सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/तृतीयादशतिः/महादिवाकीर्त्यानि(इन्द्रमि)

विकिस्रोतः तः
महादिवाकीर्त्यानि
महादिवाकीर्त्यानि


इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥१५८७
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ १५८८ ॥



२ इन्द्रः । बृहती । इन्द्रः ।।

इन्द्रमिद्देवतातये ।। इन्द्रंप्रयत्यध्वरे ।। इन्द्रꣲसमीकेवनिनोहवामहे ।। इन्द्रंधनस्यसातये ।। श्रीः ।। इन्द्रंधनस्यसातये ।। इन्द्रंधनस्यसातये ।। इन्द्रोमह्नारोदसीपप्रथच्छवः ।। इन्द्रस्सूर्यमरोचयत् ।।श्रीः।। इन्द्रस्सूर्यमरोचयत्
(द्विः) ।। इन्द्रेहविश्वाभुवनानियेमिरे । इन्द्रेस्वानासइन्दवः ।।

दी. ३३ उत्. न. मा. ६ रू. ।।५१।।

महादिवाकीर्त्यानि (विभ्राट् बृहत् )

महादिवाकीर्त्यानि (तवाहं सोम रारण)

महादिवाकीर्त्यानि (बण्महाँ असि)

महादिवाकीर्त्यानि (इन्द्रमिद्देवता)

महादिवाकीर्त्यानि (श्रायन्तइव सूर्यं)