सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/पौरुहन्मनम्
अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।। ऋ. ९.१०७.१४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।
टिप्पणी
अथ पौरुहन्मनम् अभ्यारम्भो यज्ञस्य प्रत्यपसारः। अभ्य् एव नवमम् अहर् आरभते प्रति सप्तमम् अपधावति। अभ्यारम्भैर् वै देवा असुरान् यज्ञाद् अन्तरायन्। पुरुहन्मा वैखानसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ पुरुहन्मा वैखानसो ऽपश्यत् तस्मात् पौरुहन्मनम् इत्य् आख्यायते। देवासुरा अस्पर्धन्त। ते देवा अकामयन्त पूर्व एवासुरान् हन्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुरान् पूर्वे ऽघ्नन्। तद् यत् पूर्वे ऽघ्नन् तद् व् एव पौरुहन्मनस्य पौरुहन्मनत्वम्। पूर्व एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद॥जैब्रा. ३.२१५