स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/विषयानुक्रमणिका

विकिस्रोतः तः

अथ वैप्णवखण्डे द्वितीयं पुरुषोत्तम ( जगन्नाथ) क्षेत्रमाहात्म्यम् ।। ( २-२) ।।

१ जैमिनिऋषिसंवादप्रसंगेन सर्वक्षेत्रतोऽपि पुरुषोत्तमक्षेत्रस्य मुख्यत्ववर्णनम्, सृष्टि- भारनिपीडितेन ब्रह्मणा विष्णुस्तवकरणम्. तेन विष्णोराविर्भवनम्, दक्षिणसाग-
रस्योत्तरदिक्स्थसिंधुतीरे नीलपर्वते मया वासो विधीयते तत्र गत्वा यो मां चक्रादिचिह्नितं पश्येत्स मुक्तपापो भवेदिति तत्पुण्यस्थानमाहात्म्यवर्णनम्, भग- वताऽन्तर्धानवर्णनम् -.. -.... -. - - -. - - -. ५६ १

२ तत्र पुरुषोत्तमक्षेत्रे ब्रह्मण आगमनम्, तावत्कश्चिद्वायसस्त्स्मिन्कुण्डे स्नात्वा भग
वद्दर्शनेन मुक्तोऽभवदिति दृष्ट्वा ब्रह्मणा विस्मयः,. अथ क्षेत्र प्रभाव इति ज्ञात्वा साश्चर्यं भगवन्तं नीलाद्रौ दृष्ट्वा ब्रह्मदेवकृता भगवतः स्तुतिः, यमस्य तत्रागमनम्, यमकृता भगवत्स्तुतिः, भगवदाज्ञया यमं प्रति लक्ष्म्या उक्तिः, क्षेत्रमाहात्म्यश्रवणे लक्ष्मीं प्रति यमप्रार्थना -.... - - -. -. - ५६ २

३ यमलक्ष्मीसंवादप्रसंगेन प्रलये मार्कण्डेयस्य नावि समारोहणं जले सर्वत्र भ्रमणञ्च,
एतत्क्षेत्रनिकटे वटवृक्षदर्शनम्, बालवचनं श्रुत्वा समीपागमनञ्च, तत्र भगवद्दर्शनम् मार्कण्डेयकृता भगवत्स्तुतिः, ततो मार्कण्डेयस्य प्रसन्नस्य भगवतो मुखे प्रवेशः, सहस्रब्रह्माण्डव्याप्तं तद्भगवत उदरं दृष्ट्वा तदंतं चागत्वा मार्कण्डेयस्य बहिरागमनम, तत्रैव चावस्थानम्, इति लक्ष्म्युक्तवृत्तांतं श्रुत्वा यमेन यमेश्वरेतिनाम्ना लिङ्गस्थापनम....... - - - - - - -. -. ५७

४ लक्ष्मीयमसंवादप्रसंगेन प्रतितीर्थकिञ्चित्कथादर्शनम्, तत्र च कपालमोचनतीर्थवर्ण-
नम सिन्धुराजस्य सलिलाद्वटस्यामूलान्तस्थितानामाब्रह्मस्थावरान्तानां सर्वेषां
मुक्तिर्भवतीति तत्स्थानमाहात्म्यकथनम्, ततः कामाख्यनृसिंहतीर्थमाहात्म्यवर्णनम्, मङ्गलाद्यष्टदेवतानामष्टसु दिक्षु संस्थापनम्, कपालमोचनयमेश्वरमार्कण्डेय-
बिल्वेशवटेशनीलकण्ठेशानक्षेत्रपालाद्यष्टलिङ्गस्थापनम् इन्द्रद्युम्नस्य कथानकम्,
तदनन्तरं यमब्रह्मणोः स्वस्थानं प्रति गमनम भगवतो दारुमयवपुर्धारणपूर्वक-
मिन्द्रद्युम्नाय वरप्रदानम्, दारुवपुष्मतो हरेर्गुणानुवादश्रवणसंजातकौतुकयोर्दुर्व-
तनकरिणोः पुण्डरीकांबरीषकनाम्नोर्ब्राह्मणक्षत्रिययोस्तत्रागमनम्, तत्रैव चेन्द्र-
द्युम्नेन दारुमयतीर्थस्थापनम्, तन्माहात्म्यवर्णनं च -.... - .. ५९ १

