सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/आसितं(आत्वा)

विकिस्रोतः तः
आसितं सिन्धुषाम वा
आसितम् सिन्धुषाम वा.

आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
न त्वामिन्द्राति रिच्यते ।। १९७ ।। ऋ. ८.९२.२२


(१९७।१) ॥ आसितं सिन्धुषाम वा । असितो गायत्रीन्द्रः ॥
आत्वाविशंत्विन्दाऽ६वाः॥ समुद्रमिवसिन्धवः । समुद्रमि । वसिन्धाऽ२३वाः । नत्वामिन्द्रातिरिच्यते ॥ नत्वामाऽ२३इन्द्रा ॥ तिरिच्याऽ२३ताऽ३४३इ । ओऽ२३४५इ ॥ डा॥
(दी० ६। प० ९ । मा० ६) २३ (घू।३३९)

(१९७।१) ॥ आसितं सिन्धुषाम वा । असितो गायत्रीन्द्रः ॥
आ꣥꣯꣯꣯त्वा꣯विशंत्विन्दाऽ६वाः꣥॥ स꣢मुद्र꣡मिव꣢सि꣡न्ध꣢वः । स꣢मुद्र꣡मि । व꣢सि꣡न्धाऽ२३वाः꣢ । न꣡त्वा꣯मिन्द्रा꣯तिरि꣢च्यते꣯ ॥ नत्वा꣡꣯माऽ२३इन्द्रा꣢ ॥ तिरि꣡च्याऽ२३ता꣢ऽ३४३इ । ओ꣡ऽ२३४५इ ॥ डा॥
(दी० ६। प० ९ । मा० ६) २३ (घू।३३९)


[सम्पाद्यताम्]

टिप्पणी

द्र. आष्टादंष्ट्रम् पूर्वम् (आ त्वा इति)

सक्तुमन्थं दधिमधुघृतमिश्रमा त्वा विशन्त्विन्दव इत्यनेन सन्नयेदा मा विशन्त्विन्दवो न मामिन्द्रातिरिच्यत इत्येतेन पिबेदलक्ष्मीं नुदते ॥सामविधानब्रा. ३.१.५

प्रवर्ग्य -- पय आहरन्ति तत् पयः इयोइया अग्ने युङ्क्ष्वा (आ० गा० ११९)। आसिञ्चन्ति तत्सिन्धुसामात्वा विशन्त्विति - लाट्यायनश्रौतसूत्रम् १.६.३१

इन्दवः/इन्दु उपरि डा. सुकर्मपालसिंहतोमरस्य शोधप्रबन्धः