् ।

चेतनत्वाच्चेततीदमत्यनर्थः स्वयं स्थितः ॥ ३,७.८ ॥

"अमूर्तः" स्थूलसूक्ष्मशरीरव्यतिरिक्तः । तथा "दुःखस्यैव" स्वयमुत्पाद्यमानप्रपञ्चरूपस्य दुःखस्यैव । "भाजनं" पात्रभूतः । तद्रूपतया शुद्धचिन्मात्रातुत्थानात् । अन्यथा उत्थानस्यापि व्यर्थत्वात् । तथा "अज्ञः" शुद्धचिन्मात्राख्यस्वस्वरूपपरामर्शहीनः । अत एव "पशुः" "अपि" पशुतुल्योऽपि सन् । "एषः" जीवः । "चेतनत्वात्" चेतनमात्रस्वरूपत्वात् । "इदम्" अग्रे स्फुरत्स्वरूपमहङ्कारादिकं जगत् । "चेतति" स्वस्फूर्तिविषयं करोति । चेतनस्य ह्येतदेव चेतनत्वं यत्किञ्चिच्"चेतती"ति "चेतनत्वाद्" इत्युक्तम् । ननु तच्चेतनेन किं सम्पन्नमित्य् । अत्राह्"आती"ति । ततः "अत्यनर्थः" जगद्रूपः महाननर्थः । "स्वयं" तदिच्छां विना । "स्थितः" प्रादुर्भूतः । अत्र च स्वप्नस्य दृष्टान्तत्वं स्फुटमेवेति नायस्तम् ॥ ३,७.८ ॥

 

 

 

नन्वस्य चेतनस्येदं दुःखं किं कदाचिच्छ्राम्येदपीत्य् । अत्राह

चेत्यनिर्मुक्तता या स्यादचेत्योन्मुखताथ वा ।

अस्य सा भरितावस्था तां ज्ञात्वा नानुशोचति ॥ ३,७.९ ॥

"चेत्यात्निर्मुक्तता" प्रथमं स्वातन्त्र्येण चेत्याभिमुखीभूय ततः विचारद्वारेण ततः निष्क्रान्तिः । "या" भवति । "अथ वा अचेत्योन्मुखता" चेत्यानौन्मुख्यमेव । "या" भवति । "अस्य" चेतनस्य । "सा भरितावस्था" पूर्णावस्था । भवति । स्वरूपभूतेन चिन्मात्रत्वेन पूर्णत्वात् । "तां" भरितावस्थाम् । "ज्ञात्वा" परमार्थस्वरूपत्वेन निश्चित्य । "नानुशोचति" संसाराख्यदुःखभाक्न भवति । भरितावस्थानेन स्वस्मिन् स्थितायाः चेतनतायाः असत्यत्वज्ञानेन तदुक्ते दुःखेऽप्यसत्यत्वज्ञानात् । अत्र च "चेत्यनिर्मुक्तता" जीवन्मुक्ततावस्थायां भवति । "अचेत्योन्मुखता" विदेहमुक्ततावस्थायामिति विभागो ज्ञेयः ॥ ३,७.९ ॥

 

 

 

ननु तदा अस्य चेतनस्य कीदृशी अवस्था भविष्यतीत्य् । अत्राह

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परापरे  ॥ ३,७.१० ॥

"तस्मिन्" सर्वात्मत्वेन स्थितत्वात्प्रसिद्धे । "परापरे" पररूपचिन्मात्रापररूपचेतनस्वरूपे महाचिन्मात्रे । "दृष्टे" परमार्थतः आत्मभावेन निश्चिते सति । अस्यां भरितावस्थायां ज्ञातायामिति यावत् । "अस्य" चेतनस्य । "हृदयग्रन्थिः" भोगादिविषया । "भिद्यते" नश्यते । तृप्तत्वात् । तथा "सर्वसंशयाः" पदार्थस्वरूपविषयाः सर्वे सन्देहाः । "छिद्यन्ते" । चिन्मात्रसारतानिश्चयात् । तथा "कर्माणि" शरीरयात्रानिमित्तं कृतानि कर्माणि । "क्षीयन्ते" । लेपानादायकत्वात् ॥ ३,७.१० ॥

 

 

 

ननु तर्हि अत्यन्तोपादेयभूतमचेत्योन्मुखत्वमेवाहं साधयामीत्य् । अत्राह

तस्य चेत्योन्मुखत्वं तु चेत्यासम्भवनं विना ।

रोद्धुं न शक्यं दृश्यं तु चेत्यं शाम्यतु वै कथम् ॥ ३,७.११ ॥

"तस्य" चेतनस्य । "चेत्योन्मुखत्वम्" चेतनत्वापादकं चेत्यौन्मुख्यम् । "चेत्यासम्भवनं विना रोद्धुं शक्यं न" भवति । न हि तूलपिण्डे पतितः अग्निः शान्तो भवति । ननु तर्हि चेत्यमेव नाशयामि इत्य् । अत्राह "चेत्यम्" इति । "दृश्यं" दृश्यस्वरूपं चेत्यम् । "कथं शाम्यतु" । न शाम्यत्येव सतः नाशायोगात् । अयं भावः । चेत्यं यदि अस्ति तर्हि कथं शाम्येत् । यदि नास्ति तदा चेत्यानौन्मुख्यं स्वयमेव सिद्धं भवतीति । न तदाहरणे ज्ञानमात्रं विना प्रयत्नो युक्तः । न हि वन्ध्यापुत्रनाशचिन्ता केनापि क्रियते इति ॥ ३,७.११ ॥

 

 

 