५ तत्तीर्थप्रभावेन पुण्डरीकांबरीषकयोर्वेश्यादिदुःसंगत्यागवर्णनम्, तयोर्दोषबाहुल्या-
द्भगवत्स्वरूपस्यादर्शनम्, भगवद्दर्शनं विनाऽन्नाग्रहणरूपनिग्रहं दृष्ट्वा भगवता
तयोर्निशीथे दर्शनदानम्, ताभ्यां भगवत्स्तुतिकरणम्, सततं भगवन्नामग्रहणेन
तयोर्मुक्तिवर्णनम... ..... - -. - - - - - ६१ १

६ एतादृशं महत्पुण्यप्रदं पुरुषोत्तमक्षेत्रं क्व वर्तत इति ऋषिप्रश्नं श्रुत्वा जैमिनिना नानाद्रुमसंकुलारामोपशोभितानेकसत्पुरुषसेवित पुण्यप्रददक्षिणोदधिगामिनीऋषिकुल्या-
नदीतीरस्थोत्कलदेशवर्तीदं क्षेत्रमिति प्रश्नोत्तरदानम्.. ... ६२

७ अवंतीनगरस्थेन्द्रद्युम्नस्य तीर्थयात्रासमुत्सुकस्याज्ञया पुरोहितभ्रातुर्विद्यापते रोहिणीकुण्डकल्पवृक्षादिपरिवेष्टितं पुरुषोत्तमक्षेत्रं गन्तुमुद्युक्तस्य पथि शबरदर्शनम्
विद्यापतिशबरभाषणं च.. ..- ६३ १

८ दिनत्रयोपोषितं विद्यापतिं दृष्ट्वा राजकार्यमकृत्वा भगवद्दर्शनं विना नैवान्नग्रहणमिति तन्निश्चयं ज्ञात्वा चिन्तयानस्य शबरस्य विद्यापतिना सह वनप्रयाणपूर्वकरोहिणीकुंडगमनम , तत्र भगवद्दर्शनम , तेन भगवत्स्तुतिकरणम्, पश्चाद्विद्यापतेः स्वदेशगमनोत्सुकत्ववर्णनम,. ६५

९ यावद्विद्यापतिः स्वदेशं गन्तुमुद्युक्तस्तावन्पूजासमये चण्डवातेन सर्वदेवानां नेत्रे
म्त्रर्णसिकताया विकर्षणम्, तेन तेषां देवानां भगवद्दर्शनराहित्येन भगवदवलोकनप्राप्त्यै भगवत्स्तुतिवर्णनम्, इत उत्तरं भगवद्दर्शनं केषामपि नैव भवेदिति भगवदुक्तिवर्णनम, ततो विद्यापतेरवन्त्यां दिनात्यये प्रतिनिवृत्यागमनम्, राजकृतोत्थानादिसत्कारेण विद्यापतिना राज्ञः कण्ठे निर्माल्यमालायाः समारोपादिवर्णनम्, विद्यापतीन्द्रद्युम्नाभ्यां भगवत्स्तुतिकरणम्, विद्यापतिकथितपुरुषोत्तमक्षेत्ररोहिणीकुण्डादितीर्थप्रभाववर्णनम्.. ६६ २

१० इन्द्रद्युम्नवचसा विद्यापतिना पुरुषोत्तमक्षेत्रस्थ भगवत्स्वरूपादि वटवृक्षाद्यनेकतीर्थमाहात्म्यपूर्वकं सायाह्ने चंडवातेन व्यथितदेवस्थितिस्वरूपवर्णनम्, तत्रांतरे तत्समीपे नारदागमनम्, इन्द्रद्युम्नकृतनारदसत्कारः, इन्द्रद्युम्नं प्रति- नारदकथित वैष्णवमाहात्म्यवर्णनम........ ६८ १

