सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/अदितेःसाम (कदाचन)

विकिस्रोतः तः
अदितेः साम

(३००।१)
॥ अदितेः साम । अदितिर्बृहतीन्द्रः ॥
क꣥दा꣯चना꣯स्ताऽ६री꣥꣯रसाइ॥ ने꣢न्द्रा᳐सा꣣ऽ२३४श्चा꣥ । सा꣢इदा᳐शू꣣२३४षा꣥इ । उ꣣पो꣤꣯पे꣣꣯न्नुम꣤घ꣥वन्भू꣣꣯य꣤इ꣥त् । हा꣡ऽ२᳐इनू꣣ऽ२३४ता꣥इ॥ दा꣢नं᳐दा꣣ऽ२३४इवा꣥ ॥ स्य꣢पो꣡ऽ२३४वा꣥ । च्या꣤ऽ५तोऽ६हा꣥इ ॥
( दी० ६ । प० ८ । मा० ९ )२१ (गो। ५१३)



कदा च न स्तरीरसि नेन्द्र सश्चसि दाशुषे ।
उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥ ३०० ॥ ऋ. ८.५१.७




(३००।१)
॥ अदितेः साम । अदितिर्बृहतीन्द्रः ॥
कदाचनास्ताऽ६रीरसाइ॥ नेन्द्रासाऽ२३४श्चा । साइदाशू२३षाइ । उपोपेन्नुमघवन्भूयइत् । हाऽ२इनूऽ२३४ताइ॥ दानंदाऽ२३४इवा ॥ स्यपोऽ२३४वा । च्याऽ५तोऽ६हाइ ॥
( दी० ६ । प० ८ । मा० ९ )२१ (गो। ५१३)

[सम्पाद्यताम्]

टिप्पणी