सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/बार्हदुक्थम्

विकिस्रोतः तः
बार्हदुक्थम्.
बार्हदुक्थम्

नृभिर्येमाणो हर्यतो विचक्षणो राजा देवः समुद्र्यः।।८५८।।

[सम्पाद्यताम्]

टिप्पणी

बार्हदुक्थं भवति। बृहदुक्थो वा एतेन वाम्नेयोऽन्नस्य पुरोधामगच्छदन्नं वै ब्रह्मणः पुरोधामन्नाद्यस्यावरुध्यै- तांब्रा १४.९.३७

अथ बार्हदुक्थम्। बृहदुक्थ आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशू्न् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ बृहदुक्थ आङ्गिरसी ऽपश्यत् तस्माद् बार्हदुक्थम् इत्य् आख्यायते। - जैब्रा ३.२१९