पञ्चविंशब्राह्मणम्/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
तृतीये दाशरात्रिके स्तोमविवरणं

12.1
दविद्युतत्यारुचेति तृतीयस्याह्नः प्रतिपद्भवति
दविद्युतती वै गायत्री परिष्टोभन्ती त्रिष्टुब्गवाशीर्जगती त्रीणि रूपाणि समारभते त्रिरात्रस्याविस्रंसाय
एते असृग्रमिन्दव इत्यनुरूपो भवति
एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पित्.ऋंस्तदेव तदभिवदति
पूर्वमु चैव तद्रेपमपरेण रूपेणानुवदति यत् पूर्वं रूपमपरेण रूपणोऽनुवदति तदनुरूपस्यानुरूपत्वमनुरूप एनं पुत्रो जायते य एवं वेद
स्तोत्रीयानुरूपौ तृचो भवतः प्राणापानानामवरुध्यै
राजा मेधाभिरीयते पवमानो मनावध्यन्तरिक्षेण यातव इति
अन्तरिक्षदेवत्यस्तृचो भवत्यन्तरिक्षदेवत्यमेतदहर्यत् तृतीयं तदेव तदभिवदति
पञ्चर्चौ भवति पञ्चपदा पङ्क्तिः पाङ्क्तमन्नमन्नाद्यस्यावरुध्यै
तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युपयान्ति
सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै
12.2
अग्निनाग्निः समिध्यत इत्याग्रेयमाज्यं भवति
पूर्वे एव तदहनी समिद्धे तृतीयमहरभिसमिन्धे
मित्रं हुवे पूतदक्षमिति राथन्तरं मैत्रावरुणम्
हुव इति वै राथन्तरं रूपम्
रथन्तरमेतत् परोक्षं यद्वैरूपं राथन्तरमेव तद्रूपं निर्द्योतयति
इन्द्रेण सं हि दृक्षुस इत्यैन्द्रम्
समिव वा इमे लोका ददृशिरेऽन्तरिक्षदेवत्यमेतदहर्यत् तृतीयं तदेव तदभिवदति
ता हुवे ययोरिदमिति राथन्तरमैन्द्राग्नम्
हुव इति वै राथन्तरं रूपं रथन्तरमेतत् परोक्षं यद्वैरूपं राथन्तरमेव तद्रूपं निर्द्योतयति स्तोमः
12.3
उच्चा ते जातमन्धस इति गायत्री भवति
उद्वद्वा एतदहर्यत् तृतीयं तदेव तदभिवदति
अन्धस्वती भवत्यहर्वा अन्धोऽह्न आरम्भः
अभि सोमास आयव इति
अभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपमुपैत्युभौ हि वर्णावेतदहः
तिस्रो वाच ईरयति प्रवह्निरिति तृतीयस्याह्नो रूपं तेन तृतीयमहरारभन्ते
त्रिष्टुभः सत्यो जगत्यो रूपेण जागतं ह्येतदहः
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
वैष्टम्भं भवति
अहर्वा एतदव्लीयत तद्देवा वैष्टम्भैर्व्यष्टभ्नुवंस्तद्वैष्टम्भस्य वैष्टम्भत्वम्
दिश इति निधनमुपयन्ति दिशां धृत्यै
पौरूमद्गं भवति
अहर्वा एतदव्लीयमानं तद्रक्षांस्यन्वसचन्त तस्माद्देवाः पौरूमद्गेन रक्षांस्यपाघ्नन्नप पाप्मानं हते पौरूमद्गेन तुष्टुवानः
देवाश्च वासुराश्चास्पर्धन्त ते देवा असुराणां पौरूमद्गेन पुरोऽमज्जयन् यत् पुरोऽमज्जयंस्तस्मात् पौरूमद्गं पाप्मानमेवैतेन भ्रातृव्यं मज्जयति
गौतमं भवति
यदेव गौतमस्य ब्राह्मणम्
उभयतः स्तोत्रं तथा ह्येतस्याह्नो रूपम्
अन्तरिक्षं भवति
अन्तरिक्षदेवत्यमेतदहर्यत् तृतीयमन्तरिक्ष एव तदन्तरिक्षेण स्तुवते प्रतिष्ठायै
आष्कारणिधनं काण्वं भवति
असिति वै राथन्तरं रूपं हसिति बार्हतं तृतीयमेव तद्रूपमुपयन्ति समृध्यै
अङ्गिरसां संक्रोशो भवति
एतेन वा अङ्गिरसः संक्रोशमानाः स्वर्गं लोकमापन् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः स्तोमः
12.4
यद्याव इन्द्र ते शतमिति शतवत्यो भवन्ति
शतवद्वै पशूनां रूपं सहस्रवत् पशूनामेवैताभी रूपमवरून्धे
वयङ्घत्वा सुतावन्त इति सतोबृहत्यो वर्षीयश्छन्द आक्रमतेऽनपभ्रंशाय
तरणिरित् सिषासति वाजं पुरन्ध्या युजा। आव इन्द्रं पुरुहूतं न मे गिरेत्यावदक्षरमुद्धतमिव वै तृतीयमहर्यदेव तावदक्षरं भवत्यहरेवैतेन प्रतिष्ठापयति
पञ्चनिधनं वैरूपं पृष्ठं भवति दिशां धृत्यै
पञ्चपदा पङ्क्तिः पाङ्क्तमन्नमन्नाघस्यावरूध्यै
दिशां वा एतत् साम यद्वैरूपं दिशो ह्येवैतेनाभिवदति
अथ यत् पञ्चनिधनं तेनर्तूनां पञ्च ह्यृतवः
ऋतुभिश्च वा इमे लोका दिग्भिश्चावृतास्तेष्वेवोभयेषु यजमानं प्रतिष्ठापयति यजमानं वा अनुप्रतितिष्ठन्तमुद्गाता प्रतितिष्ठति य एवं विद्वान् वैरूपेणोद्गायति
दिग्वद्भवति भ्रातृव्यस्यापनुत्यै
दिशं विशमिति निधनमुपयन्ति दिशां धृत्यै
हसित्युपरिष्टाद्दिशां निधनमुपयन्ति तेन बार्हतम्
राथन्तरो वा अयं लोको बार्हतोऽसावुभे एव तद्बृहद्रथन्तरयो रूपेणापराध्नोति
अनड्वाहौ वा एतौ देवयानौ यजमानस्य यद्बृहद्रथन्तरे तावेव तद्युनक्ति स्वर्गस्य लोकस्य समष्ट्यै
अश्ववद्भवति प्रजात्यै
यथा मण्डूक आट्करोत्येवं निधनमुपयन्त्ययातयामतायै
द्वादश वैरूपाणि भवन्ति द्वादशमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति
विरूपः संवत्सरो विरूपमन्नाद्यस्यावरुध्यै
महावैष्टम्भं ब्रह्मसाम भवत्यन्नाद्यस्यावरुध्यै
यदा वै पुरुषोऽन्नमत्त्यथान्तरतो विष्टब्धः
दिश इति निधनमुपयन्ति दिशां धृत्यै
सतो बृहतीषु स्तुवन्ति पूर्वयोरह्नोः प्रत्युद्यमाय
रौरवमच्छावाकसाम भवति
अग्निर्वै रूरो रूद्रोऽग्निः
अग्निर्वा एतस्य पशूनपक्रमयति यस्य पशवोऽपक्रामन्त्यग्निरेव तस्य पशूनभिक्रमयति यस्य पशवोऽभिक्रामन्ति
अभ्यभ्येवास्य पशवः क्रामन्ति य एवं विद्वान् रौरवेण स्तुवते
परिष्टुब्धेडं तथा ह्येतस्याह्नो रूपं स्तोमः
12.5
तिस्रो वाच उदीरत"इति तृतीयस्याह्नो रूपं तेन तृतीयमहरारभन्ते
उद्वद्वा एतत् त्रिवदहर्यत् तृतीयं तदेव तदभिवदति
ा सोता परिषिञ्चत"इति परिवत्यो भवन्ति
अन्तो वै तृतीयमहस्तस्यैताः पर्याप्त्यै
सखाय आनिषीदत"इत्युद्धत्तमिव वै तृतीयमहर्यदाह निषीदतेत्यहरेवैतेन प्रतिष्ठापयति
सुतासो मधुमत्तमा"इत्यनुष्टुभः सत्यो जगत्यो रूपेण जागतं ह्येतदहः
पवित्रं ते विततं ब्रह्मणस्पत"इति
विततमिव वा इदमन्तरिक्षमन्तरेमे अन्तरिक्षदेवत्यमेतदहर्यत् तृतीयं तदेव तदभिवदति
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
पाष्ठौहं भवति
पष्ठवाड्वा एतेनाङ्गिरसश्चतुर्थस्याह्नो वाचं वदन्तीमुपाशृणोत् स हो वागिति निधनमुपैत् तदस्याभ्युदितं तदहरवसत्
वाचः साम भवति
वाग्वै द्वादशाहो वाच्येव तद्वाचा स्तुवते यज्ञस्य प्रभूत्यै
निष्किरीयाः सत्त्रमासत ते तृतीयमहर्न प्राजानंस्तानेतत् साम गायमानान् वागुपाप्लवत् तेन तृतीयमहः प्राजानंस्तेऽब्रुवन्नियं वाव नस्तृतीयमहरदीदृशदिति तृतीयस्यैवैषाह्नो दृष्टिः
शौक्तं भवति
शुक्तिर्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्
त्वाष्ट्रीसाम भवति
इन्द्रं वा अक्ष्यामयिणं भूतानि नास्वापयंस्तमेतेन त्वाष्ट्रयोऽस्वापयंस्तद्वाव तास्तर्ह्यकामयन्त
कामसनि साम त्वाष्ट्रीसाम काममेवैतेनावरुन्धे
इन्द्रो वृत्राद्बिभ्यद्गां प्राविशत् तं त्वाष्ट्रयोऽब्रुवं जनयामेति तमेतैः सामभिरजनयं जायामहा इति वै सत्त्रमासते जायन्त एव
अरिष्टं भवति
