सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/काक्षीवतम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
काक्षीवतम्.
काक्षीवतम्.

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥ १२३५ ॥ ऋ. ९.६३.२२
पवमान नि तोशसे रयिं सोम श्रवाय्यं ।
इन्दो समुद्रमा विश ॥ १२३६ ॥
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनं ॥ १२३७ ॥

[सम्पाद्यताम्]

टिप्पणी

अथ काक्षीवतम्। कक्षीवान् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेय, श्रियं राज्यं गच्छेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्रजायत श्रियं राज्यम् अगच्छत्। ते ह वै सहस्रं काक्षीवता आसुः। तैर् ह वै स पुत्रै श्रियं राज्यं जगाम। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। तद् उ स्तोभानुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। पशवश् छन्दोमाः। तेन वै रूपसमृद्धम्। यद् उ कक्षीवान् अपश्यत् तस्मात् काक्षीवतम् इत्य् आख्यायते॥जैब्रा ३.२२४

काक्षीवतं भवति। काक्षीवान् वा एतेनौशिजः प्रजातिं भूमानमगच्छत् प्रजायते बहुर्भवति काक्षीवतेन तुष्टुवानः - तांब्रा. १४.११.१६