अत्र श्रीरामः पृच्छति

साधुसङ्गमसच्छास्त्रैः संसारार्णवतारकः  ।

दृश्यते परमात्मा यः स ब्रह्मन् वद कीदृशः ॥ ३,७.१२ ॥

हे "ब्रह्मन्" । पुरुषेण "साधुसङ्गमसच्छास्त्रैः" । "संसार" एव दुर्लङ्घ्यत्वेन "अर्णवः" । तस्मात्"तारकः" । "यः परमात्मा दृश्यते" । त्वम् "वद" । "सः कीदृशः" भवति ॥ ३,७.१२ ॥

 

 

 

श्रीवसिष्ठः श्रीरामप्रश्नमनादृत्य पूर्वोक्तमेवार्थं कथयति

यदेतच्चेतनं जीवो विशीर्णो जन्मजङ्गले ।

एतमात्मानमिच्छन्ति ये तेऽज्ञाः पण्डिता अपि ॥ ३,७.१३ ॥

"यदेतत्चेतनं जन्मजङ्गले विशीर्णः" परिच्छिन्नतां गतः । "जीवः" भवति । "एतं ये आत्मानमिच्छन्ति ते पण्डिताः अपि" देहात्माभिमानिभ्यः सकाशात्किञ्चिन्मात्रं विचारिणः अपि । "अज्ञाः" भवन्ति । अनात्मनि "जीवो" आत्मत्वदर्शनात् ॥ ३,७.१३ ॥

 

 

 

कथमेतदित्य् । अत्राह

जीव एवेह संसाराश्चेतनाद्दुःखसन्ततेः ।

अस्मिञ्ज्ञाते न विज्ञातं किञ्चिद्भवति कुत्रचित् ॥ ३,७.१४ ॥

"संसाराः" जाग्रदादिभेदभिन्नाः संसाराः । "दुःखसन्ततेः" "चेतनात्" संसारगतदुःखसन्ततेः । स्वाश्रयतया अनुभवनात्"जीवे एव" भवन्ति । अतः "अस्मिन्" संसाराश्रये जीवे । "ज्ञाते" सति । लक्षणया प्राप्ते सति । "किञ्चित्विज्ञातं" ज्ञानविषयीकृतम् । लक्षणया प्राप्तम् । "न भवति" ॥ ३,७.१४ ॥

 

 

 

तर्हि कस्य ज्ञानेन किञ्चित्प्राप्तं भवतीत्य् । अत्राह

ज्ञायते परमात्मा चेद्राम तद्दुःखसन्ततिः ।

क्षयमेति विषावेशशान्ताविव विषूचिका ॥ ३,७.१५ ॥

हे "राम" । "परमात्मा" प्रोक्तस्य जीवस्य सारतया स्थितं परमात्मतत्त्वम् । "चेत्" यदि । "ज्ञायते" । लक्षणया प्राप्यते । "तत्" तदा । "दुःखसन्ततिः" संसाररूपा दुःखसन्ततिः । "क्षयम्" नाशम् । "एति" गच्छति । तदैव किञ्चित्प्राप्तं भवतीत्यर्थः । का "इव" । "विषूचिका इव" । यथा सा "विषावेशशान्तौ क्षयमेति" । तथेत्यर्थः ॥ ३,७.१५ ॥

 

 

श्रीरामः परमात्मस्वरूपश्रवणाकाङ्क्षानिर्भरत्वेन कथनायोग्यत्वाच्छ्रीवसिष्ठेनानादृतमपि आत्मस्वरूपप्रश्नं पुनः करोति

रूपं कथय मे ब्रह्मन् यथावत्परमात्मनः ।

यस्मिन् दृष्टे नरो मोहात्समग्रात्सन्तरिष्यति ॥ ३,७.१६ ॥

"रूपम्" स्वरूपम् । "यथावत्" सम्यक् ॥ ३,७.१६ ॥

 

 

 

श्रीवसिष्ठः आकाङ्क्षानिर्भरत्वेन श्रीरामस्याधिकारित्वं निश्चित्योत्तरं कथयति

देशाद्देशान्तरं दूरं प्राप्तायाः संविदो वपुः ।

निमेषेणैव यन्मध्ये तद्रूपं परमात्मनः ॥ ३,७.१७ ॥

"देशात्" आलम्बनीकृतातेकस्मात्संवेद्यरूपात्देशात् । "दूरं" अत्यन्तविलक्षणम् । "देशान्तरम्" आलम्बनविषयीक्रियमाणमन्यसंवेद्याख्यं देशान्तरम् । "निमेषेणैव" एकस्मिन्निमेषे एव । न तु मध्ये मौढ्यमनुभूय । "प्राप्तायाः" आलम्बनभावेन गृह्णन्त्याः । "संविदः" दृश्यग्रहणोन्मुखायाः चितः । "मध्ये" पूर्वापरसंवेद्यरागारूषितायां मध्यावस्थायाम् ।  "यत्वपुः" भवति यतनिर्वाच्यं स्वरूपं भवति । "तद्" एव । न तु तत्सदृशमन्यत् । "परमात्मनः" समस्तजीवात्मसारभूतस्य परमात्मतत्त्वस्य । "रूपं" भवति । सर्वमयत्वेऽपि सर्वोत्तीर्णत्वात् । ननु पूर्वसंवेद्यमालम्बनीकृत्य तदैवोत्तरसंवेद्यमालम्बनीकुर्वन्त्याः संविदः किमिदं मध्यं नाम यत्रस्थायाः चितः परमात्मरूपता उक्ता । उच्यते । पूर्वसंवेद्येन रञ्जितायाः संविदः स्वं निर्मलं रूपमप्राप्योत्तरसंवेद्येन करिष्यमाणस्य रागस्यायुक्तत्वात्निर्मलस्वरूपतामयं मध्यमवश्यमेवास्तीति ज्ञातव्यम् । यथा नीलीरागरञ्जितस्य पटस्य पीतरागकरणेच्छया प्रक्षालणेन स्फुटीकृतं शुद्धपटतामयं मध्यं भवति । अन्यथा करिष्यमाणस्य पीतरागस्य करणासम्भवात् । ननु पूर्वसंवेद्यविषया संवित्पूर्वमेव क्षीणा । उत्तरसंवेद्यविषया तु नवीना जाता । तथा च मध्यं नाम शून्यमेवास्तीति । किं शून्यरूप एवात्मास्तीति चेत् । न । उत्तरसंवेद्यग्रहणकाले पूर्वसंवेद्यस्मृत्यनुपपत्तेः । न हि पूर्वसंवेद्यग्रहणकालस्थां