देवाश्च वा असुराश्चास्पर्धन्त यं देवानामघ्नन्न स समभवद्यमसुराणां सं सोऽभवत् ते देवास्तपोऽतप्यन्त त एतदरिष्टमपश्यंस्ततोऽयं देवानामघ्नत् सं सोऽभवद्यमसुराणां न स समभवदनेनारिषामेति तदरिष्टस्यारिष्टत्वमरिष्टया एवारिष्टमन्ततः क्रियते
त्रीडं भवति त्रिरात्रस्य धृत्यै
द्रवन्तीमिडामुत्तमामुपयन्ति चतुर्थस्याह्नः सन्तत्यै स्तोमः
12.6
प्रमंहिष्ठाय गायतेति
यद्गायतेति महस एव तद्रूपं क्रियते
तं ते मदङ्गणीमसीति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
श्रुधी हवं तिरश्च्या"इति श्रुत्या एव
प्रमंहिष्ठीय भवति
प्रमंहिष्ठीयेन वा इन्द्रो वृत्राय वज्रं प्रावर्तयत् तमस्तृणुत भ्रातृव्यवान् प्रमंहिष्ठीयेनोक्थानि प्रणयेत स्तृणुते भ्रातृव्यं वसीयां आत्मना भवति
हारिवर्णं भवति
इन्द्रश्च वै नमुचिश्चासुरः समदधातां न नो नक्तन्न दिवाहनन्नार्द्रेण न शुष्केणेति तस्य व्युष्टायामनुदित आदित्येऽपां फेनेन शिरोऽछिनदेतद्वै न नक्तं न दिवा यत् व्युष्टायामनुदित आदित्य एतन्नार्द्रन्न शुष्कं यदपां फेनस्तदेनं पापीयां वाचं वददन्ववर्तत वीरहन्न द्रुहो द्रुह इति तन्नर्चा न साम्नापहन्तुमशक्नोत्
हारिवर्णस्यैव निधनेनापाहत
अपशुचंहते हारिवर्णस्य निधनेन श्रियं च हरश्चोपैति तुष्टुवानः
तैरश्चयं भवति
अङ्गिरसः स्वर्गं लोकं यन्तो रक्षांस्यन्वसचन्त तान्येतेन तिरश्चाङ्गिरसस्तिर्यङ्पर्यवैद्यत् तिर्यङपर्यवैत् तस्मात् तैरश्च्यं पाप्मा वाव स तानसचत तं तैरश्च्येनापाघ्नताप पाप्मानं हते तैरश्च्येन तुष्टुवानः
सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै
12.7
प्र त आश्विनीः पवमानधेनव"इति चतुर्थस्याह्नः प्रतिपद्भवति
आप्ते त्रिरात्रे रूपेण गायत्र्यो द्वितीयं प्रयन्ति प्रति वै गायत्र्या रूपम्
जगती प्रतिपद्भवति जागतमेतदहर्यत् तृतीयं जगत्या एव तज्जगतीमभिसंक्रामन्ति
यदतोऽन्या प्रतिपत्स्यात् प्रतिकूलं वानुकूलं वा स्यात्
पवमानो अजीजनदित्यनुरूपो भवति
जनद्वद्वा एतदहर्यच्चतुर्थमन्नाद्यं जनयति विराजं जनयत्येकविंशं स्तोमं जनयति
पूर्वमु चैव तद्रूपमपरेण रूपेणानुवदति तदनुरूपस्यानुरूपत्वम्
अनुरूप एनं पुत्रो जायते य एवं वेद
स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानामवरुध्यै
षडृचौ भवत ऋतूनां धृत्यै
तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति
12.8
जनस्य गोपा अजनिष्ट जागृविः"इत्याग्नेयमाज्यं भवति
जनद्वद्वा एतदहर्यच्चतुर्थमन्नाद्यं जनयति विराजं जनयत्येकविंशं स्तोमं जनयति
यं वां मित्रावरूणा"इति बार्हतं मैत्रावरूणम्
बृहदेतत् परोक्षं यद्वैराजं बार्हतमेव तद्रूपं निर्द्योतयति
िन्द्रो दधीचो अस्थभिर्"इति दाधीचस्तृचो भवति
दध्यङ्वा आङ्गिरसो देवानां पुरोधानीय आसीदन्नं वै ब्रह्मणः पुरोधा अन्नाद्यस्यावरुध्यै
ियं वामस्य मन्मन"इत्यैन्द्राग्नम्
िन्द्राग्नी पूर्व्यस्तुतिरभ्राद्वृष्टिरिवाजनि"इत्यानुष्टुभी वै वृष्टिरानुष्टुभमेतदहर्यच्चतुर्थं समीच्यौ विराजौ दधात्यन्नाद्याय स्तोमः
12.9
पयस्व दक्षसाधन"इति गायत्री भवति सिध्यै
यत् पवस्वेति तद्बृहतो रूपं बार्हतं ह्येतदहः
तवाहं सोम रारण सख्य इन्दो दिवे दिव् पुरूणि बभ्रो निचरन्ति मामव परिधींरतितां इहि"इति
अति ह्यायञ्छकुना इव पप्तिमेत्यति ह्यपतत्
पुनानो अक्रमीदभीति
गायत्र्यः सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
चतुर्णिधनमाथर्वणं भवति चतूरात्रस्य धृत्यै
चतुष्पदानुष्टुभानुष्टुभमेतदहर्यच्चतुर्थम्
भेषजं वाथर्वणानि भेषजमेव तत् करोति
निधनकामं भवति
एकं वा अन्येन निरुक्तेन निधनेन कामं सनोत्यथैतन्निधनकामं सर्वेषां कामानामवरुध्यै
आष्टादंष्ट्रं भवति
यदेवाष्टादंष्ट्रस्य ब्राह्मणम्
आभीशवं भवत्यह्नो धृत्यै
यद्वा अधृतमभीशुना तद्दाधार
अनुतुन्नं गायति तथा ह्येतस्याह्नो रूपम्
चतुर्णिधनमाङ्गिरसं भवति चतूरात्रस्य धृत्यै
स्वः पृष्ठं तथा ह्येतस्याह्नो रूपम्
सत्त्रासाहीयं भवति
यद्वा असुराणामसोढमासीत् तद्देवाः सत्त्रासाहीयेनासहन्त सत्त्रैनानसक्ष्महीति तत् सत्त्रासाहीयस्य सत्त्रासाहीयत्वम्
सत्त्रा भ्रातृव्यं सहते सत्त्रासाहीयेन तुष्टुवानः
गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
वृषण्वत्यो गायत्रयो भवन्ति तदु त्रैष्टुभाद्रूपान्नयन्ति स्तोमः
12.10
"पिबा सोममिन्द्र मन्दतु त्वा यन्ते सुषाव हर्यश्वाद्रिः। सोतुर्बाहुभ्यां सुयतो नार्वा"इत्ययतमिव वै चतुर्थमहस्तस्यैव यत्यै
विश्वाः पृतना अभिभृतरन्नर इत्यतिजगती वर्षीययश्छन्द आक्रमतेऽनपभ्रंशाय
अपभ्रंश इव वा एष यज्जयायसश्छन्दसः कनीयश्छन्द उपैति यदेषा चतुर्थेऽहन्यतिजगती क्रियतेऽनपभ्रंशाय
यो राजा चर्षणीनामिति
राज्ये ह्येतर्हि वाचोऽगच्छन् राज्यमेवैतया यजमानं गमयन्ति
छन्दोभिर्वै देवा आदित्यं स्वर्गं लोकमहरन् स नाध्रियत तं वैराजस्य निधनेनादृंहंस्तस्मात् पराङ्चार्वाङ्चादित्यस्तपति पराङ्चार्वाङ्चेकारः
प्रस्तावं प्रस्तुत्य विष्टम्भान् विष्टभ्नोति मुखत एव तदन्नाद्यं धत्ते मुखं हि साम्नः प्रस्तावः
दशकृत्वो विष्टभ्नोति दशाक्षरा विराङ्वैराजमन्नमन्नाद्यस्यावरुध्यै
त्रिंशत्कृत्वो विष्टभ्नोति भूयसोऽन्नाद्यस्यावरुध्यै
वैराजं साम भवति विराट्सु स्तुवन्ति वैराजा विष्टम्भाः समीचीर्विराजो दधात्यन्नाद्याय
अनुतुन्नं गायति रेतोधेयायानुतुन्नाद्धि रेतो धीयते
दक्षिण ऊरावुद्गतुरग्निं मन्थन्ति दक्षिणतो हि रेतः सिच्यते
उपाकृतेऽहिङ्कृते मन्थन्ति जातमभिहिङ्करोति
तस्माज्जातं पुत्रं पशवोऽभिहिङ्कुर्वन्ति
तस्मै जातायामीमांसन्त गार्हपत्ये प्रहरामा३ आग्नीध्रा३ आहवनीया३ इति
आहवनीये प्रहरन्त्येतदायतनो वै यजमानो यदा हवनीये स्वमेव तदायतनं ज्योतिष्मत् करोति
ज्योतिष्मान् ब्रह्मवर्चसी भवति य एवं वेद
अभिजुहोति शान्त्यै
आज्येनाभिजुहोति तेजो वा आज्यं तेज एव तदात्मन् धत्ते
"प्रेद्धो अग्ने दीदिहि पुरो न"इति विराजाभिजुहोत्यन्नं विराडन्नाद्यस्यावरुध्यै
त्रैशोकं ब्रह्मसाम भवति
अतिजगतीषु स्तुवन्त्यह्न उत्क्रान्त्या उद्वा एतेनाह्ना क्रामन्ति
दिवेति निधनमुपयन्ति पाप्मनोऽपहत्या अपपाप्मानं हते त्रैशोकेन तुष्टुवानः
भारद्वाजस्य पृश्न्यछावाकसाम भवति
अन्नं वै देवाः पृश्नीति वदन्त्यन्नाद्यस्यावरुध्यै
इडाभिरैडं तथा ह्येतस्याह्नो रूपं स्तोमः
12.11
"परिप्रिया दिवः कविर्"इति परिवत्यो भवन्त्यन्तो वै चतुर्थमहस्तस्यैताः पर्याप्त्यै
त्वं ह्यङ्ग दैव्येति त्वमिति बृहतो रूपं बार्हतं ह्येतदहः
सोमः पुनान ऊर्मिणा व्यंवारं विधावति। अग्रे वाचः पवमानः कनिक्रददिति
