सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/एकाहपर्व/द्वितीयादशतिः/भर्गः

विकिस्रोतः तः
भर्गः

अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ।। ८१८ ।। ऋ. ९.१०१.७
समु प्रिया अनूषत गावो मदाय घृष्वयः ।
सोमासः कृण्वते पथः पवमानास इन्दवः ।। ८१९ ।।
य ओजिष्ठस्तमा भर पवमान श्रवाय्यं ।
यः पञ्च चर्षणीरभि रयिं येन वनामहे ।। ८२० ।।


१. भर्गः ॥ प्रजापतिः। अनुष्टुप् । पवमानस्सोमः॥

यत् । अयंपूषा । रयाऽइर्भा२३४गाः ॥ सोमᳲपुना । नोआऽ२र्षाऽ२३४ताइ । पतिर्विश्व। स्यभूऽ२माऽ२३४नाः ॥ वियख्यद्रो । दसीऽ२ऊऽ२३४भाइ ॥श्रीः।। समुप्रिया: । अनूऽ२षाऽ२३४ता । गावोमदा । यघाऽ२र्ष्वाऽ२३४याः ॥ सोमासᳲकृ । ण्वताऽ२ इपाऽ२३४थाः ॥ पवमाना । सआऽ२इन्दाऽ२३४वाः ॥श्रीः।। यओजिष्ठः । तमाऽ२भाऽ२३४रा ॥ पवमान । श्रवाऽ२आऽ२३४याम् ॥ यंᳲपञ्चच । षणाऽ२इराऽ२३४भाइ ।। रयिंयेन । वनाऽ२माऽ२३४हाइ ॥ एऽ३ । भर्गाऽ२३४५: ॥

दी. १७ उत् . न. मा. २३. यि. ॥८०॥


[सम्पाद्यताम्]

टिप्पणी

भर्गशब्दोपरि टिप्पणी

भर्गः (अयं पूषा)

भर्गः (परीतो षिञ्चता)ो

भर्गः (पुरोजिती वो )

भर्गः (उत्सो देवः)