मध्ये शुद्धरूपतया स्थितामुत्तरसंवेद्यग्रहणकालेऽपि स्थितामेकां संविदमन्तरेण पूर्वसंवेद्यविषया स्मृतिः उपपद्यते । एतेन संवेद्योपरागरहितं जाड्यारूषितं संवित्तत्त्वं परमात्मत्वेनोक्तम् । अत्र चाभ्यासं कुर्वतामचिरादयत्नेनैव परमात्मलाभो भविष्यत्य् । अस्यैव च मध्यधामावेश इति नामास्तीत्यलं रहस्योद्घाटनेन । अत्र च सदृशयोः संवेद्ययोः मध्यमतिदुर्लभमिति "दूरम्" इत्युक्तम् ॥ ३,७.१७ ॥

 

 

 

अत्यन्ताभाव एवास्ति संसारस्य जगत्स्थितेः ।

यस्मिन् बोधमहाम्भोधौ तद्रूपं परमात्मनः ॥ ३,७.१८ ॥

"यस्मिन् बोधमहाम्भोधौ" बोधाख्ये महासमुद्रे । "जगत्स्थितेः" जगत्सत्तास्वरूपस्य । "संसारस्य" । "अत्यन्ताभाव एव" बुद्बुदवत्त्रैकालिकः अभावः एव । "अस्ति" । "तत्परमात्मनः रूपं" भवति । अयं भावः । मुमुक्षुः सच्छास्त्रादिभिः प्रथमं रज्जुसर्पादिदृष्टान्तेन ततः कनककटकादिदृष्टान्तेन दृश्यस्य ब्रह्मव्यतिरिक्तसत्ताभावं निश्चित्य शुद्धचित्तत्त्वैक्ये जातनिश्चयः यदा अभ्यासबलेन सर्वत्र शुद्धचित्तत्त्वमात्रमेवानुभवति सुवर्णकार इव कटकादिषु सुवर्णतां तदा तस्य ज्ञानं यत्स्वरूपं भवति तदेव परमात्मस्वरूपमिति । ननु जगत्प्रतियोगिकः अत्यन्ताभावः न सम्भवति । पूर्वं भूतत्वात्जगतः जगदत्यन्ताभावे निश्चितस्यापि हि पूर्वं जगद्भासमानमासीदेवेति चेद् । असतेतत् । पौर्वकालिकं मिथ्याभानं हि वस्तुनः उत्तरकाले निश्चितं त्रैकालिकाभावप्रतियोगित्वं न निहन्ति । पूर्वं रज्जौ भाते सर्पेऽपि अत्यन्ताभावप्रतियोगित्वघातित्वप्रसङ्गात् । पूर्वं सर्पत्वेन भातायां रज्जौ तु सर्वे सर्पस्य त्रैकालिकात्यन्ताभावप्रतियोगित्वं स्फुटमेव पश्यन्तीति न कोऽपि विरोधः ॥ ३,७.१८ ॥

 

 

 

द्रष्टृदृश्यक्रमो यत्र स्थितोऽप्यस्तमलं गतः ।

यदनाकाशमाकाशस्तद्रूपं परमात्मनः ॥ ३,७.१९ ॥

"स्थितः अपि" प्रत्यक्षं भासमानोऽपि । "द्रष्टृदृश्यक्रमः" अयं द्रष्टा इदं दृश्यमित्येवंरूपः क्रमः । "यत्र" यस्मिन् वस्तुनि । "अलं" अतिशयेन । सम्यगिति यावत् । "अस्तं" लयम् । "गतः" भवति । ननु स्थितस्य द्रष्टृदृश्यक्रमस्य कथमन्यस्मिन् लयसम्भवः । तथा चानेन द्वारेण परमात्मस्वरूपकथनमयुक्तमेवेति चेन् । न । द्रष्टृदृश्यौ तावत्कस्यचित्साक्षिणः भातौ भवतः न वा । न चेत्कथं तर्हि तयोः द्रष्टृदृश्यत्वे सिध्यतः । यथा तथा तत्सिद्धौ अपि कथं तयोः व्यवस्था सिध्यति । अयं द्रष्टैवेदं दृश्यमेवेति भातौ चेत्तर्हि तस्मिन् लयः तयोः सुकरः एव । न हि स्वप्नसाक्षिणमतिक्रम्य स्वप्नभाते द्रष्टृदृश्ये केनापि स्वरूपेण युक्ते सम्भवतः इति न कश्चिद्विरोधः । तथा "यत्" वस्तु । "अनाकाशम्" ग्राहकैकस्वभावत्वेन ग्राह्यत्वाभावात्ग्राह्यैकस्वरूपाकाशव्यतिरिक्तमपि सत् । "आकाशः" भवति । व्यापकत्वस्वच्छत्वादिगुणैः "आकाश"शब्दवाच्यो भवतीत्यर्थः । "तत्" तदेव वस्तु । न तु तत्सदृशमन्यत्किञ्चित् । "परमात्मनः रूपं" भवति ॥ ३,७.१९ ॥

 

 

 