अग्रं ह्येतर्हि वाचोऽगच्छन्नग्रमेवैतया यजमानं गमयन्ति
"पुरो जितीवो अन्धसा"इति विराजौ वैराजं ह्येतदहः
"सोमः पवते जनिता मतीनाम्"इति प्रातस्सवने षोडशिनं गृहीतं तं तृतीयसवने प्रजनयन्ति
त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
और्णायवं भवति
अङ्गिरसो वै सत्त्रमासत तेषामाप्तः स्पृतः स्वर्गो लोक आसीत् पन्थानं तु देवयानं न प्राजानंस्तेषां कल्याण आङ्गिरसो ध्यायमुदव्रजत् स ऊर्णायुं गन्धर्वमप्सरसां मध्ये प्रेङ्खयमाणमुपैत् स इयामिति यां यामभ्यदिशत् सैनमकामयत तमभ्यवदत् काल्याणा३ इत्यासो वै वः स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं न प्रजानीथेदं साम स्वर्ग्यं लोकमेष्यथ मा तु वोचोहमदर्शमिति
स ऐत् कल्याणः सोऽब्रवीदाप्तो वै नः स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं प्रजानीम इदं साम स्वर्ग्यं तेन स्तुत्वा स्वर्गं लोकमेष्याम इति कस्तेऽवोचदित्यहमेवादर्शमिति तेन स्तुत्वा स्वर्गं लोकमायन्नहीयत कल्याणोऽनृतं हि सोऽवदत् स एषः श्वित्रः
स्वर्ग्यं वा एतत् साम स्वर्गलोकः पुण्यलोको भवत्यौर्णायवेन तुष्टुवानः
बृहत्कं भवति
सामार्षेयेण प्रशस्तं त्वं हीत्यन्नाद्यस्यावरुध्यै हीति वा अन्नं प्रदीयते षोडशिनमु चैवैतेनोद्यच्छति
आतीषादीयं भवति
आयुर्वा आतीषादीयमायुषोऽषरुध्यै
आतमितोर्निधनमुपयन्त्यायुरेव सर्वमाप्नुवन्ति
नानदं भवति
ज्यायोऽभ्यारम्भमतिहाय पञ्चमहः षष्ठस्याह्न आरम्भस्तेन षष्ठमहरारभन्ते सन्तत्यै
षोडशाक्षरेण प्रस्तौति षोडशिनमु चैवैतेनोद्यच्छति
आन्धीगवं भवति
कयोरन्नाद्यमवरून्ध आन्धीगवेन तुष्टुवानः
वात्सप्रं भवति
एतस्मिन् वै वैराजं प्रतिष्ठितं प्रतितिष्ठति वात्सप्रेण तुष्टुवानः
वत्सप्रीर्भालन्दनः श्रद्धां नाविन्दत स तपोऽतप्यत स एतद्वात्सप्रमपश्यत् स श्रद्धामविन्दत श्रद्धा विन्दामहा इति वै सत्त्रमासते विन्दते श्रद्धाम्
ईनिधनं तथा ह्येतस्याह्नो रूपं निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः
12.12
"ग्निं वो वृधन्तम्"इति
अवर्धन्त ह्येतर्हि यजमानमेव तथा वर्धयन्ति
"वयमु त्वामपूर्व्य"इत्यपूर्वां ह्येतर्हि प्रजापतेस्तनूमगच्छन्नपूर्वमेवैतया यजमानं गमयन्ति
"िममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्"इति ज्यैष्ठं ह्येतर्हि वाचोऽगच्छन् ज्यैष्ठ्यमेवैतया यजमानं गमयन्ति
सैन्धुक्षितं भवति
सिन्धुक्षिद्वै राजन्यर्षिर्ज्योगपरुद्धश्चरन् स एतत् सैन्धुक्षितमपश्यत् सोऽवागच्छत् प्रत्यतिष्ठदवगच्छति प्रतितिष्ठति सैन्धुक्षितेन तुष्टुवानः
सौभरं भवति बृहतस्तेजः
पन्नमिव वै चतुर्थमहस्तदेतेन बृहतस्तेजसोत्तभ्नोति सौभरेण
वसिष्ठस्य प्रियं भवति
एतेन वै वसिष्ठ इन्द्रस्य प्रेमाणमगच्छत् प्रेमाणं देवतानां गच्छति वासिष्ठेन तुष्टुवानः स्तोमः
12.13
इन्द्रश्च बृहच्च समभवतां तमिन्द्रं बृहदेकया तन्वात्यरिच्यत तस्या अबिभेदनया माभिभविष्यतीति सोऽब्रवीत् षोडशी तेऽयं यज्ञक्रतुरस्त्विति स षोडश्यभवत् तदस्य जन्म
अतिश्रिया भ्रातृव्यं रिच्यते यो गायत्रीषु द्विपदासु बृहता षोडशिना स्तुते
"ुप नो हरिभिः स्तुतम्"इत्येता वै गायत्र्यो द्विपदा एतासु स्तोतव्यम्
इन्द्रः प्रजापतिमुपाधावद्वृत्रं हनानीति तस्मा एतामनुष्टुभमपहरसं प्रायच्छत् तया नास्तृणुत यदस्तृता व्यनदत् तन्नानदस्य नानदत्वम्
तं पुनरुपाधावत् तस्मै सप्तानां होत्राणां हरो निर्माय प्रायच्छत् तमस्तृणुत
स्तृणुते तं यं तुस्तूर्षते य एवं वेद
तस्माद्धरिवतीषु स्तुवन्ति हरिवतीः शंसन्ति हरिवतीषु ग्रहो गृह्यते हरो ह्यस्मै निर्माय प्रायच्छत्
एकविंशायतनो वा एष यत् षोडशी सप्त हि प्रातस्सवने होत्रा वषट्कुर्वन्ति सप्त माध्यन्दिने सवने सप्त तृतीयसवने
गौरीवितं भवति
गौरीवितिर्वा एतच्छाक्त्यो ब्रह्मणोऽतिरिक्तमपश्यत् तद्गौरीवितमभवदतिरिक्तं एतदतिरिक्तेन स्तुवन्ति यद्गौरीवितेन षोडशिनं श्वस्तनवान् भवत्यपि प्रजाया उपकॢप्तः
विशालं लिब्जया श्रूत्याभ्यधादिति होवाचोपोदितिर्गोपालेयोऽनुष्टुभि नानदमकर्गौरीवितेन षोडशिनमस्तोष्टाञ्जसा श्रियमुपागान्न श्रिया अवपद्यत इति
एष वै विशालं लिब्जया भूत्याभिदधाति योऽनुष्टुभि नानदं कृत्वा गौरीवितेन षोडशिना स्तुतेऽञ्जसा श्रियमुपैति न श्रिया अवपद्यते
शक्वरीषु षोडशिना स्तुवीत यः कामयेत वज्री स्यामिति
वज्रो वै षोडशी वज्रः शक्वर्यो वज्रेणैवास्मै वज्रं स्पृणोति वज्री भवति
अनुष्टुप्सु षोडशिना स्तुवीत यः कामयेत न मा वागतिवदेत्
वज्रो वै षोडशी वागनुष्टुब्वज्रेणैवास्मै वाचं स्पृणोति नैनं वागतिवदति
"सावि सोम इन्द्र त"इत्येतासु स्तोतव्यम्
विराट्स्वन्नाद्यकामः षोडशिना स्तुवीत वज्रो वै षोडशी वैराजमन्नं वज्रेणैवास्मा अन्नं स्पृणोत्यन्नादो भवति
"प्र वो महे वृधे भरध्वम्"इत्येतासु स्तोतव्यम्
त्रयस्त्रिंशदक्षरा वा एता विराजो यदेकविंशतिः प्रतिष्ठा सा यद्द्वादश प्रजातिः सा
प्रतिष्ठाय प्रजायते नो चान्तस्थायां जीर्यते य एवं वेद
अथ वा एता एकपदास्त्र्यक्षरा विष्णोश्छन्दो भुरिजः शक्वर्यः
एताभिर्वा इन्द्रो वृत्रमहन् क्षिप्रं वा एताभिः पाप्मानं हन्ति क्षिप्रं वसीयान् भवति
चतुस्त्रिंशदक्षराः संस्तुतो भवति त्रयस्त्रिंशद्देवत्ताः प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतिमेवोपयन्त्यरिष्ट्यै
हिरण्यं सम्प्रदायं षोडशिना स्तुवते ज्योतिष्मानस्य षोडशी भवति
अश्वः कृष्ण उपतिष्ठति साम्येक्षयाय भ्रातृव्यलोकमेव स विधमंस्तिष्ठति
एकाक्षरं वै देवानामवमं छन्द आसीत् सप्ताक्षरं परमं नवाक्षरमसुराणामवमं छन्द आसीत् पञ्चदशाक्षरं परमं देवाश्च वा असुराश्चास्पर्धन्त तान् प्रजापतिरानुष्टुभो भूत्वान्तरातिष्ठत् तं देवासुरा व्यह्वयन्त स देवानुपावर्तत ततो देवा अभवन् परासुराः
भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
ते देवा असुराणामेकाक्षरेणैव पञ्चदशाक्षरमवृञ्जत द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरमष्टाभिरेवाष्टाववृञ्जत
एवमेव भ्रातृव्याद्भूतिं वृङ्क्ते य एवं वेद
अपरुद्धयज्ञ इव वा एष यत् षोडशी कनीयस्विन इव वै तर्हि देवा आसन् भूयस्विनोऽसुराः कनीयस्विन भूयस्विनं भ्रातृव्यं वृङ्क्ते य एवं वेद
"यस्मादन्यो न परोऽस्ति जातो य आबभूव भुवनानि विश्वा। प्रजापतिः प्रजया सम्विदानस्त्रीणि ज्योतीं षि सचते स षोडशी"इत्युद्गाता ग्रहमवेक्षते
ज्योतिष्मानस्य षोडशी भवति य एवं वेद
एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति

१२.१.१ सप्तदशस्तोमस्य प्रथमतृचविधानं

दविद्युतत्यारुचेति तृतीयस्याह्नः प्रतिपद्भवति

१२.१.२ त्रिरात्रसन्धानप्रदर्शनं

दविद्युतती वै गायत्री परिष्टोभन्ती त्रिष्टुब्गवाशीर्जगती त्रीणि रूपाणि समारभते त्रिरात्रस्याविस्रंसाय

१२.१.३ अनुरूपाख्यतृचविधानं

एते असृग्रं इन्दव इत्यनुरूपो भवति

१२.१.४ सृष्टिरूपार्थप्रतिपादनं

एत इति वै प्रजापतिर्देवानसृजतासृग्रं इति मनुष्यानिन्दव इति पितॄंस्तदेव तदभिवदति

१२.१.५ तृचानुरूपसंज्ञावेदनफलं

पूर्वं उ चैव तद्रेपं अपरेण रूपेणानुवदति यत्पूर्वं रूपं अपरेण रूपणोऽनुवदति तदनुरूपस्यानुरूपत्वं अनुरूप एनं पुत्रो जायते य एवं वेद

१२.१.६ फलान्तरहेतुताकथनं

स्तोत्रीयानुरूपौ तृचो भवतः प्राणापानानां अवरुध्यै

१२.१.७ तृचान्तरविधानं

राजा मेधाभिरीयते पवमानो मनावध्यन्तरिक्षेण यातव इति

१२.१.८ पादद्वयानुवादसङ्गतिकथनं

अन्तरिक्षदेवत्यस्तृचो भवत्यन्तरिक्षदेवत्यं एतदहर्यत्तृतीयं तदेव तदभिवदति

१२.१.९ पञ्चर्चसामविधानं

पञ्चर्चौ भवति पञ्चपदा पङ्क्तिः पाङ्क्तं अन्नं अन्नाद्यस्यावरुध्यै

१२.१.१० अन्यतृचविधानं

तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तं अभ्युपयान्ति

१२.१.११ विशिष्टफलहेतुताकथनं

सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै

१२.२.१ होतुराज्यस्य स्तोत्रीयतृचः

अग्निनाग्निः समिध्यत इत्याग्रेयं आज्यं भवति

१२.२.२ अग्निशब्दस्य पर्य्यवसितार्थकथनं

पूर्वे एव तदहनी समिद्धे तृतीयं अहरभिसमिन्धे

१२.२.३ द्वितीयाज्यस्तोत्रीयतृचः

मित्रं हुवे पूतदक्षं इति राथन्तरं मैत्रावरुणम्

१२.२.४ तस्य सन्धिताकथनं

हुव इति वै राथन्तरं रूपम्

१२.२.५ राथन्तराज्यविधानमन्त्रः

रथन्तरं एतत्परोक्षं यद्वैरूपं राथन्तरं एव तद्रूपं निर्द्योतयति

१२.२.६ ब्रह्मण आज्यस्तोत्रं

इन्द्रेण सं हि दृक्षुस इत्यैन्द्रम्

१२.२.७ तृतीयेऽहन्यस्य सङ्गतिः

सं इव वा इमे लोका ददृशिरेऽन्तरिक्षदेवत्यं एतदहर्यत्तृतीयं तदेव तदभिवदति

१२.२.८ चतुर्थाज्यस्तोत्रविधानं

ता हुवे ययोरिदं इति राथन्तरं ऐन्द्राग्नम्

१२.२.९ राथन्तरस्य वैरूपे सङ्गतिः

हुव इति वै राथन्तरं रूपं रथन्तरं एतत्परोक्षं यद्वैरूपं राथन्तरं एव तद्रूपं निर्द्योतयति स्तोमः

१२.३.१ माध्यन्दिनस्याद्यतृतीयतृचः

उच्चा ते जातं अन्धस इति गायत्री भवति

१२.३.२ तृतीये ऽहनि अस्य सङ्गतिः

उद्वद्वा एतदहर्यत्तृतीयं तदेव तदभिवदति

१२.३.३ पवमानस्यारम्भयोग्यता

अन्धस्वती भवत्यहर्वा अन्धोऽह्न आरम्भः

१२.३.४ अन्यप्रगाथविधानं

अभि सोमास आयव इति

१२.३.५ बृहद्रथन्तरयोः सम्बन्धकथनं

अभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपं उपैत्युभौ हि वर्णावेतदहः

१२.३.६ तृचान्तरविधानं

तिस्रो वाच ईरयति प्रवह्निरिति तृतीयस्याह्नो रूपं तेन तृतीयं अहरारभन्ते

१२.३.७ जागतेऽहनि सङ्गतिकथनं ।

त्रिष्टुभः सत्यो जगत्यो रूपेण जागतं ह्येतदहः

१२.३.८ प्राकृतिकब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१२.३.९ सामान्तरविधानं

वैष्टम्भं भवति

१२.३.१० अहर्दार्ढ्यहेतुताकथनं

अहर्वा एतदव्लीयत तद्देवा वैष्टम्भैर्व्यष्टभ्नुवंस्तद्वैष्टम्भस्य वैष्टम्भत्वम्

१२.३.११ दिशां धृतिहेतुताकथनं

दिश इति निधनं उपयन्ति दिशां धृत्यै

१२.३.१२ पौरुमद्गसामगातव्यता

पौरूमद्गं भवति

१२.३.१३ पापक्षयहेतुताप्रतिपादनं

अहर्वा एतदव्लीयमानं तद्रक्षांस्यन्वसचन्त तस्माद्देवाः पौरूमद्गेन रक्षांस्यपाघ्नन्नप पाप्मानं हते पौरूमद्गेन तुष्टुवानः

१२.३.१४ शुद्धिहेतुताकथनं

देवाश्च वासुराश्चास्पर्धन्त ते देवा असुराणां पौरूमद्गेन पुरोऽमज्जयन्यत्पुरोऽमज्जयंस्तस्मात्पौरूमद्गं पाप्मानं एवैतेन भ्रातृव्यं मज्जयति

१२.३.१५ गेयसामान्तरविधानं

गौतमं भवति

१२.३.१६ ब्राह्मणातिदेशः

यदेव गौतमस्य ब्राह्मणम्

१२.३.१७ अहःसङ्गतिकथनं

उभयतः स्तोत्रं तथा ह्येतस्याह्नो रूपम्

१२.३.१८ सामान्तरविधानं

अन्तरिक्षं भवति

१२.३.१९ सामाहःसङ्गतिप्रदर्शनं

अन्तरिक्षदेवत्यं एतदहर्यत्तृतीयं अन्तरिक्ष एव तदन्तरिक्षेण स्तुवते प्रतिष्ठायै

१२.३.२० एकसामगेयताविधानं

आष्कारणिधनं काण्वं भवति

१२.३.२१ समृद्धिहेतुताकथनं

असिति वै राथन्तरं रूपं हसिति बार्हतं तृतीयं एव तद्रूपं उपयन्ति समृध्यै

१२.३.२२ एकसामविधानं

अङ्गिरसां संक्रोशो भवति

१२.३.२३ स्वर्गप्राप्तिसाधनताकथनं

एतेन वा अङ्गिरसः संक्रोशमानाः स्वर्गं लोकं आपन्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः स्तोमः

१२.४.१ होतुःपृष्ठतृतीयतृचविधानं

यद्याव इन्द्र ते शतं इति शतवत्यो भवन्ति

१२.४.२ ततः किमित्याह

शतवद्वै पशूनां रूपं सहस्रवत्पशूनां एवैताभी रूपं अवरून्धे

१२.४.३ स्तोत्रीयतृचविधानं

वयङ्घत्वा सुतावन्त इति सतोबृहत्यो वर्षीयश्छन्द आक्रमतेऽनपभ्रंशाय

१२.४.४ प्रतिष्ठाहेतुताकथनं

तरणिरित्सिषासति वाजं पुरन्ध्या युजा । आव इन्द्रं पुरुहूतं न मे गिरेत्यावदक्षरं उद्धतं इव वै तृतीयं अहर्यदेव तावदक्षरं भवत्यहरेवैतेन प्रतिष्ठापयति