११ नीलाद्रिस्थभगवद्दर्शनसमुत्सुकोऽयमिति ज्ञात्वा त्वां तत्र नेष्यामीति नारदवचनमाकर्ण्य राज्ञः पुरोहितेन समं सर्वनागरिकाननुलक्षीकृत्य सर्वैः सह नीलमाधवदर्शनं ग्रहीतुं नारदेन समं भेरीमृदंगादिवाद्यैः सह चतुरङ्गसैन्यं गृहीत्वा बहिः प्रस्थानम्, पथि चोत्कलदेशसीमास्थां चर्चिकानाम्नीं देवी दृष्ट्वा तस्या वर्णनम्, ओढ्रराजकृतेन्द्रद्युम्नस्वागतवर्णनम् तयोर्मिथः संभाषणोत्तरं निशीथे ओढ्रराज्ञ इन्द्रद्युम्नाज्ञया निजनगरं प्रत्यागमनादिवृत्तान्तवर्णनम् ...... -.. ७० २

१२ ओढ्रराजगमनानन्तरं गतेन नारदेनेन्द्रद्युम्नाय मध्येमार्गं पर्वतोपरि स्थितस्य शिवमंदिरस्य वृत्तान्तकथनम्, तत्र गौरीप्रियं कुर्वता शंकरेण वाराणसीसमीपस्था-
विमुक्तिक्षेत्रस्थापनम्, काशीराजेन शिवतो वरलब्धिः, श्रीकृष्णकाशिराजयोर्युद्धं,
काशीनगरोपरि श्रीकृष्णप्रेषितसुदर्शनेन काशिराजस्य शिरश्छित्त्वा काशीनगरीदाहः, तद्रोषितेन शिवेन श्रीकृष्णोपरि पाशुपतास्त्रप्रहरणम्, पाशुपतं विजित्य काश्यां निर्दग्धायां भीतेन शंकरेण विष्णुस्तुतिकरणम्, स्तुतिप्रसन्नेन विष्णुना मन्नाम्नाख्यातं पुरुषोत्तमेतिक्षेत्रस्थापनं कुर्वित्यादेशकरणम, विष्ण्वाज्ञया
श्रीशंकरेण पुरुषोत्तमक्षेत्रस्थापनम्, इति तत्क्षेत्रस्थापनमाहात्म्यं श्रुत्वेंद्रद्युम्नेन
नीलमाधवपुरुषोत्तमस्तुतिकरणम्, तत एकाम्रनामकं त्र्यम्बकक्षेत्रमागत्य तं पूजयित्वा कोटिलिंगेशस्य स्तुतिकरणम्, तेन प्रसन्नेन कोटिलिंगेशेन इन्द्रद्युम्नस्य
वैष्णवत्ववर्णनम, शिवान्तर्धानम्, तत इन्द्रद्युम्नस्य नारदेन साकं कपातेशक्षेत्रे गमनम्, बिल्वेशादिदेवता नमस्कृत्य नारदेन सह रथमास्थाय भगवच्चिन्तनं
कुर्वत इन्द्रद्युम्नस्य भगवत्सान्निध्ये गमनम्. .. ... .. ७३

१३ शंकरधृतकपोतवेषेण भगवदाराधनां कृत्वा तत्प्रसादेन कपोतेशस्थलीस्थापनम, ततः पातालवासिभिर्दैत्यैः पीडितां भुवं दृष्ट्वा तदसुरनिबर्हणाय श्रीकृष्णेन बिल्वफलं
गृहीत्वा भगवदाराधनां कृत्वा त्र्यंबककृपया असुराञ्जित्वा बिल्वेशक्षेत्रस्थापनम्
तन्माहात्म्यवर्णनं च... ... .. ... ७६

१४. सपुरोहितस्येन्द्रद्युम्नस्य नारदेन सह नीलकण्ठक्षेत्रं प्रति गमनम्, वर्त्मनि वाम-
बाहुस्फुरणाद्यपशकुनान्दृष्ट्वा सुदुःखितेन राज्ञा नारदं प्रति किमिममिति प्रश्नः ततो नारदेन त्वया समं पुरुषोत्तमक्षेत्रे गत्वाऽन्तर्हितेऽपि भगवति दारवतनुं दृष्ट्वाऽश्वक्रतुं विधाय ते भगवद्दर्शनं निश्चयेन कारयिष्यामीति प्रतिज्ञापूर्वकमिन्द्रद्युम्नस्य सान्त्वनम् -....... .. ७६