अशून्यमिव यच्छून्यं यस्मिञ्शून्ये जगत्स्थितम् ।

सर्गौघे सति यच्छून्यं तद्रूपं परमात्मनः ॥ ३,७.२० ॥

"शून्यम्" बाह्यान्तःकरणाग्राह्यत्वेन न किञ्चिद्रूपम् । "यत्" वस्तु । "अशून्यमिव" किञ्चिदिव । भवति । अन्यथा जगद्रूपभ्रमाधिष्ठानत्वासम्भवात् । न हि असद्वस्तु कस्यचिदधिष्ठानीभवितुमर्हति । वन्ध्यापुत्रस्यापि मैत्रभ्रमाधिष्ठानत्वप्रसङ्गात् । तथा "शून्ये" प्रोक्तन्यायेन शून्यस्वरूपे । "यस्मिन्" । "जगत्स्थितं" सत्ताभाक्भवति । मृदीव घटादयः । अन्यथा जगतः किंरूपत्वं स्यातिति भावः । तथा "सर्गौघे" सृष्टिसमूहे । "सति" अधिष्ठेयतया कार्यतया वा स्थितिं भजति सति । "यत्शून्यम्" स्वव्यतिरिक्तवस्तुरहितमेव । भवति । न हि रज्जौ सर्पावस्थानेन मृदि वा घटावस्थानेन स्वव्यतिरिक्तवस्तुयुक्तत्वं कल्पयितुं शक्यते । "तत्परमात्मनः रूपं" भवति ॥ ३,७.२० ॥

 

 

 

यन्महाचिन्मयमपि बृहत्पाषाणवत्स्थितम् ।

जडं त्वजडमेवान्तस्तद्रूपं परमात्मनः ॥ ३,७.२१ ॥

"यत्" यत्वस्तु । "महाचिन्मयमपि" समस्तजगत्साक्षितान्यथानुपपत्त्या महाचित्प्रकाशस्वरूपमपि सत् । "बृहत्पाषाणवत्स्थितं" भवति । महाजडमिव भवति । अतिशान्तत्वेन स्वपरामर्शेऽपि स्वातन्त्र्येण विमुखत्वात् । "यत्" कथम्भूतं "तु" । "अन्तः" पारमार्थिके स्वरूपे । "अजडमेव" सत् । "जडं तु" जडमिव इत्यर्थः । इदं विशेषणद्वयं यथासङ्ख्यातिक्रमेण पूर्वार्धोक्तस्यार्थस्य समर्थकत्वेन ज्ञेयम् । "तत्परमात्मनः रूपं" भवति ॥ ३,७.२१ ॥

 

 

 

सबाह्याभ्यन्तरं सर्वं येन सम्प्राप्य सङ्गमम् ।

स्वरूपसत्तामाप्नोति तद्रूपं परमात्मनः ॥ ३,७.२२ ॥

"सर्वं सबाह्याभ्यन्तरं" बाह्याभ्यन्तरत्वेन वर्तमानं समस्तं जगत् । "येन" साक्षितया स्थितेन येन वस्तुना । "सङ्गमं" सम्बन्धम् । "प्राप्य" । यद्विषयत्वं प्राप्येति यावत् । "स्वरूपसत्ताम्" प्रातिस्विकस्य रूपस्य सत्ताम् । प्र्"आप्नोति" । साक्षिप्रतीतौ स्फुरणं विना हि सतोऽपि नीलसुखादेः सत्ता असत्कल्पा एव दृश्यते । "तत्परमात्मनः रूपं" भवति ॥ ३,७.२२ ॥

 

 

प्रकाशस्य यथालोको यथा शून्यत्वमम्बरे ।

तथेदं संस्थितं यत्र तद्रूपं परमात्मनः ॥ ३,७.२३ ॥

"प्रकाशस्य" तेजसः । "यथा आलोकः" पदार्थप्राकट्यहेतुः भास्वरताख्यो गुणविशेषः भवति । "यथा" वा "शून्यत्वम्" शून्यभावः । "अम्बरे" आकाशे । भवति । "तथा" तद्वत् । "इदम्" जगत् । "यत्र" यस्मिनदृश्ये वस्तुनि । "स्थितं" भवति । "तत्परमात्मनः रूपं" भवति । अयं भावः । यथा भासमानः आलोकः स्वप्रधानत्वेन न कथ्यते । अन्यथा प्रकाशगुणत्वकथनानुपपत्तेः । प्रकाशश्च विचार्यमाणः अनिर्वाच्यतामेवावगाहते । तथा भासमानमिदं जगतपि अनिर्वाच्ये कस्मिन् चित्सारभूते प्रधाने स्थितमिति ज्ञेयम् । यस्मिन् तु स्थितमस्ति तदेव परमात्मा भवतीति । नन्वेतैः अनुमानगम्यस्य कस्यापि वस्तुनः परमात्मत्वं साधितम् । तथा चासौ परमात्मा कल्पित इति ज्ञेयम् । अनुमानगम्यस्य कल्पितत्वात् । निर्विकल्पप्रत्यक्षमात्रगम्यस्य स्वलक्षणस्यैव परमार्थसत्त्वादिति चेद् । असदेतत् । उपदेश्यस्य प्रतिक्षणं मध्यावस्थासु आत्मत्वेन प्रत्यक्षं स्फुरणशीलमप्यात्मतया अज्ञातं परमात्मस्वरूपम् । चिरविस्मृतपुरःस्थितबान्धववत्तवात्मा भवतीति न कोऽप्यत्र प्रतिभावतः प्रति अनुमानस्पर्शः । अप्रतिभावतां त्वत्राधिकार एव नास्तीत्यलं परदोषगुणविचारणेन ॥ ३,७.२३ ॥

 

 

 