१२.४.५ पृष्ठस्तोत्रनिवर्त्तकं साम

पञ्चनिधनं वैरूपं पृष्ठं भवति दिशां धृत्यै

१२.४.६ अन्नाद्यहेतुताकथनं

पञ्चपदा पङ्क्तिः पाङ्क्तं अन्नं अन्नाघस्यावरूध्यै

१२.४.७ प्रकारान्तरेण स्तुतिः

दिशां वा एतत्साम यद्वैरूपं दिशो ह्येवैतेनाभिवदति

१२.४.८ दिक्सम्बन्धेन ऋतुसम्बन्धेन च प्रशंसा

अथ यत्पञ्चनिधनं तेनर्तूनां पञ्च ह्यृतवः

१२.४.९ श्रुतेः फलकथनं

ऋतुभिश्च वा इमे लोका दिग्भिश्चावृतास्तेष्वेवोभयेषु यजमानं प्रतिष्ठापयति यजमानं वा अनुप्रतितिष्ठन्तं उद्गाता प्रतितिष्ठति य एवं विद्वान्वैरूपेणोद्गायति

१२.४.१० दिक्शब्दानुवादेन स्तुतिः

दिग्वद्भवति भ्रातृव्यस्यापनुत्यै

१२.४.११ दिग्धारणलाभः

दिशं विशं इति निधनं उपयन्ति दिशां धृत्यै

१२.४.१२ निधनान्तरप्रदर्शनं

हसित्युपरिष्टाद्दिशां निधनं उपयन्ति तेन बार्हतम्

१२.४.१३ ततः किं तदाह

राथन्तरो वा अयं लोको बार्हतोऽसावुभे एव तद्बृहद्रथन्तरयो रूपेणापराध्नोति

१२.४.१४ रूपद्वयकरणप्रयोजनान्तरं

अनड्वाहौ वा एतौ देवयानौ यजमानस्य यद्बृहद्रथन्तरे तावेव तद्युनक्ति स्वर्गस्य लोकस्य समष्ट्यै

१२.४.१५ निधनान्तरानुवादेन स्तुतिः

अश्ववद्भवति प्रजात्यै

१२.४.१६ बहुनिधनप्रयोगे नीरसत्वं

यथा मण्डूक आट्करोत्येवं निधनं उपयन्त्ययातयामतायै

१२.४.१७ संवत्सरे प्रतिष्ठासाधनं

द्वादश वैरूपाणि भवन्ति द्वादशमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति

१२.४.१८ अन्नाद्यहेतुत्वकथनं

विरूपः संवत्सरो विरूपं अन्नाद्यस्यावरुध्यै

१२.४.१९ गातव्यसामप्रदर्शनं

महावैष्टम्भं ब्रह्मसाम भवत्यन्नाद्यस्यावरुध्यै

१२.४.२० अन्नेनाद्यस्यावरोधः

यदा वै पुरुषोऽन्नं अत्त्यथान्तरतो विष्टब्धः

१२.४.२१ निधनस्य प्रयोजनकथनं

दिश इति निधनं उपयन्ति दिशां धृत्यै

१२.४.२२ आधारभूतानां ऋचां छन्दोद्वारेण स्तुतिः

सतो बृहतीषु स्तुवन्ति पूर्वयोरह्नोः प्रत्युद्यमाय

१२.४.२३ गातव्यसामविधानं

रौरवं अच्छावाकसाम भवति

१२.४.२४ रौरवेनाग्नेः सम्बन्धः

अग्निर्वै रूरो रूद्रोऽग्निः

१२.४.२५ ततः किं स्यात्तदाह

अग्निर्वा एतस्य पशूनपक्रमयति यस्य पशवोऽपक्रामन्त्यग्निरेव तस्य पशूनभिक्रमयति यस्य पशवोऽभिक्रामन्ति

१२.४.२६ जानतः स्तुवतश्च फलकथनं

अभ्यभ्येवास्य पशवः क्रामन्ति य एवं विद्वान्रौरवेण स्तुवते

१२.४.२७ तृतीयेऽहनि इडाविशेषस्थानरूपत्वं

परिष्टुब्धेडं तथा ह्येतस्याह्नो रूपं स्तोमः

१२.५.१ आर्भवपवमानस्याद्यतृचस्यानुपूर्व्वकथनं

ऽऽतिस्रो वाच उदीरतऽऽ इति तृतीयस्याह्नो रूपं तेन तृतीयं अहरारभन्ते

१२.५.२ पूर्वोक्तस्योपपादनं

उद्वद्वा एतत्त्रिवदहर्यत्तृतीयं तदेव तदभिवदति

१२.५.३ अपरा स्तोत्रीया ऋक्

ऽऽआ सोता परिषिञ्चतऽऽ इति परिवत्यो भवन्ति

१२.५.४ तस्य प्रशंसनं

अन्तो वै तृतीयं अहस्तस्यैताः पर्याप्त्यै

१२.५.५ अपरस्तोत्रीयाविधानं

ऽऽसखाय आनिषीदतऽऽ इत्युद्धत्तं इव वै तृतीयं अहर्यदाह निषीदतेत्यहरेवैतेन प्रतिष्ठापयति

१२.५.६ पुनरपरस्तोत्रीयाविधानं

ऽऽसुतासो मधुमत्तमाऽऽ इत्यनुष्टुभः सत्यो जगत्यो रूपेण जागतं ह्येतदहः

१२.५.७ तृचान्तरविधानं

ऽऽपवित्रं ते विततं ब्रह्मणस्पतऽऽ इति

१२.५.८ विततशब्दसूचितसङ्गतिकथनं

विततं इव वा इदं अन्तरिक्षं अन्तरेमे अन्तरिक्षदेवत्यं एतदहर्यत्तृतीयं तदेव तदभिवदति

१२.५.९ ब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१२.५.१० सामान्तरविधानं

पाष्ठौहं भवति

१२.५.११ पष्ठवाह सम्बन्धविधानं

पष्ठवाड्वा एतेनाङ्गिरसश्चतुर्थस्याह्नो वाचं वदन्तीं उपाशृणोत्स हो वागिति निधनं उपैत्तदस्याभ्युदितं तदहरवसत्

१२.५.१२ गातव्यसामविधानं

वाचः साम भवति

१२.५.१३ यज्ञसमृद्धिहेतुताकथनं ।

वाग्वै द्वादशाहो वाच्येव तद्वाचा स्तुवते यज्ञस्य प्रभूत्यै

१२.५.१४ साम्नोहेतुताकथनं

निष्किरीयाः सत्त्रं आसत ते तृतीयं अहर्न प्राजानंस्तानेतत्साम गायमानान्वागुपाप्लवत्तेन तृतीयं अहः प्राजानंस्तेऽब्रुवन्नियं वाव नस्तृतीयं अहरदीदृशदिति तृतीयस्यैवैषाह्नो दृष्टिः

१२.५.१५ गातव्यसामविधानं

शौक्तं भवति

१२.५.१६ स्वर्गप्राप्तिहेतुताकथनं

शुक्तिर्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकं अपश्यत्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः

१२.५.१७ ब्राह्मणातिदेशः

गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्

१२.५.१८ सामान्तरविधानं

त्वाष्ट्रीसाम भवति

१२.५.१९ कामप्राप्तिहेतुताकथनं

इन्द्रं वा अक्ष्यामयिणं भूतानि नास्वापयंस्तं एतेन त्वाष्ट्रयोऽस्वापयंस्तद्वाव तास्तर्ह्यकामयन्त

१२.५.२० ततः किमित्याह

कामसनि साम त्वाष्ट्रीसाम कामं एवैतेनावरुन्धे

१२.५.२१ उत्कृष्टजन्महेतुताकथनं

इन्द्रो वृत्राद्बिभ्यद्गां प्राविशत्तं त्वाष्ट्रयोऽब्रुवं जनयामेति तं एतैः सामभिरजनयं जायामहा इति वै सत्त्रं आसते जायन्त एव

१२.५.२२ गातव्यसामविधानं

अरिष्टं भवति

१२.५.२३ अरिष्टसंज्ञाकथनं

देवाश्च वा असुराश्चास्पर्धन्त यं देवानां अघ्नन्न स समभवद्यं असुराणां सं सोऽभवत्ते देवास्तपोऽतप्यन्त त एतदरिष्टं अपश्यंस्ततोऽयं देवानां अघ्नत्सं सोऽभवद्यं असुराणां न स समभवदनेनारिषामेति तदरिष्टस्यारिष्टत्वं अरिष्टया एवारिष्टं अन्ततः क्रियते

१२.५.२४ धृतिहेतुताकथनं

त्रीडं भवति त्रिरात्रस्य धृत्यै

१२.५.२५ सन्तानहेतुताकथनं

द्रवन्तीं इडां उत्तमां उपयन्ति चतुर्थस्याह्नः सन्तत्यै स्तोमः

१२.६.१ प्रथमोक्थस्तोत्रस्य स्तोत्रीयातृचः

प्रमंहिष्ठाय गायतेति

१२.६.२ तस्य प्रशंसा

यद्गायतेति महस एव तद्रूपं क्रियते

१२.६.३ तृतीयसवनयोग्यताकथनं

ऽऽतं ते मदङ्गणीं असीति मदवद्वै रसवत्तृतीयसवनं मदं एव तद्रसं दधाति

१२.६.४ तृतीयोक्थस्य स्तोत्रीयतृचः

ऽऽश्रुधी हवं तिरश्च्याऽऽ इति श्रुत्या एव

१२.६.५ गेयसामप्रदर्शनं

प्रमंहिष्ठीयं भवति

१२.६.६ तस्य स्तुतिः

प्रमंहिष्ठीयेन वा इन्द्रो वृत्राय वज्रं प्रावर्तयत्तं अस्तृणुत भ्रातृव्यवान्प्रमंहिष्ठीयेनोक्थानि प्रणयेत स्तृणुते भ्रातृव्यं वसीयां आत्मना भवति