१५ ततो नारदेन सह सविप्रस्येन्द्रद्युम्नस्य नीलपर्वतोपरि तिष्ठन्तं देवं द्रष्टुं नीलकण्ठसकाशतो निर्गत्य नीलभूधरशिखरोपरि नरसिंहदर्शनम्,भगवद्दर्शनं गृहीत्वा ततो नारदेन पुरुषोत्तमभगवत्स्थितिस्थलदर्शनम्, ततः सर्वैः सहेन्द्रद्युम्नेन भगवत्स्तुतिकरणम्, स्तुतिप्रसन्नेन भगवताऽशरीरिण्या वाण्येन्द्रद्युम्नाय वाजिमेधं कुर्वित्याज्ञाकरणम्, भगवदाज्ञयेन्द्रद्युम्नकृतवाजिमेधसमारंभवर्णनम्. .. ७७

१६ नारदानुज्ञया नरसिंहमूर्तिस्थापनार्थमग्रत इन्द्रद्युम्नस्य गमनम्, चन्दनद्रुमसमीपमागत्येन्द्रद्युम्नं प्रति त्वदर्थे नरसिंहालयं घटयिष्यामीति देवशिल्पिसुतस्य संभाषणम्, इन्द्राद्युम्नाज्ञया देवशिल्पिना देवालयनिर्माणम्, ततो नारदहस्तेन नरसिंहमूर्तिस्थापनम्, स्थापितनृसिंहमूर्तेरिन्द्रद्युम्नकृतस्तुतिवर्णनम्, नृसिंहमाहात्म्य वर्णनम् -.. ०... ...... ७८ २

१७ इन्द्रद्युम्नेन क्रतुकरणार्थं सेन्द्रान्देवान्स्तुत्वा आमन्त्र्य च देवसाहाय्येन वाजिमेधक्रतुयज्ञमहोत्सवकरणम्, तद्यज्ञप्रभावेणेन्द्रद्युम्नस्य दिनेदिने कान्त्याधिक्यं गतस्य स्वप्ने शेषशायिभगवद्दर्शनम्, नारदं प्रति स्वप्नवृत्तान्ते प्रोक्ते नारदेन तस्य
स्वप्नस्य सुफलकथनम्.... - -.. .. .... ८० १

१८ अथ बिल्वेश्वरासन्नप्रदेशे समुद्रस्य तटान्तेऽकस्मादागत्य प्रादुर्भूतं कंचिद्वृक्षं दृष्ट्वा विस्मयमापन्नैस्तद्रक्षकै राजानं प्रति वृक्षदर्शनवृत्तान्तनिवेदनम्, ततोऽवभृथस्नानेन यज्ञपरिसमाप्तिः, भगवद्रोमभिर्निर्मितोऽयमिति नारदेन तद्वृक्षमाहात्म्यवर्णनम्, . वृक्षस्थापनम्, ततः कस्मिंश्चित्समये पूजां कर्तुं स्थितेनेन्द्रद्युम्नेन कीदृशी विष्णुमूर्तिर्विधयेत्येवं नारदं प्रति प्रश्नः, को वा चेदृशीं मूर्तिं विधास्यतीति चिन्तयतस्तस्य राज्ञोऽग्रे भगवद्भृतवृद्धवर्द्धकिस्वरूपदर्शनम्, अहं तां मूर्तिं विधास्यामीति कथयित्वा तस्य तस्यां पटाच्छादितायां वेद्यामेवान्तर्धानम. ... ८२ २

१९ अथेन्द्रद्युम्नं प्रत्याकाशवाण्या सिद्धमूर्तिसंस्कारपूर्वक स्थापनादिपूजाप्रवृत्तिविषयकाज्ञाकरणम्, ततः पच्चदशदिनोत्तरं महावेदिवेष्टनमुन्मोच्य सिंहासनस्थितराम-कृष्णसुभद्रावासुदेवसुदर्शनानां दर्शनम्, तद्दर्शनसंजात महानन्दनिमग्नस्येन्द्रद्युम्नस्य नारदेन भाग्योदयाधिक्यवर्णनम् ... ... ... ८३

