स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ३६
।। जैमिनिरुवाच ।। ।।
अतः परं प्रवक्ष्यामि शयनोत्सवमुत्तमम् ।।
आषाढीमवधिं कृत्वा हरेः स्वापस्तु कर्कटे ।। १ ।।
वार्षिकांश्चतुरो मासान्यावत्स्यात्कार्त्तिकी द्विजाः ।।
अयं पुण्यतमः कालो हरेराराधनं प्रति ।। २ ।।
काश्यां बहुयुगं वासान्नियमव्रतसंस्थितेः ।।
फलं यदुक्तं तद्विद्यात्क्षेत्रे श्रीपुरुषोत्तमे ।। ३ ।।
चातुर्मास्यदिनैकेन वसतः सन्निधौ हरेः ।।
वार्षिकाणां चतुर्णां तु यान्यहानि वसन्नयेत् ।। ४ ।।
पुण्यक्षेत्रे जगन्नाथसन्निधौ निर्मलांतरे ।।
प्रत्यक्षं वाजिमेधस्य सहस्रस्य लभेत्फलम् ।। ५ ।।
स्नात्वा सिंधुजले पुण्ये दृष्ट्वा श्रीपुरुषोत्तमम् ।।
चातुर्मास्यव्रते तिष्ठन्न शोचति कुतश्चन ।। ६ ।।
चातुर्मास्ये निवसति क्षेत्रे श्रीपुरुषोत्तमे ।।
साक्षाद्दृष्टिर्भगवतस्तद्द्वयं मुक्तिसाधनम् ।। ७ ।।
तस्मात्सर्वाणि संत्यज्य श्रौतस्मार्त्तानि मानवः ।।
प्रयत्नान्निवसेत्पुण्ये क्षेत्रे श्रीपुरुषोत्तमे ।। ८ ।।
भोगिभोगासने सुप्तश्चातुर्मास्येषु वै प्रभुः ।।
सर्व क्षेत्रेषु सान्निध्यं न करोति जगद्गुरुः ।। ९ ।।
अत्र साक्षान्निवसति यथा वैकुण्ठवेश्मनि ।।
द्वादशस्वपि मासेषु भगवानत्र मूर्तिमान् ।।
मुक्तिदश्चक्षुषा दृष्टश्चातुर्मास्ये विशेषतः ।। 2.2.36.१० ।।
अष्टमासनिवासेन दृष्ट्वा विष्णुं दिने दिने ।।
यदाप्नोति फलं तद्धि चातुर्मास्यदिनैकतः ।। ११ ।।
चातुर्मास्यनिवासेन क्षेत्रे श्रीपुरुषोत्तमे ।।
दिनं दिनं महापुण्यं सर्वक्षत्रनिवासजम् ।।
फलं ददाति भगवान्क्षेत्रे वर्षनिवासतः ।। १२ ।।
सर्वपापप्रसक्तोऽपि सर्वाचारच्युतोऽपि च ।।
सर्वधर्मबहिर्भूतो निवसेत्पुरुषोत्तमे ।। १३ ।।
चातुर्मास्यमथेकं यः कुर्याद्वै पापकृन्नरः ।।
विहाय सर्वपापानि बहिरंतश्च निर्मलः ।। १४ ।।
नरसिंहप्रसादेन वैकुण्ठभवनं व्रजेत् ।। १५ ।।
तस्मान्नरः सर्वभावैर्विष्णोः शयनभावितान् ।।
वार्षिकांश्चतुरो मासान्निवसेत्पुरुषोत्तमे ।। १६ ।।
कुर्यादन्यन्न वा कुर्याज्जन्मसाफल्यमृच्छति ।। १७ ।।
आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् ।।
मण्डपं रचयेत्तत्र शयनागारमुत्तमम् ।। १८ ।।
देवस्य पुरतः शय्यां रत्नपल्यंकिकोपरि ।।
स्वास्तीर्य सोपधानां तु मृदुचीनोत्तरच्छदाम् ।। १९ ।।
कर्पूरधूलिविक्षिप्तां साधुचंद्रातपां शुभाम् ।।
