सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.4 चतुर्थप्रपाठकः/1.1.4.1 प्रथमा दशतिः
इम इन्द्राय सुन्विरे सोमासो दध्याशिरः ।
तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥ २९३ ॥
इम इन्द्र मदाय ते सोमाश्चिकित्र उकिथनः ।
मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः ॥ २९४ ॥
आ त्वा३द्य सबर्दुघां हुवे गायत्रवेपसं ।
इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतं ॥ २९५ ॥
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीडवः ।
यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते ॥ २९६ ॥
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
अयं यः पुरो विभिनत्योजसा मन्दानः शिप्र्यन्धसः ॥ २९७ ॥
यदिन्द्र शासो अव्रतं च्यावया सदसस्परि ।
अस्माकमंशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय ॥ २९८ ॥
त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः ।
पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः ॥ २९९ ॥
कदा च न स्तरीरसि नेन्द्र सश्चसि दाशुषे ।
उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥ ३०० ॥
अदितेः साम
युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।
अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥ ३०१ ॥
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।
स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥ ३०२ ॥