१२.६.७ गातव्यसामप्रदर्शनं

हारिवर्णं भवति

१२.६.८ शापापहतिहेतुताकथनं

इन्द्रश्च वै नमुचिश्चासुरः समदधातां न नो नक्तन्न दिवाहनन्नार्द्रेण न शुष्केणेति तस्य व्युष्टायां अनुदित आदित्येऽपां फेनेन शिरोऽछिनदेतद्वै न नक्तं न दिवा यत्व्युष्टायां अनुदित आदित्य एतन्नार्द्रन्न शुष्कं यदपां फेनस्तदेनं पापीयां वाचं वददन्ववर्तत वीरहन्न द्रुहो द्रुह इति तन्नर्चा न साम्नापहन्तुं अशक्नोत्

१२.६.९ केनापहतवानिति तदाह

हारिवर्णस्यैव निधनेनापाहत

१२.६.१० फलकथनं

अपशुचंहते हारिवर्णस्य निधनेन श्रियं च हरश्चोपैति तुष्टुवानः

१२.६.११ गेयसामप्रदर्शनं

तैरश्चयं भवति

१२.६.१२ पापापहतिहेतुताकथनं

अङ्गिरसः स्वर्गं लोकं यन्तो रक्षांस्यन्वसचन्त तान्येतेन तिरश्चाङ्गिरसस्तिर्यङ्पर्यवैद्यत्तिर्यङपर्यवैत्तस्मात्तैरश्च्यं पाप्मा वाव स तानसचत तं तैरश्च्येनापाघ्नताप पाप्मानं हते तैरश्च्येन तुष्टुवानः

१२.६.१३ विशिष्टफलहेतुताकथनं

सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै

१२.७.१ आद्यस्तोत्रीयप्रदर्शनं

ऽऽप्र त आश्विनीः पवमानधेनवऽऽ इति चतुर्थस्याह्नः प्रतिपद्भवति

१२.७.२ तस्य सङ्गतिकथनं

आप्ते त्रिरात्रे रूपेण गायत्र्यो द्वितीयं प्रयन्ति प्रति वै गायत्र्या रूपम्

१२.७.३ किमनेन फलतीत्याह

जगती प्रतिपद्भवति जागतं एतदहर्यत्तृतीयं जगत्या एव तज्जगतीं अभिसंक्रामन्ति

१२.७.४ व्यतिरेकेन तस्य दृढीकरणं

यदतोऽन्या प्रतिपत्स्यात्प्रतिकूलं वानुकूलं वा स्यात्

१२.७.५ द्वितीयस्तोत्रीयप्रदर्शनं

पवमानो अजीजनदित्यनुरूपो भवति

१२.७.६ तस्य चतुर्थेऽहनि सङ्गतिकथनं

जनद्वद्वा एतदहर्यच्चतुर्थं अन्नाद्यं जनयति विराजं जनयत्येकविंशं स्तोमं जनयति

१२.७.७ अनुरूपसंज्ञानिर्व्वचनं

पूर्वं उ चैव तद्रूपं अपरेण रूपेणानुवदति यत्पूर्व्वं रूपमपरेण रूपेणानुवदति तदनुरूपस्यानुरूपत्वम् अनुरूप एनं पुत्रो जायते य एवं वेद

१२.७.८ अन्तिमौ संखुयुज्य स्तुतिः

स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानां अवरुध्यै

१२.७.९ षड्ऋचद्वयविधानं

षडृचौ भवत ऋतूनां धृत्यै

१२.७.१० अन्त्य तृच विधानं

तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति

१२.८.१ प्रथमाज्यस्तोत्रीयविधानं

ऽऽजनस्य गोपा अजनिष्ट जागृविःऽऽ इत्याग्नेयं आज्यं भवति

१२.८.२ विशिष्टफलहेतुताकथनं

जनद्वद्वा एतदहर्यच्चतुर्थं अन्नाद्यं जनयति विराजं जनयत्येकविंशं स्तोमं जनयति

१२.८.३ द्वितीयाज्यस्तोत्रकथनं

ऽऽअयं वां मित्रावरूणा-ऽऽ इति बार्हतं मैत्रावरूणम्

१२.८.४ तस्य सङ्गतिकथनं

बृहदेतत्परोक्षं यद्वैराजं बार्हतं एव तद्रूपं निर्द्योतयति

१२.८.५ तृतीयाज्यस्तोत्रकथनं

ऽऽइन्द्रो दधीचो अस्थभिर्ऽऽ इति दाधीचस्तृचो भवति

१२.८.६ साध्यफलकथनं

दध्यङ्वा आङ्गिरसो देवानां पुरोधानीय आसीदन्नं वै ब्रह्मणः पुरोधा अन्नाद्यस्यावरुध्यै

१२.८.७ चतुर्थाज्यस्तोत्रप्रदर्शनं

ऽऽइयं वामस्य मन्मनऽऽ इत्यैन्द्राग्नम्

१२.८.८ ।ऽ अन्नाद्यफलत्वेन स्तुतिः

ऽऽइन्द्राग्नी पूर्व्यस्तुतिरभ्राद्वृष्टिरिवाजनि-ऽऽ इत्यानुष्टुभी वै वृष्टिरानुष्टुभं एतदहर्यच्चतुर्थं समीच्यौ विराजौ दधात्यन्नाद्याय स्तोमः

१२.९.१ माध्यन्दिनपवमानस्य प्रथमतृचः

ऽऽपयस्व दक्षसाधनऽऽ इति गायत्री भवति सिध्यै

१२.९.२ तस्य सङ्गतिकथनं

यत्पवस्वेति तद्बृहतो रूपं बार्हतं ह्येतदहः

१२.९.३ अन्यतृचविधानं

ऽऽतवाहं सोम रारण सख्य इन्दो दिवे दिवे । पुरूणि बभ्रो निचरन्ति मां अव परिधींरतितां इहि-ऽऽ इति

१२.९.४ प्रयोजनान्तरकथनं

अति ह्यायञ्छकुना इव पप्तिं एत्यति ह्यपतत्

१२.९.५ तृचान्तरविधानं

पुनानो अक्रमीदभीति

१२.९.६ गायत्रतृचसङ्गतिकथनं

गायत्र्यः सत्यस्त्रिष्टुभो रूपेण तस्मात्त्रिष्टुभां लोके क्रियन्ते

१२.९.७ इतिकर्त्तव्यताबोधकब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१२.९.८ सामान्तरविधानं

चतुर्णिधनं आथर्वणं भवति चतूरात्रस्य धृत्यै

१२.९.९ चतुर्थेऽहनि सङ्गतिमाह

चतुष्पदानुष्टुभानुष्टुभं एतदहर्यच्चतुर्थम्

१२.९.१० ऋषिद्वारा प्रशंसनं

भेषजं वाथर्वणानि भेषजं एव तत्करोति

१२.९.११ सामान्तरविधानं

निधनकामं भवति

१२.९.१२ सर्व्वकामावाप्तिहेतुत्वेन स्तुतिः

एकं वा अन्येन निरुक्तेन निधनेन कामं सनोत्यथैतन्निधनकामं सर्वेषां कामानां अवरुध्यै

१२.९.१३ गातव्यसामप्रदर्शनं

आष्टादंष्ट्रं भवति

१२.९.१४ ब्राह्मणातिदेशः

यदेवाष्टादंष्ट्रस्य ब्राह्मणम्

१२.९.१५ सामान्तरविधानं

आभीशवं भवत्यह्नो धृत्यै

१२.९.१६ लोकप्रदर्शनेनोपपादनं

यद्वा अधृतं अभीशुना तद्दाधार

१२.९.१७ तत्सङ्गतिप्रदर्शनं

अनुतुन्नं गायति तथा ह्येतस्याह्नो रूपम्

१२.९.१८ स्वपृष्ठाख्यसामविधानं

चतुर्णिधनं आङ्गिरसं भवति चतूरात्रस्य धृत्यै

१२.९.१९ अहःसङ्गतिकथनं

स्वः पृष्ठं तथा ह्येतस्याह्नो रूपम्

१२.९.२० गेयसामविधानं

सत्त्रासाहीयं भवति

१२.९.२१ सत्रासाहीयसंज्ञानिर्व्वचनं

यद्वा असुराणां असोढं आसीत्तद्देवाः सत्त्रासाहीयेनासहन्त सत्त्रैनानसक्ष्महीति तत्सत्त्रासाहीयस्य सत्त्रासाहीयत्वम्

१२.९.२२ भ्रातृव्याभिभवफलकथनं

सत्त्रा भ्रातृव्यं सहते सत्त्रासाहीयेन तुष्टुवानः

१२.९.२३ छन्दोद्वारेण आधारभूतानामृचां स्तुतिः

गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति

१२.९.२४ त्रिष्टुप् रुपत्वविवरणं

वृषण्वत्यो गायत्र्यो भवन्ति तदु त्रैष्टुभाद्रूपान्नयन्ति स्तोमः

१२.१०.१ पृष्ठस्याद्यस्तोत्रीयतृचप्रदर्शनं

ऽऽपिबा सोमं इन्द्र मन्दतु त्वा यन्ते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्यां सुयतो नार्वा-ऽऽ इत्ययतं इव वै चतुर्थं अहस्तस्यैव यत्यै

१२.१०.२ द्वितीयस्तोत्रीयतृचप्रदर्शनं

विश्वाः पृतना अभिभृतरन्नर इत्यतिजगती वर्षीययश्छन्द आक्रमतेऽनपभ्रंशाय

१२.१०.३ अनधःपाताय एतस्य विवरणं

अपभ्रंश इव वा एष यज्जयायसश्छन्दसः कनीयश्छन्द उपैति यदेषा चतुर्थेऽहन्यतिजगती क्रियतेऽनपभ्रंशाय