श्रीरामः पृच्छति

सर्वतः परमात्मैष कथं नामाभिबुध्यते ।

इयतोऽस्य जगन्नाम्नो दृश्यस्यासम्भवः कुतः ॥ ३,७.२४ ॥

अस्माभिः । "एषः" जगद्व्यतिरिक्तस्वरूपः । "परमात्मा" । "सर्वतः" सर्वत्र । सर्वास्ववस्थास्विति यावत् । "कथं नाम अभिबुध्यते" । यतः "इयतः" बाह्यान्तरव्यापकस्य । "अस्य दृश्यस्य असम्भवः" "कुतः" स्यात् । जाग्रति हि स्थूलं जगत्स्फुरति । स्वप्ने स्वप्नजगत् । सुषुप्तौ जाड्यम् । एताभ्यः व्यतिरिक्ता तु अवस्था नास्तीति । अयं च प्रश्नः सर्वदा परमात्ममयत्वासादनाकाङ्क्षिणा श्रीरामेण जाग्रति प्रतिक्षणं स्फुरमाणाः शुद्धपरमात्मस्वरूपमय्यः मध्यावस्थाः अनाश्रित्य कृतः ॥ ३,७.२४ ॥

 

 

 

श्रीवसिष्ठः उत्तरं कथयति

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।

अत्यन्ताभावसम्बोधो यदि रूढिबलं भवेत् ॥ ३,७.२५ ॥

तज्ज्ञातं ब्रह्मणो रूपं भवेन्नान्येन कर्मणा ।

दृश्यात्यन्ताभावतस्तु ऋते नान्या शुभा गतिः ॥ ३,७.२६ ॥

"आकाशवर्णवत्जातस्य" प्रादुर्भूतस्य । "अस्य" पुरःस्फुरतः । जगत इति यावत् । "अत्यन्ताभावसम्बोधः" अत्यन्ताभावज्ञानम् । न तु नाशनाख्यः । "रूढि" सिद्धियुक्तम् । "बलं" यत्र । तत् । तादृशम् । "भवेत्" "यदि" स्यात् । "तत्" तदा । "ब्रह्मणः" परमात्मनः । "रूपं" स्वरूपम् । "ज्ञातं भवेत्" । "अन्येन कर्मणा" एतद्व्यतिरिक्तेन तपःप्रभृतिना । "न" भवेत् । यतः "दृश्यात्यन्ताभावतः ऋते" दृश्यात्यन्ताभावादृते । "अन्या शुभा गतिः" शुभः उपायः । "न" भवति । दृश्यात्यन्ताभावश्च ज्ञानद्वारेणैव सिध्यति । प्रयत्नसाधितस्य अभावस्य प्रध्वंसाभावत्वादिति शुक्तौ रजतात्यन्ताभाववत्मृदि घटात्यन्ताभाववद्वात्यन्ताभावसम्बोधस्योपायत्वकथनम् ॥ ३,७.२५२६ ॥

 

 

 

ननु सम्यग्ज्ञानद्वारेण सिद्धस्य दृश्यत्वरूपजगदत्यन्ताभावस्यैव कथं परमात्मप्राप्तौ उपायत्वमस्तीत्य् । अत्राह

अत्यन्ताभावसम्पत्तौ दृश्यस्यास्य यथास्थितेः ।

शिष्यते परमार्थोऽसौ बुध्यते ज्ञायते ततः ॥ ३,७.२७ ॥

"यथास्थितेः" एवमेव वर्तमानस्य । न तु प्रयत्ननाशितस्य । "अस्य दृश्यस्य" जगद्रूपस्य दृश्यस्य । "अत्यन्ताभावसम्पत्तौ" अत्यन्ताभावस्य सम्पत्तौ । शुक्तौ भातरजतात्यन्ताभाववत्मृदि भातघटात्यन्ताभाववद्वा सिद्धौ सत्याम् । "असौ परमार्थः" दृश्याधिष्ठानभूतः दृश्यसारभूतः वा असौ परमात्मा । "शिष्यते" शेषत्वेन स्थितो भवति । रजतात्यन्ताभावज्ञाने इव शुक्तिः घटात्यन्ताभावज्ञाने इव वा मृत् । तद्व्यतिरेकेणान्यस्य कस्याप्यसत्त्वात्ततः पुरुषेण्"आसौ बुध्यते" । अस्तीति परोक्षप्रतीत्या निश्चीयते । "ततः" तदनन्तरम् । "ज्ञायते" । अहमित्यपरोक्षप्रतीत्या निश्चीयते ॥ ३,७.२७ ॥

 

 

 

ननु ज्ञानोपायिकः दृश्यात्यन्ताभावो मा सिध्यतु प्राणरोधनाद्युपायजालसाधितया विस्मृत्या एव परमात्मज्ञानं भविष्यतीत्य् । अत्राह

