सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/त्वष्टुरातिथ्ये द्वे (इन्द्रोदधीचो)

विकिस्रोतः तः
त्वष्टुरातिथ्ये द्वे.


इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ।। १७९ ।। ऋ. १.८४.१३


(१७९।१)
॥ त्वष्टुरातिथ्ये द्वे । द्वयोस्त्वष्टा गायत्रीन्द्रः ॥
इन्द्रोदधीचाअस्थभिरियाऽ२ईऽ३या || वृत्राण्यप्रतिष्कुतइयाऽ२ईऽ३या । जघाननवतीर्नवइयाऽ२ ॥ईऽ२ । या २३४ । औहोवा ॥ ऊऽ२३४पा ॥
 ( दी० ८ । प० ७ । मा० ५ ) १ ( ठ/वु । ३१७ )

( १७९।२ )
इन्द्रोदधाइ || चोअस्थाऽ२३४भीः । वृत्राणिया । प्रातिष्कुताः । जघानाऽ२३ना ॥ वतीर्नवा । औऽ३होवा | होऽ५इ ||डा ।
( दी० ५ । प० ९ | मा० ५ ) २ ( भु | ३१८ )


[सम्पाद्यताम्]

टिप्पणी

इन्द्रोदधीचोअस्थभिरियाईया (ग्राम. ५. ७. १७९. १) इति क्रुष्टद्वितीयादिकं प्रथमम् । इन्द्रोदधाइ (ग्राम. ५. ७. १७९. २) इति मन्द्रादिकं द्वितीयम् । - आर्षेयब्राह्मणम् २.७.५

त्वष्टुरातिथ्यम् (जज्ञानः सप्त मातृभिः - साम १०१)

त्वष्टुरातिथ्ये द्वे (अत्राह गोरमन्वत - साम १४७)