सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/सुरूपाद्यम्

विकिस्रोतः तः
सुरूपाद्यम्
सुरूपाद्यम्

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥ १२३५ ॥ ऋ. ९.६३.२२
पवमान नि तोशसे रयिं सोम श्रवाय्यं ।
इन्दो समुद्रमा विश ॥ १२३६ ॥
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनं ॥ १२३७ ॥

[सम्पाद्यताम्]

टिप्पणी

पवस्व देव आयुषगिन्द्रं गच्छतु ते मद"इति गायत्री भवति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति.........सुरूपं भवति। पशवो वै सुरूपं पशूनामवरुध्यै - तांब्रा १४.११

पवस्व देव आयुषम् इति त्रिष्टुभो रूपेण प्रयन्ति। त्रैष्टुभम् एतद् अहः। इन्द्रं गच्छतु ते मदः। वायुम् आ रोह धर्मणा॥ इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य्, ऐवैनद् एतेन प्याययन्ति। पवमान नि तोशसे रयिं सोम श्रवाय्यम्। इन्द्रो समुद्रम् आ विश॥ इति समुद्वतीर् भवन्ति छन्दोमानां रूपम्। समुदो वै छन्दोमाः। अपघ्नन् पवसे मृध इति मृध एवैतेन पाप्मानम् अपघ्नते। तासु गायत्रम् उक्तब्राह्मणम्। अथ मादिलं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। देवा वा अकामयन्त मद्वान् नस् सोम स्यात् सोममदस्य माद्येमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तेषां मद्वान् सोमो ऽभवत् सोममदस्यामाद्यन्। तद् एव मादिलस्य मादिलत्वम्। तद् रसो वै मदः। रसेन ह वाव ते तन् मेदुः। मद्वान् अस्य सोमो रसवान् भवति य एवं वेद। अथो हैषाम् अवारुद्धा इव छन्दोमा स्युर् यद् एतद् अत्र कुर्युः। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यद् अत्र मादिलं भवति रसम् एवैतच् छन्दोमेषु दध्त्य् ऐवैनान् एतेन प्याययन्ति॥जैब्रा ३.२२२

अथ सुरूपं रूपस्यैव समृद्ध्यै। आङ्गिरसो वै तपस् तेपानास् ते रूपेण वर्चसा व्यार्ध्यन्त। ते ऽकामयन्त सं रूपेण वर्चसर्ध्येमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते सं रूपेण वर्चसार्ध्यन्त। ते ऽब्रुवन् सुरूपा वा अभूमेति। तद् एव सुरूपस्य सुरूपत्वम्। सं रूपेण वर्चसर्ध्यते य एवं वेद। सुरूप आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ सुरूप आङ्गिरसो ऽपश्यत् तस्मात् सुरूपम् इत्य् आख्यायते। प्रजापतिः पशून् असृजत। तेषां सृष्टानां रूपाणि न प्राज्ञायन्त। स एतानि सुरूपाणि सामान्य् अपश्यत्। तैर् एषां रूपाण्य् अदधात्। तत् सुरूपाणां सुरूपत्वम्। रूपण्वतः पशून् अवरुन्द्धे य एवं वेद। अर्कसामानो वै छन्दोमास् सुरूपरूपाः। सामन्वद्भी रूपण्वद्भिश् छन्दोमै स्तुते य एवं वेद। तत् पुनर्नितुन्नं छन्दो भवति। यत्र यत्र वै देवा छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वंस्, तत् पुनर् अभ्याघ्नन्। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यत् पुनर्नितुन्नं छन्दो भवति रसम् एवैतच् छन्दोमेषु दधति। रसस्यैवैषानुवित्तिः॥जैब्रा ३.२२३