न चिदप्रतिबिम्बास्ति दृश्याभावादृते क्वचित् ।

क्व विना प्रतिबिम्बेन किलादर्शोऽवतिष्ठते ॥ ३,७.२८ ॥

"चित्" साक्षिभावेन स्थितं चित्तत्त्वम् । "दृश्याभावादृते" स्वसाक्षिभावसिद्धात्दृश्याभावातृते । "अप्रतिबिम्बा" दृश्यप्रतिबिम्बरहिता । दृश्यसाक्षितामकुर्वतीति यावत् । "क्वचिन्न" भवति । स्वभावत्यागप्रसङ्गात् । अत्र समर्थकं दृष्टान्तं कथयति । "क्व विने"ति । न हि बिम्बसत्तायां प्रतिबिम्बरहितः "आदर्शः" दृश्यते इति भावः । नन्वन्यदेशस्थे बिम्बे सत्तां भजत्यपि आदर्शः प्रतिबिम्बरहितः दृश्यते । तथा बहिः दृश्यसत्ता भवतु । प्राणरोधादिद्वारेण बहिः अप्रसरन्ती चित्दृश्यस्पर्शरहिता भविष्यतीति चेत् । असदेतत् । अत्यन्ताभावज्ञानं विना दृश्यबीजस्य नाशयितुमशक्यत्वात् । अन्यथा निद्रितस्यान्तः स्वप्नप्रपञ्चभानं न स्यात् । ननु तस्य प्राणरोधाद्युपायराहित्यात्स्वप्नप्रतिभानमस्तीति चेत् । तर्हि दृश्यात्यन्ताभावज्ञानहीनान् कपटरहितान् प्राणरोधादिकारिणः एव पृच्छ । किं युष्माकं स्वप्नप्रतिभानमस्ति न वेति । ननु कपटरहिताः दृश्यात्यन्ताभावज्ञानयुक्ता अपि अस्माभिः पृष्टा एव । तैरपि स्वस्य स्वप्नप्रदर्शकत्वमुक्तम् । उच्यतां नाम का हानिः । यथा जाग्रति भासत एव जगतः अत्यन्ताभावज्ञानं तेषामस्ति तथा स्वप्नेऽपि । न हि ते भासमानमेव दृश्यं दृश्यतया पश्यन्ति । किं तु ब्रह्मतयेत्यलं प्रपञ्चेन ॥ ३,७.२८ ॥

 

 

 

ननु तथापि दृश्यात्यन्ताभावेन विनैवात्मतत्त्वं पश्याम इत्य् । अत्राह

जगन्नाम्नोऽस्य दृश्यस्य सत्तासम्भवनं विना ।

बुध्यते परमं तत्त्वं न कदाचन केनचित् ॥ ३,७.२९ ॥

"अस्य" पुरःस्फुरतः । "जगन्नाम्नः" जगदिति नामधेययुक्तस्य । "दृश्यस्य" दृशिक्रियाविषयस्य भावजातस्य । "सत्तासम्भवनं विना" अत्यन्ताभावं विना । "केनचित्" पुरुषेण । "कदाचित्" । "परमं तत्त्वम्" परमात्माख्यं तत्त्वम् । "न बुध्यते" न ज्ञायते । तस्मात्दृश्यात्यन्ताभावः सम्यग्ज्ञानोपायेन साध्यः इति भावः ॥ ३,७.२९ ॥

 

 

 

दृश्यासत्तायां सन्दिहानः श्रीरामः पृच्छति

इयतो दृश्यजालस्य ब्रह्माण्डस्य जगत्स्थितेः ।

मुने कथमसत्तास्ति क्व मेरुः सर्षपोदरे ॥ ३,७.३० ॥

वैपुल्यकथनम् । यथा "मेरुः सर्षपोदरे" अस्तीति केनचिदुक्ते सति । तस्मिनसम्भवार्थप्रतिपादकत्वमेव विश्राम्यति । तथा जगतः सत्ता नास्तीति प्रतिपादके त्वय्यपीति भावः ॥ ३,७.३० ॥

 

 

श्रीवसिष्ठः उत्तरं कथयति

दिनानि कतिचिद्राम यदि तिष्ठस्यखिन्नधीः ।

साधुसङ्गमसच्छास्त्रपरमस्तदहं क्षणात् ॥ ३,७.३१ ॥

प्रमार्जयामि ते दृश्यं बोधो मृगजलं यथा ।

दृश्याभावे द्रष्टृता च शाम्येद्बोधोऽवशिष्यते ॥ ३,७.३२ ॥

हे "राम" । त्वम् । चेत्"यदि कतिचित्दिनानि" कियन्ति दिनानि । "अखिन्नधीः" अनुद्विग्नमतिः सन् । संमुखधीः सन्निति यावत् । "साधुसङ्गमसच्छास्त्रपरमः तिष्ठसि" । "तत्" तदा । "अहं क्षणात्ते" तव । त्वां प्रतीति यावत् । "दृश्यम्" दृश्यरूपं जगत् । "प्रमार्जयामि" नाशयामि । ज्ञानद्वारेणात्यन्ताभावयुक्तत्वं सम्पादयामीति यावत् । कः "यथा" । "बोधो यथा" । "यथा बोधः" सम्यग्ज्ञानम् । "मृग"तृष्णा"जलं" प्रमार्जयति । तथेत्यर्थः । अनेन साधुसङ्गादेः दृश्यात्यन्ताभावज्ञानं प्रति मुख्यमुपायत्वमुक्तम् । ननु दृश्यमार्जनेन किं सेत्स्यतीत्य् । अत्राह "दृश्याभावे" इति । "दृश्याभावे" ज्ञानद्वारेण दृश्याभावे सिद्धे सति । "द्रष्टृता च शाम्येत्" लयं व्रजेत् । ननु तर्हि अभाव एव शिष्यते इत्य् । अत्राह "बोध" इति । "बोधः" दृश्यद्रष्ट्रत्यन्ताभावसाक्षिभूतं शुद्धचित्तत्त्वम् । "शिष्यते" अवशिष्टं भवति । अन्यथा सिद्धस्यापि दृश्यात्यन्ताभावस्य असत्कल्पत्वं स्यात् ॥ ३,७.३१३२ ॥

 

 

 

