सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/तृतीयादशतिः/आभ्राजम्

विकिस्रोतः तः
आभ्राजम्.
आभ्राजम्

परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् ।
मदेषु सर्वधा असि ।। १०९३ ।। ऋ. ९.१८.१
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
मदेषु सर्वधा असि ।। १०९४ ।।
त्वे विश्वे सजोषसो देवासः पीतिमाशत ।
मदेषु सर्वधा असि ।। १०९५ ।।


७. आभ्राजम् ।। सूर्यः । गायत्री । पवमानस्सोमः ।।
परिसुवानोऽ३गाइराऽ१इष्ठाऽ२ः । । पवित्रेसोमोऽ३आक्षाऽ१राऽ त् ।। ।।श्रीः।। तुवंविप्रस्तुऽ३वांकाऽ१वाऽ२इः ।। मधुप्रजातऽ३मान्धाऽ१साऽ२ः ।।श्रीः ।। तुवेविश्वेसऽ३जोषाऽ१साऽ२ः ।। देवासᳲपीतिऽ३माशाऽ१ताऽ२ ।।
मदेषुसर्वऽ३धाआऽ१साऽ२इ ।। ए । आभ्राज ।।
दी.१५. उत्. न. मा. ११. व ।।५५।।

[सम्पाद्यताम्]

टिप्पणी

द्र. भ्राजाभ्राजे (आरण्यकगानम्)