२० नारदबोधितेन राज्ञा विष्णुस्तुतिकरणम्, नारदेन च गद्यरूपेण भगवद्रूपधारिणः
स्थाणोः स्तुतिकरणम्, अन्यैर्ऋष्याद्दिभिरपि भगवद्वर्णनकरणम्, इन्द्रद्युम्नेना-
नेकमन्त्रसूक्तादिभिः सपरिवारस्य भगवतः पूजनम्, ततश्च राज्ञा ब्राह्मणेभ्यस्तत्र
कोट्यवधिगोप्रदानम्, ततश्चेन्द्रद्युम्नेन भगवद्भव्यप्रासादनिर्माणायारम्भकरणम्,
इन्द्रद्युम्नविनिर्मितप्रासादप्रतिष्ठापनार्थं विध्याज्ञया देवानां तत्रागमनम्.. ८४

२१ श्रुत्यादिविहितोपायैर्विना नैव भगवद्दर्शनमिति कस्यचिदृग्वेदपाठिनो ब्राह्मणस्य
मुखाद्दारुवपुर्माहात्म्यवर्णनं श्रुत्वा नारदेनेन्द्रद्युम्नराज्ञे वेदविहितभगवदुपासनोपदे-
शकरणपूर्वकं प्रतिष्ठाकाले ब्रह्मणो निमत्रणार्थं स्वस्य ब्रह्मलोकं प्रति गंतुमिच्छा-
प्रकटनम्, राज्ञोऽपि व्रह्माणं निमन्त्रयितुं ब्रह्मलोकं प्रति नारदाग्रे स्वेच्छाप्र-
कटनम्. .... ८५ १

२२ अथ नारदेन सममिन्द्रद्युम्नस्य पुष्परथविमानेन ब्रह्मलोकं प्रति गमनम्, मध्येमार्गं राज्यचिन्तया व्याकुलितचित्तं नृपं प्रति शोककारणविषये नारदेन प्रश्नकरणम्, राज्ञश्चिन्ताकारणं श्रुत्वा नारदेन नृपस्य समाधानकरणपूर्वकं चिन्तादूरीकरणम्, तत इन्द्रद्युम्रनारदयोः सर्वलोकान्भ्रान्त्वा ब्रह्मलोकं प्रति प्राप्तिपूर्वकं द्वारपालादिकृतसत्कारवर्णनम.. -.. ८७ २

२३ इन्द्रद्युम्नेन ब्रह्मदेवप्रणामकरणम्, किमर्थमागमनमिति ब्रह्मणा प्रश्ने कृते सतीन्द्रद्युम्नेन मया निर्मिते प्रासादे देवस्थापनं कर्तुं भवद्भिरागन्तव्यमेवेति ब्रह्माणं प्रति प्रार्थनाकरणम, अथेन्द्रद्युम्नाय भूतले बहुकालात्ययवृत्तान्तकथनपूर्वकं पद्मनिधिना देवैश्च सह भूतलं प्रति गमनायाज्ञाकरणम्, प्रतिष्ठाकर्मणि स्वस्या-
गमनायाश्वासनप्रदानम्, ततो ब्रह्माज्ञयेन्द्रद्युम्नमहीपतेः सर्वदेवैः पद्मनिधिना
ब्रह्मर्षिभिश्च सह भूतलं प्रत्यागमनम् .. ८८ १

२४ देवैर्विप्रैः पद्मनिधिना च सहेन्द्रद्युम्नेन तत्रागत्य भगवद्दर्शनं गृहीत्वा पुरुषसूक्तेन भगवत्स्तुतिकरणम्, ततः पद्मनिधिद्वारा दारुमूर्तिं स्थापयेति नभोवाण्या भगवद्वचनम्-. -. ... ९० १