ननु कथं दृश्यमात्रात्यन्ताभावेनैव द्रष्टृता शान्तिं व्रजतीत्य् । अत्राह

द्रष्टृत्वं सति दृश्येऽस्मिन् दृश्यत्वं सत्यवेक्षके ।

एकत्वं सति हि द्वित्वे द्वित्वं चैकत्ववेदने ॥ ३,७.३३ ॥

"अस्मिन्" पुरःस्फुरणशीले । "दृश्ये" दृशिक्रियाविषये भावजाते । "सति" सत्तां भजति सति । "द्रष्टृत्वम्" परमार्थतः शुद्धचिन्मात्रस्वरूपद्रष्टृविषयः द्रष्टृभावः स्यात् । विषयसद्भावेन दृशिक्रियां प्रति कर्तृत्वसम्भवात् । तण्डुलादिषु हि सत्सु तद्विषयां पाकक्रियां प्रति कर्तृत्वं भजतः पुरुषस्यैव पाचकत्वं भवति । न केवलं दृश्यसत्तया द्रष्टुः एव द्रष्टृता भवति । अपि तु द्रष्टृसत्तयापि दृश्यस्य दृश्यत्वमस्तीत्यभिप्रायेणाह "दृश्यत्वम्" इति । "अवेक्षके" प्रेक्षके । द्रष्टरीति यावत् । "सति" सत्तां भजति सति । "दृश्यत्वम्" परमार्थतः शुद्धचिन्मात्रस्वरूपदृश्याश्रयः दृश्यभावः स्यात् । न हि पाचकेन पाकक्रियाविषयीकृतं तण्डुलादिकमोदनावस्थाद्यपरपर्यायं पाच्यभावमवलम्बते । अतः अन्योऽन्यापेक्षत्वेन दृश्यमात्रात्यन्ताभावेन द्रष्टृविषया द्रष्टृता नश्यत्येवेति भावः । द्रष्टृत्वदृश्यत्वान्योऽन्याश्रयकथनप्रसङ्गेन तयोः एकत्वद्वित्वयोरपि अन्योऽन्याश्रयं कथयति "एकत्वम्" इति । "एकत्वम्" मुख्यतया पूर्वं गणनार्हे द्रष्टरि गतमेकत्वम् । "द्वित्वे" अवरतया पश्चाद्गणनार्हदृश्यगते द्वित्वे । "सति" सत्तां भजति सति । स्यात् । द्वित्वाभावे गणनस्यैव अप्रवृत्तेः । गणनं हि द्वित्वादिकं वीक्ष्यैव व्यवस्थातुं प्रवर्तते । द्वित्वाद्यभावे तु किमर्थं तस्य प्रवर्तनं स्यात् । व्यवस्थायाः स्वयं वृत्तौ च तत्प्रथमावयवभूतस्य एकत्वस्य स्फुटा एवासिद्धिः । तथा "द्वित्वम्" दृश्यगतं द्वित्वम् । "एकत्ववेदने"

एकत्वाकारे वेदने । द्रष्टृगते एकत्वे इति यावत् । "सति" । स्यात् । एकं विगणय्यैव द्वितीयो गणनविषयतां यातीति स्फुटा एव हि एकत्वं विना द्वित्वस्य अनुपपत्तिः ॥ ३,७.३३ ॥

 

 

 

फलितं कथयति

एकाभावे द्वयोरेव सिद्धिर्भवति नात्र हि ।

द्वित्वैक्यद्रष्टृदृश्यत्वक्षये सदवशिष्यते ॥ ३,७.३४ ॥

"हि" निश्चये । अतः "अत्र" अनयोः एकत्वद्वित्वयोः मध्ये । "एकाभावे" एकस्य द्वित्वस्य वा अभावे सति । "द्वयोः एव" उभयोः द्वित्वैकत्वयोः एव । "सिद्धिः न भवति" । ननु ततः किं सेत्स्यतीत्य् । अत्राह "द्वित्वैक्ये"ति । द्वित्वैक्ययोः द्रष्टृदृश्ययोश्च क्षयः "द्वित्वैक्यद्रष्टृदृश्यक्षयः" । तस्मिन् सति "सत्" द्वित्वादिसाक्षित्वेन स्थितं सदाख्यं वस्तु । "अवशिष्यते" अवशिष्टं भवति ॥ ३,७.३४ ॥

 

 

 

व्यवहितं दृश्यप्रमार्जनप्रतिज्ञां पुनरपि करोति

अहन्तादि जगद्दृश्यं सर्वं ते मार्जयाम्यहम् ।

अत्यन्तासत्त्वसंवित्त्या मनोमकुरतो मलम् ॥ ३,७.३५ ॥

"अहम्" । "अहन्तादि" अहम्भावप्रमुखम् । "मलं" मलभूतम् । "सर्वं दृश्यं जगत्" । "ते मनोमकुरतः" त्वन्मनोदर्पणात् । "अत्यन्तासत्त्वसंवित्त्या" अत्यन्ताभावज्ञानेन । दृश्यविषयात्यन्ताभावज्ञानोत्पादनेनेति यावत् । प्र"मार्जयामि" । युक्तं च मकुरात्मलापमार्जनम् ॥ ३,७.३५ ॥

 

 

 

नन्वेतावतः दृश्यस्य प्रमार्जनं कथं कर्तुं शक्नोषीत्य् । अत्राह

नासतो विद्यते भावो नाभावो विद्यते सतः । ।

यत्तु नास्ति स्वभावेन कः क्लेशस्तत्प्रमार्जने ॥ ३,७.३६ ॥

"असतः" सत्ताकर्तृत्वमभजतः । "भावः" सत्ता । "न विद्यते" । शशशृङ्गस्यापि सत्तापत्तेः । "सतः" सत्ताकर्तृत्वं भजतः । "अभावः" असत्ता । "न विद्यते" । स्वरूपहानिप्रसङ्गात् । न च स्वरूपहानिः युक्ता । अग्नेरपि अग्नित्वहानिप्रसङ्गात् । "यत्" स्वरूपेण "नास्ति" । "तत्प्रमार्जने कः क्लेशः" भवति । न हि शशिशृङ्गत्रोटने कस्यापि यत्नः दृष्टः ॥ ३,७.३६ ॥

 

 

 