१२.१०.४ चतुर्थस्तोत्रीयतृचप्रदर्शनं

यो राजा चर्षणीनां इति

१२.१०.५ राजशब्दसूचितफलकथनं

राज्ये ह्येतर्हि वाचोऽगच्छन्राज्यं एवैतया यजमानं गमयन्ति

१२.१०.६ तस्य स्तुतिः

छन्दोभिर्वै देवा आदित्यं स्वर्गं लोकं अहरन्स नाध्रियत तं वैराजस्य निधनेनादृंहंस्तस्मात्पराङ्चार्वाङ्चादित्यस्तपति पराङ्चार्वाङ्चेकारः

१२.१०.७ विष्टम्भानुवादेन स्तुतिः

प्रस्तावं प्रस्तुत्य विष्टम्भान्विष्टभ्नोति मुखत एव तदन्नाद्यं धत्ते मुखं हि साम्नः प्रस्तावः

१२.१०.८ तस्य विवरणं

दशकृत्वो विष्टभ्नोति दशाक्षरा विराङ्वैराजं अन्नं अन्नाद्यस्यावरुध्यै

१२.१०.९ विष्टम्भकरणीयाभिप्रायः

त्रिंशत्कृत्वो विष्टभ्नोति भूयसोऽन्नाद्यस्यावरुध्यै

१२.१०.१० समुच्चयेन स्तुतिः

वैराजं साम भवति विराट्सु स्तुवन्ति वैराजा विष्टम्भाः समीचीर्विराजो दधात्यन्नाद्याय

१२.१०.११ गानविशेषप्रदर्शनेन स्तुतिः

अनुतुन्नं गायति रेतोधेयायानुतुन्नाद्धि रेतो धीयते

१२.१०.१२ अग्निमन्थनविधानं

दक्षिण ऊरावुद्गातुरग्निं मन्थन्ति दक्षिणतो हि रेतः सिच्यते

१२.१०.१३ तस्य कालविधानं

उपाकृतेऽहिङ्कृते मन्थन्ति जातं अभिहिङ्करोति

१२.१०.१४ ततः किमित्याह

तस्माज्जातं पुत्रं पशवोऽभिहिङ्कुर्वन्ति

१२.१०.१५ जातस्याग्नेः कस्मिन् प्रहरणमिति तदाह

तस्मै जातायामीमांसन्त गार्हपत्ये प्रहरामा३ आग्नीध्रा३ आहवनीया३ इति

१२.१०.१६ संशये कर्त्तव्यपक्षमाह

आहवनीये प्रहरन्त्येतदायतनो वै यजमानो यदा हवनीये स्वं एव तदायतनं ज्योतिष्मत्करोति

१२.१०.१७ वेदितुः फलकथनं

ज्योतिष्मान्ब्रह्मवर्चसी भवति य एवं वेद

१२.१०.१८ आज्यहोमविधानं

अभिजुहोति शान्त्यै आज्येनाभिजुहोति तेजो वा आज्यं तेज एव तदात्मन्धत्ते

१२.१०.१९ मन्त्रस्य विशिष्टफलहेतुताकथनं

ऽऽप्रेद्धो अग्ने दीदिहि पुरो नऽऽ इति विराजाभिजुहोत्यन्नं विराडन्नाद्यस्यावरुध्यै

१२.१०.२० गातव्यसामविधानं

त्रैशोकं ब्रह्मसाम भवति

१२.१०.२१ छन्दोद्वारेणास्य स्तुतिः

अतिजगतीषु स्तुवन्त्यह्न उत्क्रान्त्या उद्वा एतेनाह्ना क्रामन्ति

१२.१०.२२ पापक्षयहेतुत्वेन स्तुतिः

दिवेति निधनं उपयन्ति पाप्मनोऽपहत्या अपपाप्मानं हते त्रैशोकेन तुष्टुवानः

१२.१०.२३ चतुर्थपृष्ठस्तोत्रसामविधानं

भारद्वाजस्य पृश्न्यछावाकसाम भवति

१२.१०.२४ तस्य स्तुतिः

अन्नं वै देवाः पृश्नीति वदन्त्यन्नाद्यस्यावरुध्यै

१२.१०.२५ अहःसङ्गतिकथनं

इडाभिरैडं तथा ह्येतस्याह्नो रूपं स्तोमः

१२.११.१ आर्भवपवमानस्य प्रथमतृचः

ऽऽपरिप्रिया दिवः कविर्ऽऽ इति परिवत्यो भवन्त्यन्तो वै चतुर्थं अहस्तस्यैताः पर्याप्त्यै

१२.११.२ द्वितीयतृचस्थाने अह्ना सङ्गतिः

त्वं ह्यङ्ग दैव्येति त्वं इति बृहतो रूपं बार्हतं ह्येतदहः

१२.११.३ तृचान्तरविधानं

सोमः पुनान ऊर्मिणा व्यंवारं विधावति । अग्रे वाचः पवमानः कनिक्रददिति

१२.११.४ तस्य स्तुतिः

अग्रं ह्येतर्हि वाचोऽगच्छन्नग्रं एवैतया यजमानं गमयन्ति

१२.११.५ अन्यतृचविधानं

ऽऽपुरो जितीवो अन्धसा-ऽऽ इति विराजौ वैराजं ह्येतदहः

१२.११.६ तृचान्तरं विदधाति

ऽऽसोमः पवते जनिता मतीनाम्ऽऽ इति प्रातस्सवने षोडशिनं गृहीतं तं तृतीयसवने प्रजनयन्ति

१२.११.७ तस्य सङ्गतिकथनं

त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते

१२.११.८ ब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१२.११.९ सामान्तरविधानं

और्णायवं भवति

१२.११.१० स्वर्गप्राप्तिसाधनताप्रतिपादनं

अङ्गिरसो वै सत्त्रं आसत तेषां आप्तः स्पृतः स्वर्गो लोक आसीत्पन्थानं तु देवयानं न प्राजानंस्तेषां कल्याण आङ्गिरसो ध्यायं उदव्रजत्स ऊर्णायुं गन्धर्वं अप्सरसां मध्ये प्रेङ्खयमाणं उपैत्स इयां इति यां यां अभ्यदिशत्सैनं अकामयत तं अभ्यवदत्काल्याणा३ इत्यासो वै वः स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं न प्रजानीथेदं साम स्वर्ग्यं लोकं एष्यथ मा तु वोचोहं अदर्शं इति

१२.११.११ गन्धर्व्वेणोक्तः किं कृतवान् तदाह

स ऐत्कल्याणः सोऽब्रवीदाप्तो वै नः स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं प्रजानीम इदं साम स्वर्ग्यं तेन स्तुत्वा स्वर्गं लोकं एष्याम इति कस्तेऽवोचदित्यहं एवादर्शं इति तेन स्तुत्वा स्वर्गं लोकं आयन्नहीयत कल्याणोऽनृतं हि सोऽवदत्स एषः श्वित्रः

१२.११.१२ स्वर्गसाधनत्वेनोपसंहारः

स्वर्ग्यं वा एतत्साम स्वर्गलोकः पुण्यलोको भवत्यौर्णायवेन तुष्टुवानः

१२.११.१३ गातव्यसामविधानं

बृहत्कं भवति

१२.११.१४ तस्य स्तुतिः

सामार्षेयेण प्रशस्तं त्वं हीत्यन्नाद्यस्यावरुध्यै हीति वा अन्नं प्रदीयते षोडशिनं उ चैवैतेनोद्यच्छति

१२.११.१५ गातव्यसामविधानं

आतीषादीयं भवति

१२.११.१६ तस्य स्तुतिः

आयुर्वा आतीषादीयं आयुषोऽषरुध्यै

१२.११.१७ निधनस्यावर्त्तनीयत्वं

आतमितोर्निधनं उपयन्त्यायुरेव सर्वं आप्नुवन्ति

१२.११.१८ गातव्यसामविधानं

नानदं भवति

१२.११.१९ अहःसन्ततिहेतुताकथनं

ज्यायोऽभ्यारम्भं अतिहाय पञ्चं अहः षष्ठस्याह्न आरम्भस्तेन षष्ठं अहरारभन्ते सन्तत्यै

१२.११.२० तस्य स्तुतिः

षोडशाक्षरेण प्रस्तौति षोडशिनं उ चैवैतेनोद्यच्छति

१२.११.२१ सामान्तरविधानं

आन्धीगवं भवति

१२.११.२२ अन्नाद्यहेतुत्वेन स्तुतिः

कयोरन्नाद्यं अवरुन्ध आन्धीगवेन तुष्टुवानः

१२.११.२३ गेयसामप्रदर्शनं

वात्सप्रं भवति

१२.११.२४ तस्य स्तुतिः

एतस्मिन्वै वैराजं प्रतिष्ठितं प्रतितिष्ठति वात्सप्रेण तुष्टुवानः

१२.११.२५ श्रद्धाहेतुत्वेन स्तुतिः

वत्सप्रीर्भालन्दनः श्रद्धां नाविन्दत स तपोऽतप्यत स एतद्वात्सप्रं अपश्यत्स श्रद्धां अविन्दत श्रद्धा विन्दामहा इति वै सत्त्रं आसते विन्दते श्रद्धाम्

१२.११.२६ सङ्गतिप्रदर्शनेन प्रशंसा

ईनिधनं तथा ह्येतस्याह्नो रूपं निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः

१२.१२.१ प्रथमस्तोत्रीयतृचप्रदर्शनं

ऽऽअग्निं वो वृधन्तम्ऽऽ इति

१२.१२.२ वृद्धिधातुसूचितार्थकथनं

अवर्धन्त ह्येतर्हि यजमानं एव तथा वर्धयन्ति

१२.१२.३ द्वितीयस्तोत्रीयतृचप्रदर्शनं

ऽऽवयं उ त्वां अपूर्व्य-ऽऽ इत्यपूर्वां ह्येतर्हि प्रजापतेस्तनूं अगच्छन्नपूर्वं एवैतया यजमानं गमयन्ति

