स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ४८
।। मुनय ऊचुः ।। ।।
प्रासादस्य प्रतिष्ठांत इन्द्रद्युम्नाय यद्वरान् ।।
आज्ञापयामास हरिर्यात्रास्ता द्वादशापि च ।। १ ।।
त्वत्सकाशाच्छुतं सर्वं ततः स पृथिवीपतिः ।।
किं चकार महाबुद्धिर्विष्णुभक्तोऽप्यवस्थितः ।। ।। २ ।।
।। जैमिनिरुवाच ।। ।।
वराँल्लब्ध्वा जगन्नाथात्साक्षाद्ब्रह्मस्वरूपिणः ।।
कृतकृत्यं स मेने वा आत्मानं नरपुंगवः ।। ३ ।।
यथाज्ञं कारयित्वा वै यात्रास्ताः पुण्यमोक्षदाः ।।
बहूपचारैर्बहुधा समभ्यर्च्य जगद्गुरुम् ।। ४ ।।
गालराजं समादिश्य देवस्याज्ञां यथाविधि ।।
इदं प्रोवाच मधुरं धर्मन्यायसमायुतम् ।। ५ ।।
।। इन्द्रद्युम्न उवाच ।। ।।
राजन्बहुश्रुतोऽसि त्वं धर्मनिष्ठामुपागतः ।।
भगवत्यपि भक्तिस्ते कर्मणा मनसा गिरा ।। ।। ६ ।।
न ह्येकस्योपदशाय भगवाननुशास्ति वै ।।
चराचरगुरुर्ह्येष विश्वं तच्छिष्यतां गतम् ।। ७ ।।
ममानुग्रहलक्ष्येण अवतीर्णो जगत्पतिः ।।
उद्धृत्यै दीनमनसामत्रापि स्थास्यते चिरात् ।। ८ ।।
भक्त्या च श्रद्धया युक्त एतदाज्ञां प्रवर्त्तय ।।
प्रतिमाव्यवहारेण नैनं जानीहि भूमिप ।। ९ ।।
प्रत्यक्षं ते यथा जातं त्रैलोक्यं भूमिमागतम् ।।
प्रासादांतः प्रवेशे हि यस्यास्य जगदीशितुः ।। 2.2.48.१० ।।
पितामहाद्यास्त्रिदशाः सर्वे युगपदागताः ।।
विश्वमूर्त्या वयं सर्वे जाता वै नष्टचेतनाः ।। ११ ।।
चराचरमयो ह्येष साक्षाद्दारुस्वरूपधृक् ।।
कल्पवृक्षमिमं विद्धि भूगतं सर्वकामदम् ।। १२ ।।
उपास्यैनं हि लभते यो यथा कामनाफलम् ।।
यतंतो बहुधा यं हि यतयो न विदन्ति वै ।।
तमःपारे प्रतिष्ठतं किंस्विज्ज्योतिः स्वरूपिणम् ।। १३ ।।
यतीनां धर्मनिष्ठानां शुद्धानामूर्ध्वरेतसाम् ।।
अनन्यभक्तियुक्तानामेकः पंथास्तु योगिनाम् ।। १४ ।।
ग्रीष्मे शीत गभीरे वै निमज्ज्य सलिलाशये ।।
परां निर्वृतिमाप्नोति तथास्मिन्करुणांबुधौ ।। १५ ।।
त्रितापदुःखं त्यजति संप्राप्ते पुरुषोत्तमे ।। १६ ।।
न माता न पिता मित्रं न पत्नी न सुतस्तथा ।।
शरणागतदीनानां यथायमुपकारकः ।। १७ ।।
तदेनं परिसेवस्व भुक्तिमुक्तिफलप्रदम् ।।
पौरैः प्रजाभिर्यात्रास्ताः समृद्धं परिवर्त्तय ।। १८ ।।
साधारणो धर्मपंथा नृपाणां नृपसत्तम ।।
प्रवर्तितश्च पूर्वेण पाल्यतेऽनंतरेण सः ।। १९ ।।
नृसिंहं भज राजेंद्र उपचारैर्महर्द्धिभिः ।।
पूजयस्व त्रिसंध्यं तं परं निर्वाणमाप्नुहि ।। 2.2.48.२० ।।
स्वकृतादुत्तमं प्राहुः परकृत्योपरक्षणम्।।
पालयेत्परदत्तं यः स्वदत्तादुत्तमं हि तत् ।। २१ ।।
।। जैमिनिरुवाच ।। ।।
कृतांजलिपुटः सोऽथ श्वेतो नृपतिसत्तमः ।।
मूर्ध्नि जग्राह तद्वाक्यं मालामिव गुणान्विताम् ।। २२ ।।
इंद्रद्युम्नोऽपि राजर्षिः प्रसाद्य पुरुषोत्तमम् ।।
सह श्रीमान्ब्रह्मलोकं जगाम ह ।। ।। २३ ।।
एतद्वः कथितं पुण्यं क्षेत्रमाहात्म्यमुत्तमम् ।।
तत्र नित्योषितस्यापि माहात्म्यं ब्रह्मदारुणः ।। २४ ।।
यश्चैतच्छृणुयाद्भक्त्या वाच्यमानं द्विजोत्तमाः ।।
अश्वमेधसहस्रस्य फलं सोऽविकलं लभेत् ।। २५ ।।
अर्द्धोदयस्तु यो योगः स्कंदेन परिकीर्तितः ।।
तत्कोटिगुणितं पुण्यं विष्णोर्माहात्म्यकीर्तनात् ।। २६ ।।
प्रातः प्रातर्यः शृणुयात्कपिलाशतदो भवेत् ।।
गांगैः पुष्करजैस्तोयैरभिषेकफलं लभेत् ।। २७ ।।
धन्यं यशस्यमायुष्यं पुण्यं संतानवर्द्धनम्।।
स्वर्गप्रतिष्ठागतिदं सर्वपापापनोदनम् ।। २८ ।।
एतद्रहस्यमाख्यातं पुराणेषु सुगोपितम् ।।
वैष्णवेभ्यो विनाऽन्येषु न तु वाच्यं कदाचन ।।२९।।
कुतर्कोपहता ये च दुरधीतश्रुतागमाः ।।
नास्तिका दांभिका नित्यं परदोषोपदर्शिनः ।।
अवैष्णवा मोघजीवास्तेभ्यो गोप्यं सदैव हि ।। 2.2.48.३० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्येऽष्टचत्वारिंशोऽध्यायः ।। ४८ ।।