सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/हारायणम्

विकिस्रोतः तः
हारायणम्
हारायणम्

अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।। ऋ. ९.१०७.१४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।

[सम्पाद्यताम्]

टिप्पणी

हारायणं भवति। इन्द्रस्तेजस्कामो हरस्कामस्तपोऽतप्यत, स एतद्धारायणमपश्यत् तेन तेजो हरोऽवारुन्ध तेजस्वी हरस्वी भवति हारायणेन तुष्तुवानः - तांब्रा. १४.९ अथ हारायणम्। देवासुरा अस्पर्धन्त। ते देवा अकामयन्त - हरो ऽसुराणां हरेमेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुराणां हरो ऽहरन्। तद् यद् धरो ऽहरंस् तद् धारायणस्य हारायणत्वम्। हरति हरो द्विषतो भ्रातृव्यस्य य एवं वेद। हारायण आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत।.......जैब्रा ३.२१७