सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १३/शैशवानि(असाव्यंशु)

विकिस्रोतः तः
शैशवानि - च्यावनानि
शैशवानि-च्यावानानि.

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
श्येनो न योनिमासदत् ॥४७३ ॥ ऋ. ९.६२.४


(४७३।१) ॥ शैशवानि चत्वारि । चतुर्णां शिशुर्गायत्री श्येनसोमौ ।

आसा। वियꣳशुर्माऽ३१उवाऽ२३ । दाऽ२३४या । आप्सूदाक्षाः । गिराऽ३१उवायेऽ३ । ष्ठाऽ२३४५ः ॥ श्येनोनाऽ२३यो॥ निमाऽ३१उवाऽ२३ ।। साऽ२३४दात् ॥
( दी ०२ । प० ९ । मा० ६ )२१ ( झू । ८६५)


(४७३।२)
असाविया ॥ शूर्मदाऽ२ । य । आप्सुदाक्षाऽ२ः । गाइरिष्ठाः॥ श्याइनोऽ१नायोऽ२३॥ निमोऽ२३४वा । साऽ५दोऽ६हाइ ॥
(दी० २ । प० ८ । मा० ५ )२२ ( जु। ८६६ )

(४७३।३)
असा। वियाओऽ२३४वा।शूर्मदाया। ओऽ२३४वा। आप्साओऽ२३४वा।। दक्षोगिराइ। । ष्ठाओऽ२३४वा। श्येनोनयोनिमासदाऽ२३४५त् ॥
(दी० ६। प० ८ । मा० ५ )२३( गु । ८६७)

(४७३।४)
असा। वियौवाओऽ२३४वा।। शुर्मदायौ । वाओऽ२३४वा । अप्सू । दक्षौवाओऽ२३४वा। गिराइ । ष्ठौवाओऽ२३४वा । श्येनः। नयौवाओऽ२३४वा। निमा । सादौवाओऽ२३४वा ।। होऽ५इ ॥ डा॥
(दी० २ । प० १४ । मा० ९)२४( झो। ८६८)

(४७३।५) ॥ च्यावनानि चत्वारि चतुर्णां । च्यवनो गायत्री श्येना सोमौ ॥
असा। व्युहुवाहाइ॥ अशुर्मदायाप्सुदक्षोगिरिष्ठाउहुवाऽ२३होइ॥ श्याऽ२३इनोऽ३॥ नाऽ२योऽ२३४औहोवा ॥ निमासदाऽ२३४५त् ॥
(दी० ८ । प० ६ । मा० ६ )२५ (टू। ८६९)

(४७३।६).
असाव्यꣳशुः। औहोवाहाइ। मदाऽ२३या । आप्सुदक्षोगिरिष्ठाः। श्याइनोनाऽ३यो। नाऽ२इमाऽ२३४औहोवा ॥ उप् । साऽ२३४दात् ॥
(दी० ६ । प० ८ । मा० ८ )२६ ( गै । ८७० )
   
(४७३।७)
इहाऽ३१२३४ । इहा । साव्यꣳशुर्मदाय । इहा ॥ अप्सुदक्षोगिरिष्ठाऽ३४५: । ईऽ२३४हा ॥ श्येनोनयोऽ२निमाऽ३४५। ईऽ२३४हा ॥ आऽ२सदाऽ३४५त्॥ ईऽ२३४हा ॥
(दी० ६॥ प० १० । मा० २)२७ ( ङा । ८७१)

(४७३।८)
असाऽ२३४ । वियꣳशुः । मदाऽ२३४याऽ६ । हाउ॥ आप्सूदाऽ२३४क्षाः । गिराइष्ठाऽ२३४हाइ।। श्याइनोनाऽयोऽ३॥ नाइमाऽ२३हाऽ३४३इ । साऽ२३४दोऽ६हाइ ॥
(दी० नास्ति । प० ९ । मा० ९ ।)२८(लो।८७२)

[सम्पाद्यताम्]

टिप्पणी

शैशवानि चत्वारि । च्यावनानि चत्वारि ॥आर्षेयब्राह्मणम् ५.१.७

शैशवम् (यत्सोमचित्रमुक्थ्यम् इति) (ऊहगानम्)

शैशवम् (स्वादिष्ठया इति) (ऊहगानम्)

अंशु उपरि टिप्पणी

अंशुग्रहः

अदाभ्यग्रहः

यजुर्वेदे अंशूनां रूपान्तरं अदाभ्यां वाचि अपेक्षितमस्ति, अयं प्रतीयते। अंशूनां रूपान्तरणाय सर्वेषां प्रकाराणां अपसां (पुण्यानां) - दैवीनां - मानुषाणां आवश्यकता भवति(अप्सु दक्षो गिरिष्ठाः)। तदोपरि श्येनस्य स्थित्याः, शिप्रगत्याः प्राप्तिः भवति (श्येनो न योनिमासदत)।

शिशु उपरि आरम्भिक टिप्पणी