सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०३ख/मार्गीयवम्(तद्वोगाय)

विकिस्रोतः तः
Jump to navigation Jump to search
मार्गीयवम्.
मार्गीयवम्.

तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद्गवे न शाकिने ॥ ११५ ॥ ऋ. ६.४५.२२


 
 
अथैन्द्रं पर्व ॥
(११५।१) (१) ॥ मार्गीयवम् । मृगयुर्गायत्रीन्द्रः ॥
तद्वौहोवा ॥ गायाऽ२ । सुताइसाऽ२३४चा । पुरुहूता । यसात्वाऽ१नाऽ२इ ॥ शंयत् । हा । औऽ३होइ । गाऽ२३४वाइ। नाऽ२शाऽ२३४औहोवा। एऽ३ । किनेऽ२३४५ ॥
(फू । १८१ )
(दी० ५। प० १२ । मा० ६)१

(११५।२) (२) ॥ रौद्रे द्वे। द्वयोरुद्रो गायत्रीन्द्रः॥
तद्वोगाया॥ सुताइसचा३ । पूरुहूताऽ३४ । हाहोऽ३ । यासत्वाऽ२३४नाइ ॥ शंयद्गाऽ२३वे॥ नशौऽ२ । हौऽ२ । हुवोऽ२३४ । वा । काऽ५इनोऽ६हाइ ॥ (ती । १८२ )
(दी० ४ । प० ११ । मा० ४) २

(११५।३) (३)
तद्वोगायसुतेसचाऽ६ए । पुरुहूतायसत्वने । पुरुहूता । यासत्त्वाऽ२३नाऽ३४इ । शंयत् । गौवाओऽ२३४वा ॥ नाऽ२३शाऽ३।। काऽ३४५इनोऽ६हाइ ॥ (डू । १८३ )
( दी० ८ ।प० ८ । मा० ६)३

(११५।४) (४) ॥ ईनिधनं मार्गीयवं । मार्गीयवो ( मृगयुः ) गायत्रीन्द्रः ॥
तद्वोगायसुतेसचाऽ६ए॥ पुरुहूतायसत्वनाइ॥ शंयद्गाऽ२३वे॥ ऐऽ२होऽ१आऽ२३इही । नशाऽ२३॥ काऽ२इनाऽ२३४औहोवा ॥ ईऽ२३४५॥ (छ्रू । १८४)
.
( दी. ७। प० ७ मा० ६) ४
 


[सम्पाद्यताम्]

टिप्पणी

द्र. मार्गीयवं साम(ऊहगानम्)

अथ मार्गीयवं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। मृगयुर् वै देवो ऽकामयतोभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छेयं ये च ग्राम्या ये चारण्या इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यम् अगच्छद् ये च ग्राम्या ये चारण्याः। ततो ह स्म वै तस्मै मृगो मृगम् आनयति। तद् एतत् पशव्यं साम। उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छति ये च ग्राम्या ये चारण्या य एवं वेद। एष ह वाव स देवो मृगयुः। न हास्यैष पशून् अभिमन्यते य एवं वेद। यद् उ मृगयुर् देवो ऽपश्यत् तस्मान् मार्गीयवम् इत्य् आख्यायते॥जैब्रा ३.२१२

आ वो राजा (सा. १.६९) तद्वो वर्ग आज्यदोहानि देवव्रतानि चैषा रौद्री नाम संहितैतां प्रयुञ्जन् रुद्रं प्रीणाति। - सामविधानब्राह्मणम् १.४.१७

अप्तोर्यामप्रकरणम् - कं ते दाना असक्षत यदद्य कच्च वृत्रहन्निति ब्राह्मणाच्छंसिनः ९ तद्वो गाय स्तोत्रमिन्द्राय गायतेति वा १० - शांखायनश्रौतसूत्रम् १५.८.१० (ज्योतिअप्तोर्यामे, यत्र यजमानः ब्राह्मणः भवति, तत्र अतिरिक्तस्तोत्रे ब्राह्मणाच्छंसी स्तोत्रं तद्वोगाय इति अस्ति - द्र. आर्षेयकल्पे ६.३ (पृष्ठ २९८) टिप्पणी)