ननु तथापि प्रवर्तने किमायातमित्य् । अत्राह

जगदादावनुत्पन्नं यच्चेदं दृश्यते ततम् ।

तत्स्वात्मन्येव विमले ब्रह्म चित्त्वात्स्वबृंहितम्  ॥ ३,७.३७ ॥

"जगतादौ" प्रथममेव । "अनुत्पन्नं" भवति । अतः जगत्प्रमार्जने क्लेशो नास्तीति भावः । ननु यदि जगत्प्रथममेवानुत्पन्नं भवति तर्हि किमिदं भासत इत्य् । अत्राह "यच्चेदम्" इति । "यच्चेदम्" यच्चैतत् । "ततम्" विस्तारितस्वरूपं किञ्चित्"दृश्यते" । "तत्ब्रह्म" "एव" ब्रह्माख्यं वस्तु एव । "विमले स्वात्मनि" शुद्धचिन्मात्रस्वरूपायां स्वभित्तौ । "चित्त्वात्स्वबृंहितं" अतिशयेन बृंहागतं भवति । अन्यथा ब्रह्मत्वायोगात् । बृंहायुक्तमेव हि ब्रह्मोच्यते । न च वस्तुनि बृंहणं नामान्यवस्तुनः उत्पत्तिः वक्तुं शक्यते । जलेऽपि द्रवत्वात्प्रादुर्भूतस्य तरङ्गतया बृंहणस्यान्यवस्तूत्पत्तित्वप्रसङ्गात् । न च मूर्खोऽपि जले तरङ्गानामन्यत्वमङ्गीकरोति । चिद्रूपस्यात्मन एव स्वप्नपदार्थभावेन बृंहणं दृष्टमिति "चित्त्वाद्" इत्युक्तम् ॥ ३,७.३७ ॥

 

 

 

पुनः पुनरेतदेव कथयति

जगन्नाम न चोत्पन्नं न चास्ति न च दृश्यते ।

हेम्नीव कटकादित्वं किमेतन्मार्जने श्रमः ॥ ३,७.३८ ॥

"नाम" निश्चये । "जगत्न चोत्पन्नं" भवति । "न च अस्ति" । "न च दृश्यते" । ब्रह्मण एवैतद्रूपतया स्थितत्वात् । जगत्किम् "इव" । "कटकादित्वमिव" । यथा "हेम्नि" भासमानं "कटकादित्वं" नास्ति । हेम्नः एव तद्रूपतया स्थितत्वात् । तथा इत्यर्थः । अतः "एतत्"प्र"मार्जने" श्रमः किं भवति । ब्रह्मताज्ञानमात्रेणैव प्रमार्जितत्वात् । न हि हेम्नि भासमानं कटकादित्वमशक्यप्रमार्जनं भवति । हेमताज्ञानमात्रेणैव तस्य प्रमार्जितत्वात् ॥ ३,७.३८ ॥

 

 

एतावत आश्वासरहितं शिष्यं ज्ञात्वा तस्य समाश्वासनं करोति

तथैतद्विस्तरेणेह वक्ष्यामो बहुयुक्तिभिः ।

अबाधितं यथा नूनं स्वयमेवानुभूयते ॥ ३,७.३९ ॥

वयम् । "एतत्" पूर्वोक्तं वस्तु । "विस्तरेण बहुयुक्तिभिः तथा इहा"स्मिन् शास्त्रे । "वक्ष्यामः" । "नूनं" निश्चये । "यथा" त्वया "एततबाधितं स्वयमेवानुभूयते" ॥ ३,७.३९ ॥

 

 

प्रकृतमेव कथयति

आदावेव हि नोत्पन्नं यत्तस्येहास्तिता कुतः  ।

कुतो मरौ जलसरिद्द्वितीयेन्दौ कुतो ग्रहः ॥ ३,७.४० ॥

"हि" निश्चये । "यत्" वस्तु । "आदावेव उत्पन्नं न" भवति । "तस्येहास्तिता" सत्त्वम् । "कुतः" भवति । अत्र दृष्टान्तद्वयं कथयति "कुत" इत्यादि ॥ ३,७.४० ॥

 

 

 

यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् ।

यथा नास्ति नभोवृक्षस्तथा नास्ति जगद्भ्रमः ॥ ३,७.४१ ॥

"जगद्भ्रमः" जगद्रूपः भ्रमः । जगदिति यावत् ॥ ३,७.४१ ॥

 

 

 

तर्हि किमिदं भासते इत्य् । अत्राह

यदिदं दृश्यते राम तद्ब्रह्मैव निरामयम् ।

एतत्पुरस्ताद्वक्ष्यामो युक्तितो न गिरैव वः ॥ ३,७.४२ ॥

अस्माभिः "यतिदं दृश्यते" । "तत्निरामयम्" भावाभावाख्यामयरहितम् । "ब्रह्मैव" भवति । वयम् । "एतत्पुरस्तात्" अग्रे । "युक्तितः" युक्तिभिः । "वः" युष्माकम् । "वक्ष्यामः" । "न गिरा एव वक्ष्यामः" । सार्वविभक्तिकस्तसिल् ॥ ३,७.४२ ॥

 

 

 

सर्गान्तश्लोकेन युक्तियुक्तवाक्योपेक्षां त्याज्यत्वेन कथयति

यन्नाम युक्तिभिरिह प्रवदन्ति तज्ज्ञास्

तत्रावहेलनमयुक्तमुदारबुद्धेः । ।

यो युक्तियुक्तमवमत्य विमूढबुद्ध्या

कष्टावहो भवति तं विदुरज्ञमेव ॥ ३,७.४३ ॥

"नाम" निश्चये । "अवहेलनम्" उपेक्षा । "कष्टावहः" कष्टदायी । असम्भवप्रयत्नैरात्मन इति शेषः । इति शिवम् ॥ ३,७.४३ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे सप्तमः सर्गः ॥ ३,७ ॥