२५ नारदलिखितसाहित्यसंभारसंग्रहपत्रं श्रुत्वेन्द्रद्युम्नाज्ञया पद्मनिधिना स्वर्णशालानिर्माणम्, नारदाज्ञया विश्वकर्मणा स्यन्दनत्रयनिर्माणम्, तस्य रथस्य नारदकरेण स्थापनम्, तत्प्रसंगेन रथस्थापनविधिप्रकारवर्णनम्, रथध्वजे नृसिंहमूर्तिं विधाय समन्त्रकां गरुडप्रार्थनां कृत्वा रथे भगवन्मूर्तिप्रतिष्ठापनवर्णनम्, पश्चाद्भगवत्प्रार्थनां कृत्वा केन रथावयवेन नष्टेन कस्य विनाश इत्यपघातादिदोषवर्णनम्, रथस्यासमंततो दिग्देवतास्थापनादिप्रकारवर्णनम्, भगवत्स्वरूपवर्णनम्, भगवता लोकानामाशीर्वादप्रदानम् ..... -... ९१ १

२६ प्रासादस्थापितस्य भगवत इन्द्रद्युम्नेन पूजनकरणम्, स्वराष्ट्रेऽन्यराज्ञ आगमनशंकया क्रुद्धस्य ससैन्यस्य गालनृपतेस्तत्रागमनम्, तस्य गालभूभृत इन्द्रद्युम्नसंपादितान्दुर्लभसंभारान्दृष्ट्वाऽऽश्चर्यचकितत्वम्, पश्चान्नम्रीभूतेन गालेनेन्द्रद्युम्नं प्रति स्वस्य युद्धार्थागमनादिसर्ववृत्तकथनम्, ततो गालेन्द्रद्युम्नयोर्मिथः संभाषणोत्तरमिन्द्रद्युम्नस्य स्वात्मपूर्ववंशपुरुषत्वं ज्ञात्वा गालभूपतिनेन्द्रद्युम्नस्य स्वराज्यसिंहासने स्थापनपूर्वकं तदाज्ञावर्तित्वस्वीकरणम् .. .. ... ९२ २

२७ अथ ब्रह्मेन्द्रादिभिरिन्द्रद्युम्नकृतभगवन्मन्दिरप्रतिष्ठार्थं ब्रह्मलोकाद्भूलोकमागत्येन्द्रद्युम्नभक्तिवैभववर्णनम्, ततो ब्रह्मागमनसंतुष्टेनेन्द्रद्युम्नेन ब्रह्मदेवप्रार्थनाकरणम्, ब्रह्मदेवेन रथप्रासादादिकानां दर्शनं गृहीत्वा भगवत्स्तोत्रकरणम्, ततः सुभद्रास्यन्दनं गत्वा ब्रह्मदेवकृतसुभद्रास्तुतिवर्णनम्, बलभद्रस्य स्तोत्रकरणम्, स्यन्दनत्रयपूजन-
फलश्रुतिकथनम्.... ९३

२८ ततोऽकस्मात्प्रकटितं भयंकरं नरकेसरिस्वरूपं दृष्ट्वेन्द्रद्युम्नादिकानां भयत्रस्ततावर्णनम्, नारदवचसा ब्रह्मणा नृसिंहप्रभावकथनम् नृसिंहस्य ब्रह्मणा स्तोत्रकरणम्, देवताप्रतिष्ठासमयोच्चारितमंत्रैस्तत्तद्देवतानां प्रत्यक्षदर्शनं स्वस्थानावस्थानं च, वेदादीनामपि प्रत्यक्षमूर्तिभिरागमनम, ब्रह्मदेवेनेन्द्रद्युम्नाय मन्त्रोपदेशकरणम् ततो लक्ष्मीनरसिंहयोः शान्तिकरणम्, दारुदेवतापूजनमाहात्म्यवर्णनम्... ९५ २

२९ इन्द्रद्युम्नेन बलभद्रस्य द्वादशाक्षरमंत्रैर्नारायणस्य पुरुषसूक्तेन देव्या देवीसूक्तेन
चार्चनम्, ततो ब्रह्मदेवेन दारुदेहस्येन्द्रद्युम्नभक्तपालनाय स्तोत्रकरणम्, दारुदेहेन भगवतेन्द्रद्युम्नाय वरप्रदानम्, दारुदेहेन स्वमुखतो राज्ञे स्थानमाहात्म्यकथनम्, मासतिथ्यादियोगपरत्वेन जपदानादिफलश्रुतिवर्णनम् .. ९६ २

३० ज्येष्ठमासे स्नानदानादिमाहात्म्यवर्णनम्, मार्कण्डेयावटपञ्चवारुणन्यग्रोधनारायण
सीरध्वजस्यन्दनत्रयस्थ दारुदेहविष्णुबलभद्रसुभद्रादिस्वर्गद्वार चतुःस्वस्तिककोणक-
सिंधुराजादि तीर्थक्षेत्रस्थानमाहात्म्यवर्णनपूर्वकं स्तोत्रपूजाद्यनेकविधिविधानफल-
कथनम्... ९८ १

३१ ततश्चेन्द्रद्युम्नसरःस्नानमाहात्म्यवर्णनपूर्वकं नृसिंहमंत्रोच्चारणेन बहुफलप्राप्तिकथनम्, मञ्चस्थितपुरुषोत्तमदर्शनमाहात्म्यम्, ज्येष्ठमासे पुरुषोत्तमस्नानमाहात्म्यम्, पुरुषोत्तमस्तोत्रपद्धतिवर्णनम्, पुरुषोत्तमदर्शनेन स्वेष्टसर्वफलप्राप्तिकथनम् १०१ १

३२ दक्षिणामूर्तिदर्शनमाहात्म्यफलवर्णनम्, ज्येष्ठपञ्चकव्रतवर्णनम्, महाज्यैष्ठीदिने जातस्य पुरुषोत्तमदर्शनस्य फलमाहात्म्यवर्णनम्, पञ्चदीपान्प्रज्वाल्य नृसिंहपूजनं
विधेयमित्यादिमाहात्म्यवर्णनम्, ज्येष्ठपौर्णमास्यां कृतस्योपोषणस्य कृष्णबलभ-
द्रसुभद्रापूजनस्य च फलकथनम्-.. ... ... १०३ १

३३ महादेवीमहोत्सबप्रधानदेक्तापूजनस्नानदानादिविधिमाहात्म्यवर्णनम्, सुरथं कृत्वा
यात्रार्थं भगवन्मूर्तिं स्थापयित्वा तस्य सीमोल्लंघनादिवर्णनम्, रथस्थविष्णुदर्शनम-
हाफलप्राप्तिवर्णनम्, महादेवीव्रते पुरुषोत्तमबलभद्रसुभद्रादर्शनफलवर्णनम्, महाज्यैष्ठ्यां दारुदेहदर्शनफलम्, सहस्रदीपप्रज्वलनमाहात्म्यम्-.. १०४ २

३४ अश्वमेधांगसरस्तीर्थमाहात्म्यवर्णनम्, बिन्दुतीर्थमाहात्म्यम्, महावेद्यां कृतस्य पितृकर्मणः फलवर्णनम्, इन्द्रद्युम्नसरोनृसिंहक्षेत्रवनजागरणतीर्थहृषीकेशादितीर्थस्नान-
दानादिमाहात्म्यवर्णनम्- ... .... .. १०६ २

३५ रथरक्षाकरविधिकथनम्, तत्रस्थपुरुषोत्तमबलभद्रसुभद्रादर्शनफलवर्णनम्, तत्स्तुति-
प्रकारकथनम् .. .. १०७ २

३६ शयनोत्सवव्रतविधिकथनम्, आषाढीमारभ्य कार्तिकीपर्यन्तं चातुर्मास्यपुण्यकाल-
वर्णनम्, नानाविधपापक्षालनार्थं चातुर्मास्ये तीर्थस्नानपुरुषोत्तमादिक्षेत्रदर्शनफलम्, चातुर्मास्ये ग्राह्याग्राह्यवस्तुविचारकथनम्, चातुर्मास्ये धार्यनियमानुकथनम्, एतच्चातुर्मास्योद्भवव्रतमाहात्म्यश्रवणफलम्.. .-- १०८ १

३७ कर्कसंक्रांत्यां दक्षिणायनारंभपुण्यकालनियमक्रमवर्णनम्, दक्षिणायने पुरुषोत्तम-
पूजनफलम्, पुरुषोत्तमस्य दशदिक्षु स्थितानां देवानां नामनिर्देशस्तद्दर्शनपूजन-
फलकथनं च, इन्द्रद्युम्नेन शतवर्षांते नृहरिदर्शनम्, श्वेतराजेनपुरुषोत्तमनृसिंहयोः
पूजनं स्तवनं च, भगवता राज्ञे वरप्रदानम् १०९ १

३८ श्वेतराज्ञे वरं दत्त्वा भगवतोऽन्तर्धानम् भगवदुच्छिष्टभक्षणफलकथनम्, भगव-
त्तीर्थप्राशननिर्माल्यधारणादिफलकथनम्, कलिकालनिर्णयः, कलौ भगवच्चिन्तनेन फलप्राप्तिवर्णनम्, भगवतो दयादाक्षिण्यादिस्वभाववर्णनम्, कस्यचिद्द्विजस्य
पुरुषोत्तमक्षेत्र आगमनम्, द्विजेन संशयवता भगवदुच्छिष्टमिति मत्वा भगवन्निवेदितमन्नं नैव भक्षितमतस्तस्य देहपीडासंप्राप्तिकथनम्, अन्यद्विजानां भगवदुच्छिष्टभक्षणेन देवतुल्यकान्तिप्राप्तिवृत्तान्तः, नैवेद्यं त्यक्तवतो द्विजस्येश्वरप्रार्थनां कृत्वा संजातया नृसिंहकृपया सौंदर्यप्राप्तिकथनम्, दमनकदैत्यविनाशसमये सुगंधिनिर्मितमालोत्पत्तिकथनम्, भगवद्भक्तपूजनपूर्वकदेवपूजनविधिवर्णनम्, इष्टैः सह नृसिंहप्रसादभोजनादिफलवर्णनम् -. ११० १

३९ दक्षिणामूर्तिदर्शनेन शयनोत्सवव्रतविधानेन च सर्वयात्राफलावाप्तिकथनम्, भग-
वच्छयनपरिवर्तनकालकथनम्, कौमुद्याख्योत्थापनमहोत्सवविधिकालकथनम्,
तस्मिन्काले भगवत्पूजासाहित्यवर्णनम्, पूजाफलकथनम्, अनयैव पूजया सार्ध-
त्रिकोटितीर्थाभिषेकफलप्राप्तिकथनम् -. ११२ २

४० मार्गशीर्षशुक्लषष्ठ्यां प्रावरणोत्सवकथनम्, प्रावरणोत्सव व्रतविधिविधान फलकथनम्- ११४ २

४१ पुष्यस्नानोत्सवव्रतदिनविधानकथनम्, पुष्यस्नानोत्सवव्रतपूजासाहित्यादिवर्णनम- ११४ २

४२ मकरसंक्रमणविधिपूर्वकमुदगयनकाले तीर्थस्नानभगवद्दर्शनादिफलकथनम्- -. ११५ १

४३ फाल्गुने मासि दोलारोहणविधिकथनम्. ११६

४४ फाल्गुनपौर्णमास्यां सांवत्सरव्रतविधानम्, विष्णुमूर्तिप्रतिष्ठावर्णनम्, ज्येष्ठपंचकव्रतवर्णनम् ११६ २

४५ वासन्तिकादमनभंजिकायात्राकथनम् ११७ २

४६ अक्षयमोक्षदयात्राकथनम्, तस्यां यात्रायां भगवत्स्तोत्रवर्णनम्- .... . ११७ २

४७ नीलाचलोपरि स्थितस्य दारुदेहस्य भगवतो दर्शनफलवर्णनम् -. ११८ २

४८ प्रासादस्थापनानन्तरमिन्द्रद्युम्नेन किं कृतमिति महर्षीणां प्रश्न इन्द्रद्युम्नकृतभगवत्स्वरूपवर्णनपूर्वकं प्रश्नोत्तरदानं पुरुषोत्तममाहात्म्योपसंहारश्च. ११९ १

४९ पुराणमाहात्म्यफलश्रवणम् ... . ११९ २

इति बैष्णवखण्डे द्वितीयं पुरुषोत्तम (जगन्नाथ) क्षेत्रमाहात्म्यम् ।। ( २-२) ।।