सर्वतो वेष्टितां छिद्ररहितां चदनोक्षिताम् ।। 2.2.36.२० ।।
साधुद्वारां समां स्निग्धां नानाचित्रोपशोभिताम्।।
एकं स्वापगृहं कृत्वा निशीथे प्रतिमात्रयम् ।। २१ ।।
सौवर्णं राजतं वापि रीतिजं दार्षदं तथा ।।
यथाश्रद्धं प्रकुर्वीत प्रशस्तं चोत्तरोत्तरम्।। २२ ।।
तत्त्रयाणां सुराणां वै पादमूले यथातथम् ।।
निधाय पूजूयेद्देवांस्तच्छेषं तेषु निक्षिपेत् ।। २३ ।।
पूजांते भावयेदैक्य तेषां कृष्णादिभिः सह ।।
एह्येहि भगवन्देव सर्वलोकैकजीवन ।। २४ ।।
स्वापार्थं चतुरो मासान्सर्वकल्याणवृद्धये ।।
इति संप्रार्थ्य देवेशांस्तदंगात्तत्स्रजां त्रयम् ।। २५ ।।
प्रत्यर्चासु विनिक्षिप्य मांगल्यस्तुतिगीतिभिः ।।
नयेच्छय्यागृहद्द्वारं वासयेद्धटिकात्रये ।।२६।।
पंचामृतैः स्नापयेत्तान्पृथक्पलशताधिकैः ।।
सुगन्धचंदनैर्लिप्तान्वस्त्रालंकरणादिभिः ।। २७ ।।
पूजयित्वा यथान्यायं प्रांजलिर्मंत्रमुच्चरेत् ।।
जगद्वन्द्य जगन्नाथ जगत्त्राणपरायण ।।२८ ।।
हिताय जगतामीश चातुर्मास्यान्घनागमान् ।।
सुप्त्वा प्रशमयारिष्टाञ्छक्रेण सह पूजितः ।। २९ ।।
एह्येहि शयनागारं सुखमत्र स्वप प्रभो ।।
इति संप्रार्थ्य देवेशं स्वापयेत्पुरुषोत्तमम् ।। 2.2.36.३० ।।
सुदृढं बन्धयेद्द्वारं विष्णोः शयनवेश्मनः ।।
स्वापयित्वा जगन्नाथं लभते सुखमुत्तमम् ।। ।। ३१ ।।
वार्षिकांश्चतुरो मासान्प्रसुप्ते वै जनार्दने ।।
व्रतैरनेकैर्नियमैर्मासान्वै चतुरः क्षिपेत् ।। ३२ ।।
कल्पस्थायी विष्णुलोके नरो भक्तो भवेद्ध्रुवम्।।
नियमव्रतानि गदतः शृणुध्वं मुनयो मम ।। ३३ ।।
मंचखट्वादिशयनं वर्जयेद्भक्तिमान्नरः ।।
अनृतौ न व्रजेद्भार्यां मासं मधु परौदनम् ।। ।। ३४ ।।
पटोलं मूलकं चैव वार्ताकं च न भक्षयेत् ।।
अभक्ष्यं वर्जयेद्दूरान्मसूरं सितसर्षपम् ।। ३५ ।।
राजमाषान्कुलत्थांश्च आशुधान्यं च संत्यजेत्।।
शाकं दधि पयो माषाच्छ्रावणादौ क्रमादिमान् ।। ३६ ।।
राजगोपयतींस्त्यक्त्वा नारोहेच्चर्मपादुके ।।
वार्षिकांश्चतुरो मासानव्रतेन नयेद्यदि ।।
तस्य पापस्य शांत्यर्थं कार्तिके वा व्रती भवेत् ।। ३७ ।।
नमः कृष्णाय हरये केशवाय नमोनमः ।।
नमोऽस्तु नारसिंहाय विष्णवे पापजिष्णवे ।। ३८ ।।
सायं प्रातर्दिवामध्ये कर्मांतेषु च योजयेत् ।। ३९ ।।
तस्य पापानि घोराणि चितानि बहुजन्मसु ।।
निर्दहत्येव सर्वाणि तूलराशिमिवानलः ।। 2.2.36.४० ।।
