सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/गायत्रपार्श्वम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
गायत्रपार्श्वम्
गायत्रपार्श्वम्

अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।। ऋ. ९.१०७.१४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।

[सम्पाद्यताम्]

टिप्पणी

अथ गायत्रपार्श्वम्। इमे वै लोका गायत्रपार्श्वम्। एष्व् एव तल् लोकेषु प्रतितिष्ठन्ति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् गायत्रम् एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा गायत्रं वाव नो ऽस्य साम्नः पक्षाव् अभूताम् इति। तद् एव गायत्रपक्षस्य गायत्रपक्षत्वम्। गायत्रपक्षं ह वै नामैतत्। तद् गायत्रपार्श्वम् इत्य् आख्यायते। तद् धिंकारवद् भवत्य् अन्नाद्यस्य प्रत्त्यै। हिंकारवद्भिर् वै प्रजापतिः प्रजाभ्यो ऽन्नाद्यं प्रायच्छत्। प्रास्मा अन्नाद्यं दीयते य एवं वेद॥जैब्रा ३.२१४