सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/वासिष्ठमासितम्

विकिस्रोतः तः
वासिष्ठमासितम्.
वासिष्ठमासितम्

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥ १२३५ ॥ ऋ. ९.६३.२२
पवमान नि तोशसे रयिं सोम श्रवाय्यं ।
इन्दो समुद्रमा विश ॥ १२३६ ॥
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनं ॥ १२३७ ॥

[सम्पाद्यताम्]

टिप्पणी

आसितं भवति। असितो वा एतेन दैवलस्त्रयाणां लोकानां दृष्टिमपश्यत् त्रयाणां कामानामवरुध्या आसितं क्रियते। - तांब्रा १४.११.१८

..........स ह पूर्वाह्ण एव देवानां समित्याम् आस, मध्यन्दिने मनुष्याणां द्रुपदस्य वार्द्ध्रविष्णस्य, अपराह्णे पितृणाम्। तद् एतत् स्वर्ग्यं साम। सर्वान् इमान् लोकान् अनुसंचरत्य्, अश्नुते स्वर्गं लोकं य एवं वेद। यद् व् असितो दैवलो ऽपश्यत्, तस्माद् आसितम् इत्य् आख्यायते॥ - जैब्रा ३.२७१