एकाहारो यताहारो विष्णुनिर्माल्यभोजनः ।।
आषाढीमवधिं कृत्वा कार्तिक्यवधि यो भवेत् ।।
नक्तभोजी भवेद्वापि स्वर्गस्तस्याल्पकं फलम्।। ४१ ।।
तैलाभ्यंगं दिवास्वापं मृषावादं च वर्जयेत् ।।
आषाढशुक्लैकादश्यां संक्रांतौ कर्कटस्य वा ।। ४२ ।।
आषाढ्यां वा नरो भक्त्या गृह्णीयान्नियमं व्रती ।।
सर्वपापहरं देवं प्रपूज्य मधुसूदनम् ।। ४३ ।।
तदग्रे प्रतिसंकल्प्य व्रतार्चनजपादिकम् ।।
प्रार्थयेत्परमानन्दं कृतांजलिपुटो व्रती ।। ४४ ।।
चातुर्मास्यव्रतं देव गृहीतं त्वत्प्रसादतः ।।
तव प्रसादान्निर्विघ्नं सिद्धिमायातु केशव ।। ४५ ।।
व्रतेस्मिन्यद्यसंपूर्णे परलोकगतिर्भवेत्।।
तन्मे भवतुसंपूर्णं त्वत्प्रसादादधोक्षज ।। ४६ ।।
इति संप्रार्थ्य देवेशं पूर्वोक्तनियमे स्थितः ।।
यापयेच्चतुरो मासान्विष्ण्वर्पित मतिर्व्रती।।४७।।
पारणं प्रतिमासांते प्रीत्यै कृष्णस्य कारयेत् ।।४८।।
मिष्टान्नैर्भोजयेद्विप्रान्पूजयित्वा जगत्पतिम् ।।
असमर्थस्तु कार्तिक्यां पारयेद्व्रतमुत्तमम्।।४९।।
तस्यां पूज्य जगन्नाथं वह्निस्थं तर्पयेत्ततः ।।
द्विजाग्र्यान्पायसैर्मिष्टैर्विष्णुभक्त्या प्रपूजयेत् ।।2.2.36.५०।।
यथाशक्त्या प्रदद्याद्वै कनकं वस्त्रमेव च ।।
अशक्तः कार्तिके मासि व्रतं कुर्यात्पुरोदितम् ।।५१।।
व्रतं च विविधं विष्णोः कृच्छ्रचांद्रायणं तथा ।।५२।।
पयः पीत्वा नयेद्यस्तु शाकाहारेण वा पुनः ।।
भुक्त्वात्र विपुलान्भोगान्परं निर्वाणमृच्छति।।५३।।
तत्रापि चेदशक्तः स्याद्भीष्मपंचकमुत्तमम्।।
प्रीतये देवदेवस्य वन्यवृत्तिर्भवेद्व्रती ।।५४।।
एतद्व्रतं समाख्यातं भगवत्प्रीतिकारकम् ।।
सर्वपापप्रशमनं विष्णुलोकगतिप्रदम् ।।
धन्यं यशस्यमायुष्यं सर्वकामप्रसाधनम् ।।५५।।
मुनयः प्रोक्तमेतद्वो रहस्यं शृणुतापरम् ।।
एतद्व्रतानि चान्यानि व्रतानि सबहूनि च ।। ५६ ।।
भगवद्भक्तिहीनानां जानीध्वं विफलानि वै ।।
फलं महाक्रतूनां यत्तीर्थानां फलमुत्तमम् ।। ५७ ।।
दानानां तपसां चैव सात्त्विकानां च यत्फलम् ।।
एकया विष्णुभक्त्या तत्समग्रं फलमश्नुते ।। ५८ ।।
ये पश्यंति महात्मानः शयनोप्सवमुत्तमम्।।
मातुर्गर्भे न स्वपंति कारयंति च ये महम् ।। ५९ ।।
उत्सवांते व्रतं चेदं प्रतिज्ञाय तदग्रतः ।।
पर्याप्तं पारयित्वा तु ब्रह्मलोके महीयते ।। 2.2.36.६० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये षट्त्रिंशोऽध्यायः ।। ३६ ।।