१२.१२.४ तृतीयस्तोत्रीयतृचप्रदर्शनं

ऽऽइमं इन्द्र सुतं पिब ज्येष्ठं अमर्त्यं मदम्ऽऽ इति ज्यैष्ठं ह्येतर्हि वाचोऽगच्छन्ज्यैष्ठ्यं एवैतया यजमानं गमयन्ति

१२.१२.५ गेयसामप्रदर्शनं

सैन्धुक्षितं भवति

१२.१२.६ विशिष्टफलहेतुत्वेन स्तुतिः

सिन्धुक्षिद्वै राजन्यर्षिर्ज्योगपरुद्धश्चरन्स एतत्सैन्धुक्षितं अपश्यत्सोऽवागच्छत्प्रत्यतिष्ठदवगच्छति प्रतितिष्ठति सैन्धुक्षितेन तुष्टुवानः

१२.१२.७ गेयसामप्रदर्शनं

सौभरं भवति बृहतस्तेजः

१२.१२.८ तस्य स्तुतिः

पन्नं इव वै चतुर्थं अहस्तदेतेन बृहतस्तेजसोत्तभ्नोति सौभरेण

१२.१२.९ गेयं साम दर्शयति

वसिष्ठस्य प्रियं भवति

१२.१२.१० स्तुवतः फलकथनं

एतेन वै वसिष्ठ इन्द्रस्य प्रेमाणं अगच्छत्प्रेमाणं देवतानां गच्छति वासिष्ठेन तुष्टुवानः स्तोमः

१२.१३.१ बृहत्साम्ना द्विपदासु स्तोतव्यता

इन्द्रश्च बृहच्च समभवतां तं इन्द्रं बृहदेकया तन्वात्यरिच्यत तस्या अबिभेदनया माभिभविष्यतीति सोऽब्रवीत्षोडशी तेऽयं यज्ञक्रतुरस्त्विति स षोडश्यभवत्तदस्य जन्म

१२.१३.२ बृहत्साम षोडशितया कार्य्यं

अतिश्रिया भ्रातृव्यं रिच्यते यो गायत्रीषु द्विपदासु बृहता षोडशिना स्तुते

१२.१३.३ द्विपदानां स्वरूपकथनं

ऽऽउप नो हरिभिः स्तुतम्ऽऽ इत्येता वै गायत्र्यो द्विपदा एतासु स्तोतव्यम्

१२.१३.४ सामान्तरस्योत्पत्तिकथनं

इन्द्रः प्रजापतिं उपाधावद्वृत्रं हनानीति तस्मा एतां अनुष्टुभं अपहरसं प्रायच्छत्तया नास्तृणुत यदस्तृता व्यनदत्तन्नानदस्य नानदत्वम्

१२.१३.५ आधारभूतसामकथनं

तं पुनरुपाधावत्तस्मै सप्तानां होत्राणां हरो निर्माय प्रायच्छत्तं अस्तृणुत

१२.१३.६ वेदितुः फलकथनं

स्तृणुते तं यं तुस्तूर्षते य एवं वेद

१२.१३.७ ततः किमित्याह

तस्माद्धरिवतीषु स्तुवन्ति हरिवतीः शंसन्ति हरिवतीषु ग्रहो गृह्यते हरो ह्यस्मै निर्माय प्रायच्छत्

१२.१३.८ षोडशिस्तोत्रप्रदर्शनं

एकविंशायतनो वा एष यत्षोडशी सप्त हि प्रातस्सवने होत्रा वषट्कुर्वन्ति सप्त माध्यन्दिने सवने सप्त तृतीयसवने

१२.१३.९ स्वाभिमतपक्षान्तरप्रदर्शनं

गौरीवितं भवति

१२.१३.१० उत्पत्तिप्रदर्शनेन स्तुतिः

गौरीवितिर्वा एतच्छाक्त्यो ब्रह्मणोऽतिरिक्तं अपश्यत्तद्गौरीवितं अभवदतिरिक्तं एतदतिरिक्तेन स्तुवन्ति यद्गौरीवितेन षोडशिनं श्वस्तनवान्भवत्यपि प्रजाया उपक्ळ्प्तः

१२.१३.११ देशभेदेन साम्नोव्यवस्था

विशालं लिब्जया श्रूत्याभ्यधादिति होवाचोपोदितिर्गोपालेयोऽनुष्टुभि नानदं अकर्गौरीवितेन षोडशिनं अस्तोष्टाञ्जसा श्रियं उपागान्न श्रिया अवपद्यत इति

१२.१३.१२ कोऽसावभिदध्यादिति तत्राह

एष वै विशालं लिब्जया भूत्याभिदधाति योऽनुष्टुभि नानदं कृत्वा गौरीवितेन षोडशिना स्तुतेऽञ्जसा श्रियं उपैति न श्रिया अवपद्यते

१२.१३.१३ कामनाभेदेनैकं पक्षमाह

शक्वरीषु षोडशिना स्तुवीत यः कामयेत वज्री स्यां इति

१२.१३.१४ तस्योपपादनं

वज्रो वै षोडशी वज्रः शक्वर्यो वज्रेणैवास्मै वज्रं स्पृणोति वज्री भवति

१२.१३.१५ फलान्तराय स्तोत्रीयाविधानं

अनुष्टुप्सु षोडशिना स्तुवीत यः कामयेत न मा वागतिवदेत्

१२.१३.१६ तस्योपपादनं

वज्रो वै षोडशी वागनुष्टुब्वज्रेणैवास्मै वाचं स्पृणोति नैनं वागतिवदति

१२.१३.१७ अनुष्टुप्स्वरूपप्रदर्शनं

ऽऽअसावि सोम इन्द्र तऽऽ इत्येतासु स्तोतव्यम्

१२.१३.१८ अन्नाद्यकामस्य षोडशिस्तोत्रीया

विराट्स्वन्नाद्यकामः षोडशिना स्तुवीत वज्रो वै षोडशी वैराजं अन्नं वज्रेणैवास्मा अन्नं स्पृणोत्यन्नादो भवति

१२.१३.१९ विराट्स्वरूपकथनं

ऽऽप्र वो महे वृधे भरध्वम्ऽऽ इत्येतासु स्तोतव्यम्

१२.१३.२० अक्षरविभागेन स्तुतिः

त्रयस्त्रिंशदक्षरा वा एता विराजो यदेकविंशतिः प्रतिष्ठा सा यद्द्वादश प्रजातिः सा

१२.१३.२१ तद्वेदनफलकथनं

प्रतिष्ठाय प्रजायते नो चान्तस्थायां जीर्यते य एवं वेद

१२.१३.२२ उपसर्गविधानं

अथ वा एता एकपदास्त्र्यक्षरा विष्णोश्छन्दो भुरिजः शक्वर्यः

१२.१३.२३ शीघ्रफलत्वकथनं

एताभिर्वा इन्द्रो वृत्रं अहन्क्षिप्रं वा एताभिः पाप्मानं हन्ति क्षिप्रं वसीयान्भवति

१२.१३.२४ संयोगेन स्तुतिः

चतुस्त्रिंशदक्षराः संस्तुतो भवति त्रयस्त्रिंशद्देवत्ताः प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतिं एवोपयन्त्यरिष्ट्यै

१२.१३.२५ हिरण्यधारणविधानं

हिरण्यं सम्प्रदायं षोडशिना स्तुवते ज्योतिष्मानस्य षोडशी भवति

१२.१३.२६ अश्वस्थापनविधानं

अश्वः कृष्ण उपतिष्ठति साम्येक्षयाय भ्रातृव्यलोकं एव स विधमंस्तिष्ठति

१२.१३.२७ अनुष्टुप्स्तोत्रविधानं

एकाक्षरं वै देवानां अवमं छन्द आसीत्सप्ताक्षरं परमं नवाक्षरं असुराणां अवमं छन्द आसीत्पञ्चदशाक्षरं परमं देवाश्च वा असुराश्चास्पर्धन्त तान्प्रजापतिरानुष्टुभो भूत्वान्तरातिष्ठत्तं देवासुरा व्यह्वयन्त स देवानुपावर्तत ततो देवा अभवन्परासुराः

१२.१३.२८ तद्वेदितुः प्रशंसा

भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद

१२.१३.२९ आसुरच्छन्दोऽपहरणं

ते देवा असुराणां एकाक्षरेणैव पञ्चदशाक्षरं अवृञ्जत द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरं अष्टाभिरेवाष्टाववृञ्जत
१२.१३.३० एतद्वेदनफलकथनं
एवं एव भ्रातृव्याद्भूतिं वृङ्क्ते य एवं वेद
१२.१३.३१ प्रकारान्तरेण वेदितुः फलं
अपरुद्धयज्ञ इव वा एष यत्षोडशी कनीयस्विन इव वै तर्हि देवा आसन्भूयस्विनोऽसुराः कनीयस्विन भूयस्विनं भ्रातृव्यं वृङ्क्ते य एवं वेद
१२.१३.३२ मन्त्रविशिष्टमवेक्षणविधानं
ऽऽयस्मादन्यो न परोऽस्ति जातो य आबभूव भुवनानि विश्वा । प्रजापतिः प्रजया सम्विदानस्त्रीणि ज्योतीं षि सचते स षोडशी-ऽऽ इत्युद्गाता ग्रहं अवेक्षते
१२.१३.३३ तद्वेदनप्रशंसा
ज्योतिष्मानस्य षोडशी भवति य एवं वेद
१२.१३.३४ स्तोमक्लृप्तिविधानेन स्तुतिः
एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति